अध्याय 130

महाभारत संस्कृत - आदिपर्व

1 [वै] धृतराष्ट्रस तु पुत्रस्य शरुत्वा वचनम ईदृशम
मुहूर्तम इव संचिन्त्य दुर्यॊधनम अथाब्रवीत

2 धर्मनित्यः सदा पाण्डुर ममासीत परियकृद धितः
सर्वेषु जञातिषु तथा मयि तव आसीद विशेषतः

3 नास्य किं चिन न जानामि भॊजनादि चिकीर्षितम
निवेदयति नित्यं हि मम राज्यं धृतव्रतः

4 तस्य पुत्रॊ यथा पाण्डुस तथा धर्मपरायणः
गुणवाँल लॊकविख्यातः पौराणां च सुसंमतः

5 स कथं शक्यम अस्माभिर अपक्रष्टुं बलाद इतः
पितृपैतामहाद राज्यात ससहायॊ विशेषतः

6 भृता हि पाण्डुनामात्या बलं च सततं भृतम
भृताः पुत्राश च पौत्राश च तेषाम अपि विशेषतः

7 ते पुरा सत्कृतास तात पाण्डुना पौरवा जनाः
कथं युधिष्ठिरस्यार्थे न नॊ हन्युः सबान्धवान

8 [दुर] एवम एतन मया तात भावितं दॊषम आत्मनि
दृष्ट्वा परकृतयः सर्वा अर्थमानेन यॊजिताः

9 धरुवम अस्मत सहायास ते भविष्यन्ति परधानतः
अर्थवर्गः सहामात्यॊ मत्संस्थॊ ऽदय महीपते

10 स भवान पाण्डवान आशु विवासयितुम अर्हति
मृदुनैवाभ्युपायेन नगरं वारणावतम

11 यदा परतिष्ठितं राज्यं मयि राजन भविष्यति
तदा कुन्ती सहापत्या पुनर एष्यति भारत

12 [धृ] दुर्यॊधन ममाप्य एतद धृदि संपरिवर्तते
अभिप्रायस्य पापत्वान नैतत तु विवृणॊम्य अहम

13 न च भीष्मॊ न च दरॊणॊ न कषत्ता न च गौतमः
विवास्यमानान कौन्तेयान अनुमंस्यन्ति कर्हि चित

14 समा हि कौरवेयाणां वयम एते च पुत्रक
नैते विषमम इच्छेयुर धर्मयुक्ता मनस्विनः

15 ते वयं कौरवेयाणाम एतेषां च महात्मनाम
कथं न वध्यतां तात गच्छेम जगतस तथा

16 [दुर] मध्यस्थः सततं भीष्मॊ दरॊणपुत्रॊ मयि सथितः
यतः पुत्रस ततॊ दरॊणॊ भविता नात्र सांशयः

17 कृपः शारद्वतश चैव यत एते तरयस ततः
दरॊणं च भागिनेयं च न स तयक्ष्यति कर्हि चित

18 कषत्तार्थ बद्धस तव अस्माकं परच्छन्नं तु यतः परे
न चैकः स समर्थॊ ऽसमान पाण्डवार्थे परबाधितुम

19 स विश्रब्धः पाण्डुपुत्रान सह मात्रा विवासय
वारणावतम अद्यैव नात्र दॊषॊ भविष्यति

20 विनिद्र करणं घॊरं हृदि शल्यम इवार्पितम
शॊकपावकम उद्भूतं कर्मणैतेन नाशय

अध्याय 1
अध्याय 1