अध्याय 19

महाभारत संस्कृत - आश्रमवासिकपर्व

1 [वै] एवम उक्तस तु राज्ञा स विदुरॊ बुद्धिसत्तमः
धृतराष्ट्रम उपेत्येदं वाक्यम आह महार्थवत

2 उक्तॊ युधिष्ठिरॊ राजा भवद वचनम आदितः
स च संश्रुत्य वाक्यं ते परशशंस महाद्युतिः

3 बीभत्सुश च महातेजा निवेदयति ते गृहान
वसु तस्य गृहे यच च पराणान अपि च केवलान

4 धर्मराजश च पुत्रस ते राज्यं पराणान धनानि च
अनुजानाति राजर्षे यच चान्यद अपि किं चन

5 भीमस तु सर्वदुःखानि संस्मृत्य बहुलान्य उत
कृच्छ्राद इव महाबाहुर अनुमन्य विनिःश्वसन

6 स राज्ञा धर्मशीलेन भरात्रा बीभत्सुना तथा
अनुनीतॊ महाबाहुः सौहृदे सथापितॊ ऽपि च

7 न च मन्युस तवया कार्य इति तवां पराह धर्मराट
संस्मृत्य भीमस तद वैरं यद अन्यायवद आचरेत

8 एवं परायॊ हि धर्मॊ ऽयं कषत्रियाणां नराधिप
युद्धे कषत्रिय धर्मे च निरतॊ ऽयं वृकॊदरः

9 वृकॊदर कृते चाहम अर्जुनश च पुनः पुनः
परसादयाव नृपते भवान परभुर इहास्ति यत

10 परददातु भवान वित्तं यावद इच्छसि पार्थिव
तवम ईश्वरॊ नॊ राज्यस्य पराणानां चेति भारत

11 बरह्म देयाग्रहारांश च पुत्राणां चौर्ध्व देहिकम
इतॊ रत्नानि गाश चैव दासीदासम अजाविकम

12 आनयित्वा कुरुश्रेष्ठॊ बराह्मणेभ्यः परयच्छतु
दीनान्ध कृपणेभ्यश च तत्र तत्र नृपाज्ञया

13 बह्व अन्नरसपानाढ्याः सभा विदुर कारय
गवां निपानान्य अन्यच च विविधं पुण्यकर्म यत

14 इति माम अब्रवीद राजा पार्थैश चैव धनंजयः
यद अत्रानन्तरं कार्यं तद भवान वक्तुम अर्हति

15 इत्य उक्तॊ विदुरेणाथ धृतराष्ट्रॊ ऽभिनन्द्य तत
मनश चक्रे महादाने कार्तिक्यां जनमेजय

अध्याय 2
अध्याय 1