अध्याय 175

महाभारत संस्कृत - आदिपर्व

1 [वै] ततस ते नरशार्दूला भरातरः पञ्च पाण्डवाः
परययुर दरौपदीं दरष्टुं तं च देवमहॊत्सवम

2 ते परयाता नरव्याघ्रा मात्रा सह परंतपाः
बराह्मणान ददृशुर मार्गे गच्छतः सगणान बहून

3 तान ऊचुर बराह्मणा राजन पाण्डवान बरह्मचारिणः
कव भवन्तॊ गमिष्यन्ति उतॊ वागच्छतेति ह

4 [य] आगतान एकचक्रायाः सॊदर्यान देव दर्शिनः
भवन्तॊ हि विजानन्तु सहितान मातृचारिणः

5 [बराह्मणाह] गच्छताद्यैव पाञ्चालान दरुपदस्य निवेशनम
सवयंवरॊ महांस तत्र भविता सुमहाधनः

6 एकसार्थं परयाताः समॊ वयम अप्य अत्र गामिनः
तत्र हय अद्भुतसंकाशॊ भविता सुमहॊत्सवः

7 यज्ञसेनस्य दुहिता दरुपदस्य महात्मनः
वेदीमध्यात समुत्पन्ना पद्मपत्र निभेक्षणा

8 दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी
धृष्टद्युम्नस्य भगिनी दरॊण शत्रॊः परतापिनः

9 यॊ जातः कवची खड्गी सशरः सशरासनः
सुसमिद्धे महाबाहुः पावके पावकप्रभः

10 सवसा तस्यानवद्याङ्गी दरौपदी तनुमध्यमा
नीलॊत्पलसमॊ गन्धॊ यस्याः करॊशात परवायति

11 तां यज्ञसेनस्य सुतां सवयंवरकृतक्षणाम
गच्छामहे वयं दरष्टुं तं च देवमहॊत्सवम

12 राजानॊ राजपुत्राश च यज्वानॊ भूरिदक्षिणाः
सवाध्यायवन्तः शुचयॊ महात्मानॊ यतव्रताः

13 तरुणा दर्शनीयाश च नानादेशसमागताः
महारथाः कृतास्त्राश च समुपैष्यन्ति भूमिपाः

14 ते तत्र विविधान दायान विजयार्थं नरेश्वराः
परदास्यन्ति धनं गाश च भक्ष्यं भॊज्यं च सर्वशः

15 परतिगृह्य च तत सर्वं दृष्ट्वा चैव सवयंवरम
अनुभूयॊत्सवं चैव गमिष्यामॊ यथेप्सितम

16 नटा वैतालिकाश चैव नर्तकाः सूतमागधाः
नियॊधकाश च देशेभ्यः समेष्यन्ति महाबलाः

17 एवं कौतूहलं कृत्वा दृष्ट्वा च परतिगृह्य च
सहास्माभिर महात्मानः पुनः परतिनिवर्त्स्यथ

18 दर्शनीयांश च वः सर्वान देवरूपान अवस्थितान
समीक्ष्य कृष्णा वरयेत संगत्यान्यतमं वरम

19 अयं भराता तव शरीमान दर्शनीयॊ महाभुजः
नियुध्यमानॊ विजयेत संगत्या दरविणं बहु

20 [य] परमं भॊ गमिष्यामॊ दरष्टुं देवमहॊत्सवम
भवद्भिः सहिताः सर्वे कन्यायास तं सवयंवरम

अध्याय 1
अध्याय 1