अध्याय 158
1 [य]
आनृशंस्यं विजानामि दर्शनेन सतां सदा
नृशंसान न विजानामि तेषां कर्म च भारत
2 कण्टकान कूपम अग्निं च वर्जयन्ति यथा नराः
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम
3 नृशंसॊ हय अधमॊ नित्यं परेत्य चेह च भारत
तस्माद बरवीहि कौरव्य तस्य धर्मविनिश्चयम
4 [भ]
सपृहास्यान्तर्हिता चैव विदितार्था च कर्मणा
आक्रॊष्टा करुश्यते चैव बन्धिता बध्यते च यः
5 दत्तानुकीर्ति विषमः कषुद्रॊ नैकृतिकः शठः
असंभॊगी च मानी च तथा सङ्गी विकत्थनः
6 सर्वातिशङ्की परुषॊ बालिशः कृपणस तथा
वर्ग परशंसी सततम आश्रमद्वेषसंकरी
7 हिंसाविहारी सततम अविशेष गुणागुणः
बह्व अलीकॊ मनस्वी च लुब्धॊ ऽतयर्थं नृशंसकृत
8 धर्मशीलं गुणॊपेतं पाप इत्य अवगच्छति
आत्मशीलानुमानेन न विश्वसिति कस्य चित
9 परेषां यत्र दॊषः सयात तद गुह्यं संप्रकाशयेत
समानेष्व एव दॊषेषु वृत्त्यर्थम उपघातयेत
10 तथॊपकारिणं चैव मन्यते वञ्चितं परम
दत्त्वापि च धनं काले संतपत्य उपकारिणे
11 भक्ष्यं भॊज्यम अथॊ लेह्यं यच चान्यत साधु भॊजनम
परेक्षमाणेषु यॊ ऽशनीयान नृशंस इति तं विदुः
12 बराह्मणेभ्यः परदायाग्रं यः सुहृद्भिः सहाश्नुते
स परेत्य लभते सवर्गम इह चानन्त्यम अश्नुते
13 एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः
सदा विवर्जनीयॊ वै पुरुषेण बुभूषता