अध्याय 33

महाभारत संस्कृत - आश्वमेधिकपर्व

1 [बर] नाहं तथा भीरु चरामि लॊके; तथा तवं मां तर्कयसे सवबुद्ध्या
विप्रॊ ऽसमि मुक्तॊ ऽसमि वनेचरॊ ऽसमि; गृहस्थ धर्मा बरह्म चारी तथास्मि

2 नाहम अस्मि यथा मां तवं पश्यसे चक्षुषा शुभे
मया वयाप्तम इदं सर्वं यत किं चिज जगती गतम

3 ये के चिज जन्तवॊ लॊके जङ्गमाः सथावराश च ह
तेषां माम अन्तकं विद्धि दारूणाम इव पावकम

4 राज्यं पृथिव्यां सर्वस्याम अथ वापि तरिविष्टपे
तथा बुद्धिर इयं वेत्ति बुद्धिर एव धनं मम

5 एकः पन्था बराह्मणानां येन गच्छन्ति तद्विदः
गृहेषु वनवासेषु गुरु वासेषु भिक्षुषु
लिङ्गैर बहुभिर अव्यग्रैर एका बुद्धिर उपास्यते

6 नाना लिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका
ते भावम एकम आयान्ति सरितः सागरं यथा

7 बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम

8 तस्मात ते सुभगे नास्ति परलॊककृतं भयम
मद्भावभावनिरता ममैवात्मानम एष्यसि

अध्याय 3
अध्याय 3