अध्याय 28

महाभारत संस्कृत - आश्रमवासिकपर्व

1 [वै] वनं गते कौरवेन्द्रे दुःखशॊकसमाहताः
बभूवुः पाण्डवा राजन मातृशॊकेन चार्दिताः

2 तथा पौरजनः सर्वः शॊचन्न आस्ते जनाधिपम
कुर्वाणाश च कथास तत्र बराह्मणा नृपतिं परति

3 कथं नु राजा वृद्धः स वने वसति निर्जने
गान्धारी च महाभागा सा च कुन्ती पृथा कथम

4 सुखार्हः स हि राजर्षिर न सुखं तन महावनम
किम अवस्थः समासाद्य परज्ञा चक्षुर हतात्मजः

5 सुदुष्करं कृतवती कुन्तीपुत्रान अपश्यती
राज्यश्रियं परित्यज्य वनवासम अरॊचयत

6 विदुरः किम अवस्थश च भरातुः शुश्रूषुर आत्मवान
स च गावल्गणिर धीमान भर्तृपिण्डानुपालकः

7 आकुमारं च पौरास ते चिन्ताशॊकसमाहताः
तत्र तत्र कथाश चक्रुः समासाद्य परस्परम

8 पाण्डवाश चैव ते सर्वे भृशं शॊकपरायणाः
शॊचन्तॊ मातरं वृद्धाम ऊषुर नातिचिरं पुरे

9 तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम
गान्धारीं च महाभागां विदुरं च महामतिम

10 नैषां बभूव संप्रीतिस तान विचिन्तयतां तदा
न राज्ये न च नारीषु न वेदाध्ययने तथा

11 परं निर्वेदम अगमंश चिन्तयन्तॊ नराधिपम
तच च जञातिवधं घॊरं संस्मरन्तः पुनः पुनः

12 अभिमन्यॊश च बालस्य विनाशं रणमूर्धनि
कर्णस्य च महाबाहॊः संग्रामेष्व अपलायिनः

13 तथैव दरौपदेयानाम अन्येषां सुहृदाम अपि
वधं संस्मृत्य ते वीरा नातिप्रमनसॊ ऽभवन

14 हतप्रवीरां पृथिवीं हतरत्नां च भारत
सदैव चिन्तयन्तस ते न निद्राम उपलेभिरे

15 दरौपदी हतपुत्रा च सुभद्रा चैव भामिनी
नातिप्रीति युते देव्यौ तदास्ताम अप्रहृष्टवत

16 वैराट्यास तु सुतं दृष्ट्वा पितरं ते परिक्षितम
धारयन्ति सम ते पराणांस तव पूर्वपितामहा

अध्याय 2
अध्याय 2