अध्याय 149
1 [य]
नाभाग धेयः पराप्नॊति धनं सुबलवान अपि
भागधेयान्वितस तव अर्थान कृशॊ बालश च विन्दति
2 नालाभ काले लभते परयत्ने ऽपि कृते सति
लाभकाले ऽपरयत्नेन लभते विपुलं धनम
कृतयत्नाफलाश चैव दृश्यन्ते शतशॊ नराः
3 यदि यत्नॊ भवेन मर्त्यः स सर्वं फलम आप्नुयात
नालभ्यं चॊपलभ्येत नृणां भरतसत्तम
4 यदा परयत्नं कृतवान दृश्यते हय अफलॊ नरः
मार्गन नयशतैर अर्थान अमार्गंश चापरः सुखी
5 अकार्यम असकृत कृत्वा दृश्यन्ते हय अधना नराः
धनयुक्तास तव अधर्मस्था दृश्यन्ते चापरे जनाः
6 अधीत्य नीतिं यस्माच च नीतियुक्तॊ न दृश्यते
अनभिज्ञश च साचिव्यं गमितः केन हेतुना
विद्या युक्तॊ हय अविद्यश च धनवान दुर्गतस तथा
7 यदि विद्याम उपाश्रित्य नरः सुखम अवाप्नुयात
न विद्वान विद्यया हीनं वृत्त्यर्थम उपसंश्रयेत
8 यथा पिपासां जयति पुरुषः पराप्य वै जलम
दृष्टार्थॊ विद्ययाप्य एवम अविद्यां परजहेन नरः
9 नाप्राप्तकालॊ मरियते विद्धः शरशतैर अपि
तृणाग्रेणापि संस्पृष्टः पराप्तकालॊ न जीवति
10 [भ]
ईहमानः समारम्भान यदि नासादयेद धनम
उग्रं तपः समारॊहेन न हय अनुप्तं पररॊहति
11 दानेन भॊगी भवति मेधावी वृद्धसेवया
अहिंसया च दीर्घायुर इति पराहुर मनीषिणः
12 तस्माद दद्यान न याचेत पूजयेद धार्मिकान अपि
सवाभाषी परिय कृच छुद्धः सर्वसत्त्वाविहिंसकः
13 यदा परमाण परभवः सवभावश च सुखासुखे
मश कीट पिपीलानां सथिरॊ भव युधिष्ठिर