1 [व] कृत्वा विवाहं तु कुरुप्रवीरास; तदाभिमन्यॊर मुदितस्वपक्षाः विश्रम्य चत्वार्य उषसः परतीताः; सभां विराटस्य ततॊ ऽभिजग्मुः