अध्याय 68

महाभारत संस्कृत - उद्योगपर्व

1 [धृ] भूयॊ मे पुण्डरीकाक्षं संजयाचक्ष्व पृच्छते
नाम कर्मार्थवित तात पराप्नुयां पुरुषॊत्तमम

2 शरुतं मे तस्य देवस्य नाम निर्वचनं शुभम
यावत तत्राभिजाने ऽहम अप्रमेयॊ हि केशवः

3 वसनात सर्वभूतानां वसुत्वाद देव यॊनितः
वासुदेवस ततॊ वेद्यॊ वृषत्वाद वृष्णिर उच्यते

4 मौनाद धयानाच च यॊगाच च विद्धि भारत माधवम
सर्वतत्त्वलयाच चैव मधुहा मधुसूदनः

5 कृषिर भूवाचकः शब्दॊ णश च निर्वृति वाचकः
कृष्णस तद्भावयॊगाच च कृष्णॊ भवति शाश्वतः

6 पुण्डरीकं परं धाम नित्यम अक्षयम अक्षरम
तद्भावात पुण्डरीकाक्षॊ दस्यु तरासाज जनार्दनः

7 यतः सत्त्वं न चयवते यच च सत्त्वान न हीयते
सत्त्वतः सात्वतस तस्माद अर्षभाद वृषभेक्षणः

8 न जायते जनित्र्यां यद अजस तस्माद अनीकजित
देवानां सवप्रकाशत्वाद दमाद दामॊदरं विदुः

9 हर्षात सौख्यात सुखैश्वर्याद धृषीकेशत्वम अश्नुते
बाहुभ्यां रॊदसी बिभ्रन महाबाहुर इति समृतः

10 अधॊ न कषीयते जातु यस्मात तस्माद अधॊक्षजः
नराणाम अयनाच चापि तेन नारायणः समृतः
पूरणात सदनाच चैव ततॊ ऽसौ पुरुषॊत्तमः

11 असतश च सतश चैव सर्वस्य परभवाप्ययात
सर्वस्य च सदा जञानात सर्वम एनं परचक्षते

12 सत्ये परतिष्ठितः कृष्णः सत्यम अत्र परतिष्ठितम
सत्यात सत्यं च गॊविन्दस तस्मात सत्यॊ ऽपि नामतः

13 विष्णुर विक्रमणाद एव जयनाज जिष्णुर उच्यते
शाश्वतत्वाद अनन्तश च गॊविन्दॊ वेदनाद गवाम

14 अतत्त्वं कुरुते तत्त्वं तेन मॊहयते परजाः
एवंविधॊ धर्मनित्यॊ भगवान मुनिभिः सह
आगन्ता हिमहा बाहुर आनृशंस्यार्थम अच्युतः

अध्याय 7
अध्याय 6