अध्याय 26

महाभारत संस्कृत - आदिपर्व

1 [स] सपृष्टमात्रा तु पद्भ्यां स गरुडेन बलीयसा
अभज्यत तरॊः शाखा भग्नां चैनाम अधारयत

2 तां भग्नां स महाशाखां समयन समवलॊकयन
अथात्र लम्बतॊ ऽपश्यद वालखिल्यान अधॊमुखान

3 स तद्विनाशसंत्रासाद अनुपत्य खगाधिपः
शाखाम आस्येन जग्राह तेषाम एवान्ववेक्षया
शनैः पर्यपतत पक्षी पर्वतान परविशातयन

4 एवं सॊ ऽभयपतद देशान बहून सगज कच्छपः
दयार्थं वालखिल्यानां न च सथानम अविन्दत

5 स गत्वा पर्वतश्रेष्ठं गन्धमादनम अव्ययम
ददर्श कश्यपं तत्र पितरं तपसि सथितम

6 ददर्श तं पिता चापि दिव्यरूपं विहंगमम
तेजॊ वीर्यबलॊपेतं मनॊमारुतरंहसम

7 शैलशृङ्गप्रतीकाशं बरह्मदण्डम इवॊद्यतम
अचिन्त्यम अनभिज्ञेयं सर्वभूतभयंकरम

8 मायावीर्यधरं साक्षाद अग्निम इद्धम इवॊद्यतम
अप्रधृष्यम अजेयं च देवदानवराक्षसैः

9 भेत्तारं गिरिशृङ्गाणां नदी जलविशॊषणम
लॊकसंलॊडनं घॊरं कृतान्तसमदर्शनम

10 तम आगतम अभिप्रेक्ष्य भगवान कश्यपस तदा
विदित्वा चास्य संकल्पम इदं वचनम अब्रवीत

11 पुत्र मा साहसं कार्षीर मा सद्यॊ लप्स्यसे वयथाम
मा तवा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः

12 परसादयाम आस स तान कश्यपः पुत्रकारणात
वालखिल्यांस तपःसिद्धान इदम उद्दिश्य कारणम

13 परजाहितार्थम आरम्भॊ गरुडस्य तपॊधनाः
चिकीर्षति महत कर्म तदनुज्ञातुम अर्हथ

14 एवम उक्ता भगवता मुनयस ते समभ्ययुः
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपॊ ऽरथिनः

15 ततस तेष्व अपयातेषु पितरं विनतात्मजः
शाखा वयाक्षिप्तवदनः पर्यपृच्छत कश्यपम

16 भगवन कव विमुञ्चामि तरुशाखाम इमाम अहम
वर्जितं बराह्मणैर देशम आख्यातु भगवान मम

17 ततॊ निष्पुरुषं शैलं हिमसंरुद्ध कन्दरम
अगम्यं मनसाप्य अन्यैस तस्याचख्यौ स कश्यपः

18 तं पर्वत महाकुक्षिम आविश्य मनसा खगाः
जवेनाभ्यपतत तार्क्ष्यः सशाखा गजकच्छपः

19 न तां वध्रः परिणहेच छतचर्मा महान अणुः
शाखिनॊ महतीं शाखां यां परगृह्य ययौ खगः

20 ततः स शतसाहस्रं यॊजनान्तरम आगतः
कालेन नातिमहता गरुडः पततां वरः

21 स तं गत्वा कषणेनैव पर्वतं वचनात पितुः
अमुञ्चन महतीं शाखां सस्वनां तत्र खेचरः

22 पक्षानिलहतश चास्य पराकम्पत स शैलराट
मुमॊच पुष्पवर्षं च समागलित पादपः

23 शृङ्गाणि च वयशीर्यन्त गिरेस तस्य समन्ततः
मणिकाञ्चनचित्राणि शॊभयन्ति महागिरिम

24 शाखिनॊ बहवश चापि शाखयाभिहतास तया
काञ्चनैः कुसुमैर भान्ति विद्युत्वन्त इवाम्बुदाः

25 ते हेमविकचा भूयॊ युक्ताः पर्वतधातुभिः
वयराजञ शाखिनस तत्र सूर्यांशुप्रतिरञ्जिताः

26 ततस तस्य गिरेः शृङ्गम आस्थाय स खगॊत्तमः
भक्षयाम आस गरुडस ताव उभौ गजकच्छपौ

27 ततः पर्वतकूटाग्राद उत्पपात मनॊजवः
परावर्तन्ताथ देवानाम उत्पाता भयवेदिनः

28 इन्द्रस्य वर्जं दयितं परजज्वाल वयथान्वितम
सधूमा चापतत सार्चिर दिवॊल्का नभसश चयुता

29 तथा वसूनां रुद्राणाम आदित्यानां च सर्वशः
साध्यानां मरुतां चैव ये चान्ये देवता गणाः
सवं सवं परहरणं तेषां परस्परम उपाद्रवत

30 अभूतपूर्वं संग्रामे तदा देवासुरे ऽपि च
ववुर वाताः सनिर्घाताः पेतुर उल्काः समन्ततः

31 निरभ्रम अपि चाकाशं परजगर्ज महास्वनम
देवानाम अपि यॊ देवः सॊ ऽपय अवर्षद असृक तदा

32 मम्लुर माल्यानि देवानां शेमुस तेजांसि चैव हि
उत्पातमेघा रौद्राश च ववर्षुः शॊणितं बहु
रजांसि मुकुटान्य एषाम उत्थितानि वयधर्षयन

33 ततस तराससमुद्विग्नः सह देवैः शतक्रतुः
उत्पातान दारुणान पश्यन्न इत्य उवाच बृहस्पतिम

34 किमर्थं भगवन घॊरा महॊत्पाताः समुत्थिताः
न च शत्रुं परपश्यामि युधि यॊ नः परधर्षयेत

35 [बृह] तवापराधाद देवेन्द्र परमादाच च शतक्रतॊ
तपसा वालखिल्यानां भूतम उत्पन्नम अद्भुतम

36 कश्यपस्य मुनेः पुत्रॊ विनतायाश च खेचरः
हर्तुं सॊमम अनुप्राप्तॊ बलवान कामरूपवान

37 समर्थॊ बलिनां शरेष्ठॊ हर्तुं सॊमं विहंगमः
सर्वं संभावयाम्य अस्मिन्न असाध्यम अपि साधयेत

38 [स] शरुत्वैतद वचनं शक्रः परॊवाचामृत रक्षिणः
महावीर्यबलः पक्षी हर्तुं सॊमम इहॊद्यतः

39 युष्मान संबॊधयाम्य एष यथा स न हरेद बलात
अतुलं हि बलं तस्य बृहस्पतिर उवाच मे

40 तच छरुत्वा विबुधा वाक्यं विस्मिता यत्नम आस्थिताः
परिवार्यामृतं तस्थुर वज्री चेन्द्रः शतक्रतुः

41 धारयन्तॊ महार्हाणि कवचानि मनस्विनः
काञ्चनानि विचित्राणि वैडूर्य विकृतानि च

42 विविधानि च शस्त्राणि घॊररूपाण्य अनेकशः
शिततीक्ष्णाग्र धाराणि समुद्यम्य सहस्रशः

43 सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः
चक्राणि परिघांश चैव तरिशूलानि परश्वधान

44 शक्तीश च विविधास तीक्ष्णाः करवालांश च निर्मलान
सवदेहरूपाण्य आदाय गदाश चॊग्रप्रदर्शनाः

45 तैः शस्त्रैर भानुमद्भिस ते दिव्याभरणभूषिताः
भानुमन्तः सुरगणास तस्थुर विगतकल्मषाः

46 अनुपम बलवीर्यतेजसॊ; धृतमनसः परिरक्षणे ऽमृतस्य
असुरपुरविदारणाः सुरा; जवलनसमिद्ध वपुः परकाशिनः

47 इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम
विगलितम इव चाम्बरान्तरे; तपन मरीचिविभासितं बभौ

अध्याय 2
अध्याय 4