अध्याय 9

महाभारत संस्कृत - आश्रमवासिकपर्व

1 [वै] ततॊ राज्ञाभ्यनुज्ञातॊ धृतराष्ट्रः परतापवान
ययौ सवभवनं राजा गान्धार्यानुगतस तदा

2 मन्दप्राणगतिर धीमान कृच्छ्राद इव समुद्धरन
पदातिः स महीपालॊ जीर्णॊ गजपतिर यथा

3 तम अन्वगच्छद विदुरॊ विद्वान सूतश च संजयः
स चापि परमेष्वासः कृपः शारद्वतस तथा

4 स परविश्य गृहं राजा कृतपूर्वाह्णिक करियः
तर्पयित्वा दविजश्रेष्ठान आहारम अकरॊत तदा

5 गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी
वधूभिर उपचारेण पूजिताभुङ्क्त भारत

6 कृताहारं कृताहाराः सर्वे ते विदुरादयः
पाण्डवाश च कुरुश्रेष्ठम उपातिष्ठन्त तं नृपम

7 ततॊ ऽबरवीन महाराज कुन्तीपुत्रम उपह्वरे
निषण्णं पाणिना पृष्ठे संस्पृशन्न अम्बिका सुतः

8 अप्रमादस तवया कार्यः सर्वथा कुरुनन्दन
अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते

9 तत तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन
राज्यं धर्मं च कौन्तेय विद्वान असि निबॊध तत

10 विद्या वृद्धान सदैव तवम उपासीथा युधिष्ठिर
शृणुयास ते च यद बरूयुः कुर्याश चैवाविचारयन

11 परातर उत्थाय तान राजन पूजयित्वा यथाविधि
कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यम आत्मनः

12 ते तु संमानिता राजंस तवया राज्यहितार्थिना
परवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन

13 इन्द्रियाणि च सर्वाणि वाजिवत परिपालय
हिताय वै भविष्यन्ति रक्षितं दरविणं यथा

14 अमात्यान उपधातीतान पितृपैतामहाञ शुचीन
दान्तान कर्मसु सर्वेषु मुख्यान मुख्येषु यॊजयेः

15 चारयेथाश च सततं चारैर अव्विदितैः परान
परीक्षितैर बहुविधं सवराष्ट्रेषु परेषु च

16 पुरं च ते सुगुप्तं सयाद दृढप्राकारतॊरणम
अट्टाट्टालक संबाधं षट पथं सर्वतॊदिशम

17 तस्य दवाराणि कार्याणि पर्याप्तानि बृहन्ति च
सर्वतः सुविभक्तानि यन्त्रैर आरक्षितानि च

18 पुरुषैर अलम अर्थज्ञैर विदितैः कुलशीलतः
आत्मा च रक्ष्यः सततं भॊजनादिषु भारत

19 विहाराहार कालेषु माल्यशय्यासनेषु च
सत्रियश च ते सुगुप्ताः सयुर वृद्धैर आप्तैर अधिष्ठिताः
शीलवद्भिः कुलीनैश च विद्वद्भिश च युधिष्ठिर

20 मन्त्रिणश चैव कुर्वीथा दविजान विद्या विशारदान
विनीतांश च कुलीनांश च धर्मार्थकुशलान ऋजून

21 तैः सार्धं मन्त्रयेथास तवं नात्यर्थं बहुभिः सह
समस्तैर अपि च वयस्तैर वयपदेशेन केन चित

22 सुसंवृतं मन्त्रगृहं सथलं चारुह्य मन्त्रयेः
अरण्ये निःशलाके वा न च रात्रौ कथं चन

23 वानराः पक्षिणश चैव ये मनुष्यानुकारिणः
सर्वे मन्त्रगृहे वर्ज्या ये चापि जड पङ्गुकाः

24 मन्त्रभेदे हि ये दॊषा भवन्ति पृथिवीक्षिताम
न ते शक्याः समाधातुं कथं चिद इति मे मतिः

25 दॊषांश च मन्त्रभेदेषु बरूयास तवं मन्त्रिमण्डले
अभेदे च गुणान राजन पुनः पुनर अरिंदम

26 पौरजानपदानां च शौचाशौचं युधिष्ठिरः
यथा सयाद विदितं राजंस तथा कार्यम अरिंदम

अध्याय 1
अध्याय 8