अध्याय 6
1 [वैषम्पायन]
एतावद उक्त्वा देवर्षिर विरराम स नारदः
युधिष्ठिरस तु राजर्षिर दध्यौ शॊकपरिप्लुतः
2 तं दीनमनसं वीरम अधॊ वदनम आतुलम
निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा
3 कुन्ती शॊकपरीताङ्गी दुःखॊपहत चेतना
अब्रवीन मधुराभाषा काले वचनम अर्थवत
4 युधिष्ठिर महाबाहॊ नैनं शॊचितुम अर्हसि
जहि शॊकं महाप्राज्ञ शृणु चेदं वचॊ मम
5 यतितः स मया पूर्वं भरात्र्यं जञापयितुं तव
भास्करेण च देवेन पित्रा धर्मभृतां वर
6 यद वाच्यं हितकामेन सुहृदा भूतिम इच्छता
तथा दिवाकरेणॊक्तः सवप्नान्ते मम चाग्रतः
7 न चैनम अशकद भानुर अहं वा सनेहकारणैः
पुरा परत्यनुनेतुं वा नेतुं वाप्य एकतां तवया
8 ततः कालपरीतः स वैरस्यॊद्धुक्षणे रतः
परतीप कारी युष्माकम इति चॊपेक्षितॊ मया
9 इत्य उक्तॊ धर्मराजस तु मात्रा बाष्पाकुलेक्षणः
उवाच वाक्यं धर्मात्मा शॊकव्याकुल चेतनः
10 भवत्या गूढमन्त्रत्वात पीडितॊ ऽसमीत्य उवाच ताम
शशाप च महातेजाः सर्वलॊकेषु च सत्रियः
न गुह्यं धारयिष्यन्तीत्य अतिदुःख समन्वितः
11 स राजा पुत्रपौत्राणां संबन्धिसुहृदां तथा
समरन्न उद्विग्नहृदयॊ बभूवास्वस्थ चेतनः
12 ततः शॊकपरीतात्मा स धूम इव पावकः
निर्वेदम अकरॊद धीमान राजा संतापपीडितः