अध्याय 9

महाभारत संस्कृत - विराटपर्व

1 [वै] सहदेवॊ ऽपि गॊपानां कृत्वा वेषम अनुत्तमम
भाषां चैषां समास्थाय विराटम उपयाद अथ

2 तम आयान्तम अभिप्रेक्ष्य भराजमानं नरर्षभम
समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम

3 कस्य वा तवं कुतॊ वा तवं किं वा तात चिकीर्षसि
न हि मे दृष्टपूर्वस तवं तत्त्वं बरूहि नरर्षभ

4 स पराप्य राजानम अमित्रतापनस; ततॊ ऽबरवीन मेघमहौघनिःस्वनः
वैश्यॊ ऽसमि नाम्नाहम अरिष्टनेमिर; गॊसंख्य आसं कुरुपुंगवानाम

5 वस्तुं तवयीच्छामि विशां वरिष्ठ; तान राजसिंहान न हि वेद्मि पार्थान
न शक्यते जीवितुम अन्यकर्मणा; न च तवदन्यॊ मम रॊचते नृपः

6 [विराट] तवं बराह्मणॊ यदि वा कषत्रियॊ ऽसि; समुद्रनेमीश्वर रूपवान असि
आचक्ष्व मे तत्त्वम अमित्रकर्शन; न वैश्यकर्म तवयि विद्यते समम

7 कस्यासि राज्ञॊ विषयाद इहागतः; किं चापि शिल्पं तव विद्यते कृतम
कथं तवम अस्मासु निवत्स्यसे सदा; वदस्व किं चापि तवेह वेतनम

8 [सह] पञ्चानां पाण्डुपुत्राणां जयेष्ठॊ राजा युधिष्ठिरः
तस्याष्ट शतसाहस्रा गवां वर्गाः शतं शताः

9 अपरे दशसाहस्रा दविस तावन्तस तथापरे
तेषां गॊसंख्य आसं वै तन्तिपालेति मां विदुः

10 भूतं भव्यं भविष्यच च यच च संख्या गतं कव चित
न मे ऽसत्य अविदितं किं चित समन्ताद दशयॊजनम

11 गुणाः सुविदिता हय आसन मम तस्य महात्मनः
आसीच च स मया तुष्टः कुरुराजॊ युधिष्ठिरः

12 कषिप्रं हि गावॊ बहुला भवन्ति; न तासु रॊगॊ भवतीह कश चित
तैस तैर उपायैर विदितं मयैतद; एतानि शिल्पानि मयि सथितानि

13 वृषभांश चापि जानामि राजन पूजित लक्षणान
येषां मूत्रम उपाघ्राय अपि वन्ध्या परसूयते

14 [विराट] शतं सहस्राणि समाहितानि; वर्णस्य वर्णस्य विनिश्चिता गुणैः
पशून सपालान भवते ददाम्य अहं; तवदाश्रया मे पशवॊ भवन्त्व इह

15 [वै] तथा स राज्ञॊ ऽविदितॊ विशां पते; उवास तत्रैव सुखं नरेश्वरः
न चैनम अन्ये ऽपि विदुः कथं चन; परादाच च तस्मै भरणं यथेप्सितम

अध्याय 1
अध्याय 8