अध्याय 45

महाभारत संस्कृत - आश्रमवासिकपर्व

1 [वै] दविवर्षॊपनिवृत्तेषु पाण्डवेषु यदृच्छया
देवर्षिर नारदॊ राजन्न आजगाम युधिष्ठिरम

2 तम अभ्यर्च्य महाबाहुः कुरुराजॊ युधिष्ठिरः
आसीनं परिविश्वस्तं परॊवाच वदतां वरः

3 चिरस्य खलु पश्यामि भगवन्तम उपस्थितम
कच चित ते कुशलं विप्र शुभं वा परत्युपस्थितम

4 के देशाः परिदृष्टास ते किं च कार्यं करॊमि ते
तद बरूहि दविजमुख्य तवम अस्माकं च परियॊ ऽतिथिः

5 [नारद] चिरदृष्टॊ ऽसि मे राजन्न आगतॊ ऽसमि तपॊवनात
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप

6 [य] वदन्ति पुरुषा मे ऽदय गङ्गातीरनिवासिनः
धृतराष्ट्रं महात्मानम आस्थितं परमं तपः

7 अपि दृष्टस तवया तत्र कुशली स कुरूद्वहः
गान्धारी च पृथा चैव सूतपुत्रश च संजयः

8 कथं च वर्तते चाद्य पिता मम स पार्थिवः
शरॊतुम इच्छामि भगवन यदि दृष्टस तवया नृपः

9 [नारद] सथिरी भूय महाराज शृणु सर्वं यथातथम
यथा शरुतं च दृष्टं च मया तस्मिंस तपॊवने

10 वनवास निवृत्तेषु भवत्सु कुरुनन्दन
कुरुक्षेत्रात पिता तुभ्यं गङ्गाद्वारं ययौ नृप

11 गान्धार्या सहितॊ धीमान वध्वा कुन्त्या समन्वितः
संजयेन च सूतेन साग्निहॊत्रः सयाजकः

12 आतस्थे स तपस तीव्रं पिता तव तपॊधनः
वीटां मुखे समाधाय वायुभक्षॊ ऽभवन मुनिः

13 वने स मुनिभिः सर्वैः पूज्यमानॊ महातपाः
तवग अस्थि मात्रशेषः स षण मासान अभवन नृपः

14 गान्धारी तु जलाहारा कुन्ती मासॊपवासिनी
संजयः षष्ठ भक्तेन वर्तयाम आस भारत

15 अग्नींस तु याजकास तत्र जुहुवुर विधिवत परभॊ
दृश्यतॊ ऽदृश्यतश चैव वने तस्मिन नृपस्य ह

16 अनिकेतॊ ऽथ राजा स बभूव वनगॊचरः
ते चापि सहिते देव्यौ संजयश च तम अन्वयुः

17 संजयॊ नृपतेर नेता समेषु विषमेषु च
गान्धार्यास तु पृथा राजंश चक्षुर आसीद अनिन्दिता

18 ततः कदा चिद गङ्गायाः कच्छे स नृपसत्तमः
गङ्गायाम आप्लुतॊ धीमान आश्रमाभिमुखॊ ऽभवत

19 अथ वायुः समुद्भूतॊ दावाग्निर अभवन महान
ददाह तद वनं सर्वं परिगृह्य समन्ततः

20 दह्यत्सु मृगयूथेषु दविजिह्वेषु समन्ततः
वराहाणां च यूथेषु संश्रयत्सु जलाशयान

21 समाविद्धे वने तस्मिन पराप्ते वयसन उत्तमे
निराहारतया राजा मन्दप्राणविचेष्टितः
असमर्थॊ ऽपसरणे सुकृशौ मातरौ च ते

22 ततः स नृपतिर दृष्ट्वा वह्निम आयान्तम अन्तिकात
इदम आह ततः सूतं संजयं पृथिवीपते

23 गच्छ संजय यत्राग्निर न तवां दहति कर्हि चित
वयम अत्राग्निना युक्ता गमिष्यामः परां गतिम

24 तम उवाच किलॊद्विग्नः संजयॊ वदतां वरः
राजन मृत्युर अनिष्टॊ ऽयं भविता ते वृथाग्निना

25 न चॊपायं परपश्यामि मॊक्षणे जातवेदसः
यद अत्रानन्तरं कार्यं तद भवान वक्तुम अर्हति

26 इत्य उक्तः संजयेनेदं पुनर आह स पार्थिवः
नैष मृत्युर अनिष्टॊ नॊ निःसृतानां गृहात सवयम

27 जलम अग्निस तथा वायुर अथ वापि विकर्शनम
तापसानां परशस्यन्ते गच्चः संजय माचिरम

28 इत्य उक्त्वा संजयं राजा समाधाय मनस तदा
पराङ्मुखः सह गान्धार्या कुन्त्या चॊपाविशत तदा

29 संजयस तं तथा दृष्ट्वा परदक्षिणम अथाकरॊत
उवाच चैनं मेधावी युङ्क्ष्वात्मानम इति परभॊ

30 ऋषिपुत्रॊ मनीषी स राजा चक्रे ऽसय तद वचः
संनिरुध्येन्द्रिय गरामम आसीत काष्ठॊपमस तदा

31 गान्धारी च महाभागा जननी च पृथा तव
दावाग्निना समायुक्ते स च राजा पिता तव

32 संजयस तु महामात्रस तस्माद दावाद अमुच्यत
गङ्गाकूले मया दृष्टस तापसैः परिवारितः

33 स तान आमन्त्र्य तेजस्वी निवेद्यैतच च सर्वशः
परययौ संजयः सूतॊ हिमवन्तं महीधरम

34 एवं स निधनं पराप्तः कुरुराजॊ महामनाः
गान्धारी च पृथा चैव जनन्यौ ते नराधिप

35 यदृच्छयानुव्रजता मया राज्ञः कलेवरम
तयॊश च देव्यॊर उभयॊर दृष्टानि भरतर्षभ

36 ततस तपॊवने तस्मिन समाजग्मुस तपॊधनाः
शरुत्वा राज्ञस तथा निष्ठां न तव अशॊचन गतिं च ते

37 तत्राश्रौषम अहं सर्वम एतत पुरुषसत्तम
यथा च नृपतिर दग्धॊ देव्यौ ते चेति पाण्डव

38 न शॊचितव्यं राजेन्द्र सवन्तः स पृथिवीपतिः
पराप्तवान अग्निसंयॊगं गान्धारी जननी च ते

39 [वै] एतच छरुत्वा तु सर्वेषां पाण्डवानां महात्मनाम
निर्याणं धृतराष्ट्रस्य शॊकः समभवन महान

40 अन्तःपुराणां च तदा महान आर्तस्वरॊ ऽभवत
पौराणां च महाराज शरुत्वा राज्ञस तदा गतिम

41 अहॊ धिग इति राजा तु विक्रुश्य भृशदुःखितः
ऊर्ध्वबाहुः समरन मातुः पररुरॊद युधिष्ठिरः
भीमसेनपुरॊगश च भरातरः सर्व एव ते

42 अन्तःपुरेषु च तदा सुमहान रुदितस्वनः
परादुरासीन महाराज पृथां शरुत्वा तथागताम

43 तं च वृद्धां तथा दग्धं हतपुत्रं नराधिपम
अन्वशॊचन्त ते सर्वे गान्धारीं च तपस्विनीम

44 तस्मिन्न उपरते शब्दे मुहूर्ताद इव भारत
निगृह्य बाष्पं धैर्येण धर्मराजॊ ऽबरवीद इदम

अध्याय 4
अध्याय 4