अध्याय 24

महाभारत संस्कृत - आदिपर्व

1 [सू] इत्य उक्तॊ गरुडः सर्पैर ततॊ मातरम अब्रवीत
गच्छाम्य अमृतम आहर्तुं भक्ष्यम इच्छामि वेदितुम

2 [वि] समुद्रकुक्षाव एकान्ते निषादालयम उत्तमम
सहस्राणाम अनेकानां तान भुक्त्वामृतम आनय

3 न तु ते बराह्मणं हन्तुं कार्या बुद्धिः कदा चन
अवध्यसर्वभूतानां बराह्मणॊ हय अनलॊपमः

4 अग्निर अर्कॊ विषं शस्त्रं विप्रॊ भवति कॊपितः
भूतानाम अग्रभुग विप्रॊ वर्णश्रेष्ठः पिता गुरुः

5 [ग] यथाहम अभिजानीयां बराह्मणं लक्षणैः शुभैः
तन मे कारणतॊ मातः पृच्छतॊ वक्तुम अर्हसि

6 [वि] यस ते कण्ठम अनुप्राप्तॊ निगीर्णं बडिशं यथा
दहेद अङ्गारवत पुत्र तं विद्याद बाह्मणर्षभम

7 [सू] परॊवाच चैनं विनता पुत्रहार्दाद इदं वचः
जानन्त्य अप्य अतुलं वीर्यम आशीर्वादसमन्वितम

8 पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक
शिरस तु पातु ते वह्निर भास्करः सर्वम एव तु

9 अहं च ते सदा पुत्र शान्ति सवस्ति परायणा
अरिष्टं वरज पन्थानं वत्स कार्यार्थसिद्धये

10 ततः स मातुर वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात
ततॊ निषादान बलवान उपागमद; बुभुक्षितः काल इवान्तकॊ महान

11 स तान निषादान उपसंहरंस तदा; रजः समुद्धूय नभःस्पृशं महत
समुद्रकुक्षौ च विशॊषयन पयः; समीपगान भूमिधरान विचालयन

12 ततः सचक्रे महद आननं तदा; निषादमार्गं परतिरुध्य पक्षिराट
ततॊ निषादास तवरिताः परवव्रजुर; यतॊ मुखं तस्य भुजंगभॊजितः

13 तद आननं विवृतम अतिप्रमाणवत; समभ्ययुर गगनम इवार्दिताः खगाः
सहस्रशः पवनरजॊ ऽभरमॊहिता; महानिल परचलित पादपे वने

14 ततः खगॊ वदनम अमित्रतापनः; समाहरत परिचपलॊ महाबलः
निषूदयन बहुविध मत्स्यभक्षिणॊ; बुभुक्षितॊ गगनचरेश्वरस तदा

अध्याय 2
अध्याय 2