अध्याय 129
1 [वै]
पराणाधिकं भीमसेनं कृतविद्यं धनंजयम
दुर्यॊधनॊ लक्षयित्व पर्यतप्यत दुर्मतिः
2 ततॊ वैकर्तनः कर्णः शकुनिश चापि सौबलः
अनेकैर अभ्युपायैस ताञ जिघांसन्ति सम पाण्डवान
3 पाण्डवाश चापि तत सर्वं परत्यजानन्न अरिंदमाः
उद्भावनम अकुर्वन्तॊ विदुरस्य मते सथिताः
4 गुणैः समुदितान दृष्ट्वा पौराः पाण्डुसुतांस तदा
कथयन्ति सम संभूय चत्वरेषु सभासु च
5 परज्ञा चक्षुर अचक्षुष्ट्वाद धृतराष्ट्रॊ जनेश्वरः
राज्यम अप्राप्तवान पूर्वं सा कथं नृपतिर भवेत
6 तथा भीष्मः शांतनवः सत्यसंधॊ महाव्रतः
परत्याख्याय पुरा राज्यं नाद्य जातु गरहीष्यति
7 ते वयं पाण्डवं जयेष्ठं तरुणं वृद्धशीलिनम
अभिषिञ्चाम साध्व अद्य सत्यं करुणवेदिनम
8 स हि भीष्मं शांतनवं धृतराष्ट्रं च धर्मवित
सपुत्रं विविधैर भॊगैर यॊजयिष्यति पूजयन
9 तेषां दुर्यॊधनः शरुत्वा तानि वाक्यानि भाषताम
युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः
10 स तप्यमानॊ दुष्टात्मा तेषां वाचॊ न चक्षमे
ईर्ष्यया चाभिसंतप्तॊ धृतराष्ट्रम उपागमत
11 ततॊ विरहितं दृष्ट्वा पितरं परतिपूज्य सः
पौरानुराग संतप्तः पश्चाद इदम अभाषत
12 शरुता मे जल्पतां तात परौराणाम अशिवा गिरः
तवाम अनादृत्य भीष्मं च पतिम इच्छन्ति पाण्डवम
13 मतम एतच च भीष्मस्य न स राज्यं बुभूषति
अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः
14 पितृतः पराप्तवान राज्यं पाण्डुर आत्मगुणैः पुरा
तवम अप्य अगुण संयॊगात पराप्तं राज्यं न लब्धवान
15 स एष पाण्डॊर दायाद्यं यदि पराप्नॊति पाण्डवः
तस्य पुत्रॊ धरुवं पराप्तस तस्य तस्येति चापरः
16 ते वयं राजवंशेन हीनाः सह सुतैर अपि
अवज्ञाता भविष्यामॊ लॊकस्य जगतीपते
17 सततं निरयं पराप्ताः परपिण्डॊपजीविनः
न भवेम यथा राजंस तथा शीघ्रं विधीयताम
18 अभविष्यः सथिरॊ राज्ये यदि हि तवं पुरा नृप
धरुवं पराप्स्याम च वयं राज्यम अप्य अवशे जने