अध्याय 1
1 [सम्जय]
ततस ते सहिता वीराः परयाता दक्षिणामुखाः
उपास्तमय वेलायां शिबिराभ्याशम आगताः
2 विमुच्य वाहांस तवरिता भीताः समभवंस तदा
गहनं देशम आसाद्य परच्छन्ना नयविशन्त ते
3 सेनानिवेशम अभितॊ नातिदूरम अवस्थिताः
निवृत्ता निशितैः शस्त्रैः समन्तात कषतविक्षताः
4 दीर्घम उष्णं च निःश्वस्य पाण्डवान अन्वचिन्तयन
शरुत्वा च निनदं घॊरं पाण्डवानां जयैषिणाम
5 अनुसार भराद भीताः पराङ्मुखा पराद्रवन पुनः
ते मुहूर्तं ततॊ गत्वा शरान्तवाहाः पिपासिताः
6 नामृष्यन्त महेष्वासाः करॊधामर्षवशं गताः
राज्ञॊ वधेन संतप्ता मुहूर्तं समवस्थिताः
7 [धृ]
अश्रद्धेयम इदं कर्मकृतं भीमेन संजय
यत स नागायुत पराणः पुत्रॊ मम निपातितः
8 अवध्यः सर्वभूतानां वज्रसंहननॊ युवा
पाण्डवैः समरे पुत्रॊ निहतॊ मम संजय
9 न दिष्टम अभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः
यत समेत्य रणे पार्थैः पुत्रॊ मम निपातितः
10 अद्रिसारमयं नूनं हृदयं मम संजय
हतं पुत्रशतं शरुत्वा यन न दीर्णं सहस्रधा
11 कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति
न हय अहं पाण्डवेयस्य विषये वस्तुम उत्सहे
12 कथं राज्ञः पिता भूत्वा सवयं राजा च संजय
परेष्यभूतः परवर्तेयं पाण्डवेयस्य शासनात
13 आज्ञाप्य पृथिवीं सर्वां सथित्वा मूर्ध्नि च संजय
कथम अद्य भविष्यामि परेष्यभूतॊ दुरन्त कृत
14 कथं भीमस्य वाक्यानि शरॊतुं शक्ष्यामि संजय
येन पुत्रशतं पूर्णम एकेन निहतं मम
15 कृतं सत्यं वचस तस्य विदुरस्य महात्मनः
अकुर्वता वचस तेन मम पुत्रेण संजय
16 अधर्मेण हते तात पुत्रे दुर्यॊधने मम
कृतवर्मा कृपॊ दरौणिः किम अकुर्वत संजय
17 [स]
गत्वा तु तावका राजन नातिदूरम अवस्थिताः
अपश्यन्त वनं घॊरं नानाद्रुमलताकुलम
18 ते मुहूर्तं तु विश्रम्य लब्धतॊयैर हयॊत्तमैः
सूर्यास्तमय वेलायाम आसेदुः सुमहद वनम
19 नानामृगगणैर जुष्टं नानापक्षिसमाकुलम
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम
20 नाना तॊयसमाकीर्णं तडागैर उपशॊभितम
पद्मिनी शतसंछन्नं नीलॊत्पलसमायुतम
21 परविश्य तद वनं घॊरं वीक्षमाणाः समन्ततः
शाखा सहस्रसंछन्नं नयग्रॊधं ददृशुस ततः
22 उपेत्य तु तदा राजन नयग्रॊधं ते महारथाः
ददृशुर दविपदां शरेष्ठाः शरेष्ठं तं वै वनस्पतिम
23 ते ऽवतीर्य रथेभ्यस तु विप्रमुच्य च वाजिनः
उपस्पृश्य यथान्यायं संध्याम अन्वासत परभॊ
24 ततॊ ऽसतं पर्वतश्रेष्ठम अनुप्राप्ते दिवाकरे
सर्वस्य जगतॊ धात्री शर्वरी समपद्यत
25 गरहनक्षत्रताराभिः परकीर्णाभिर अलंकृतम
नभॊऽंशुकम इवाभाति परेक्षणीयं समन्ततः
26 ईषच चापि परवल्गन्ति ये सत्त्वा रात्रिचारिणः
दिवा चराश च ये सत्त्वास ते निद्रावशम आगताः
27 रात्रिंचराणां सत्त्वानां निनादॊ ऽभूत सुदारुणः
करव्यादाश च परमुदिता घॊरा पराप्ता च शर्वरी
28 तस्मिन रात्रिमुखे घॊरे दुःखशॊकसमन्विताः
कृतवर्मा कृपॊ दरौणिर उपॊपविविशुः समम
29 तत्रॊपविष्टाः शॊचन्तॊ नयग्रॊधस्य समन्ततः
तम एवार्थम अतिक्रान्तं कुरुपाण्डवयॊः कषयम
30 निद्रया च परीताङ्गा निषेदुर धरणीतले
शरमेण सुदृढं युक्ता विक्षता विविधैः शरैः
31 ततॊ निद्रावशं पराप्तौ कृप भॊजौ महारथौ
सुखॊचिताव अदुःखार्हौ निषण्णौ धरणीतले
तौ तु सुप्तौ महाराज शरमशॊकसमन्वितौ
32 करॊधामर्षवशं पराप्तॊ दरॊणपुत्रस तु भारत
नैव सम स जगामाथ निद्रां सर्प इव शवसन
33 न लेभे स तु निद्रां वै दह्यमानॊ ऽतिमन्युना
वीक्षां चक्रे महाबाहुस तद वनं घॊरदर्शनम
34 वीक्षमाणॊ वनॊद्देशं नाना सत्त्वैर निषेवितम
अपश्यत महाबाहुर नयग्रॊधं वायसायुतम
35 तत्र काकसहस्राणि तां निशां पर्यणामयन
सुखं सवपन्तः कौरव्य पृथक्पृथग अपाश्रयाः
36 सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः
सॊ ऽपश्यत सहसायान्तम उलूकं घॊरदर्शनम
37 महास्वनं महाकायं हर्यक्षं बभ्रु पिङ्गलम
सुदीर्घघॊणा नखरं सुपर्णम इव वेगिनम
38 सॊ ऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः
नयग्रॊधस्य ततः शाखां परार्थयाम आस भारत
39 संनिपत्य तु शाखायां नयग्रॊधस्य विहंगमः
सुप्ताञ जघान सुबहून वायसान वायसान्तकः
40 केषां चिद अच्छिनत पक्षाञ शिरांसि च चकर्त ह
चरणांश चैव केषां चिद बभञ्ज चरणायुधः
41 कषणेनाहन सबलवान ये ऽसय दृष्टिपथे सथिताः
तेषां शरीरावयवैः शरीरैश च विशां पते
नयग्रॊधमण्डलं सर्वं संछन्नं सर्वतॊ ऽभवत
42 तांस तु हत्वा ततः काकान कौशिकॊ मुदितॊ ऽभवत
परतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः
43 तद दृष्ट्वा सॊपधं कर्म कौशिकेन कृतं निशि
तद्भावकृतसंकल्पॊ दरौणिर एकॊ वयचिन्तयत
44 उपदेशः कृतॊ ऽनेन पक्षिणा मम संयुगे
शत्रुणां कषपणे युक्तः पराप्तकालश च मे मतः
45 नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः
बलवन्तः कृतॊत्साहा लब्धलक्षाः परहारिणः
राज्ञः सकाशे तेषां च परतिज्ञातॊ वधॊ मया
46 पतंगाग्निसमां वृत्तिम आस्थायात्म विनाशिनीम
नयायतॊ युध्यमानस्य पराणत्यागॊ न संशयः
छद्मना तु भवेत सिद्धिः शत्रूणां च कषयॊ महान
47 तत्र संशयिताद अर्थाद यॊ ऽरथॊ निःसंशयॊ भवेत
तं जना बहु मन्यन्ते ये ऽरथशास्त्रविशारदाः
48 यच चाप्य अत्र भवेद वाच्यं गर्हितं लॊकनिन्दितम
कर्तव्यं तन मनुष्येण कषत्रधर्मेण वर्तता
49 निन्दितानि च सर्वाणि कुत्सितानि पदे पदे
सॊपधानि कृतान्य एव पाण्डवैर अकृतात्मभिः
50 अस्मिन्न अर्थे पुरा गीतौ शरूयेते धर्मचिन्तकैः
शलॊकौ नयायम अवेक्षद्भिस तत्त्वार्थं तत्त्वदर्शिभिः
51 परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः
परस्थाने च परवेशे च परहर्तव्यं रिपॊर बलम
52 निद्रार्तम अर्धरात्रे च तथा नष्टप्रणायकम
भिन्नयॊधं बलं यच च दविधा युक्तं च यद भवेत
53 इत्य एवं निश्चयं चक्रे सुप्तानां युधि मारणे
पाण्डूनां सह पाञ्चालैर दरॊणपुत्रः परतापवान
54 स करूरां मतिम आस्थाय विनिश्चित्य मुहुर मुहुः
सुप्तौ पराबॊधयत तौ तु मातुलं भॊजम एव च
55 नॊत्तरं परतिपेदे च तत्र युक्तं हरिया वृतः
स मुहूर्तम इव धयात्वा बाष्पविह्वलम अब्रवीत
56 हतॊ दुर्यॊधनॊ राजा एकवीरॊ महाबलः
यस्यार्थे वैरम अस्माभिर आसक्तं पाण्डवैः सह
57 एकाकी बहुभिः कषुद्रैर आहवे शुद्धविक्रमः
पातितॊ भीमसेनेन एकादश चमूपतिः
58 वृकॊदरेण कषुद्रेण सुनृशंसम इदं कृतम
मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता
59 विनर्दन्ति सम पाञ्चालाः कष्वेडन्ति च हसन्ति च
धमन्ति शङ्खाञ शतशॊ हृष्टा घनन्ति च दुन्दुभीन
60 वादित्रघॊषस तुमुलॊ विमिश्रः शङ्खनिस्वनैः
अनिलेनेरितॊ घॊरॊ दिशः पूरयतीव हि
61 अश्वानां हेषमाणानां गजानां चैव बृंहताम
सिंहनादश च शूराणां शरूयते सुमहान अयम
62 दिशं पराचीं समाश्रित्य हृष्टानां गर्जतां भृशम
रथनेमि सवनाश चैव शरूयन्ते लॊमहर्षणाः
63 पाण्डवैर धार्तराष्ट्राणां यद इदं कदनं कृतम
वयम एव तरयः शिष्टास तस्मिन महति वैशसे
64 के चिन नागशतप्राणाः के चित सर्वास्त्रकॊविदाः
निहताः पाण्डवेयैः सम मन्ये कालस्य पर्ययम
65 एवम एतेन भाव्यं हि नूनं कार्येण तत्त्वतः
यथा हय अस्येदृशी निष्ठा कृते कार्ये ऽपि दुष्करे
66 भवतॊस तु यदि परज्ञा न मॊहाद अपचीयते
वयापन्ने ऽसमिन महत्य अर्थे यन नः शरेयस तद उच्यताम