अध्याय 26

महाभारत संस्कृत - उद्योगपर्व

1 [य] कां नु वाचं संजय मे शृणॊषि; युद्धैषिणीं येन युद्धाद बिभेषि
अयुद्धं वै तात युद्धाद गरीयः; कस तल लब्ध्वा जातु युध्येत सूत

2 अकुर्वतश चेत पुरुषस्य संजय; सिध्येत संकल्पॊ मनसा यं यम इच्छेत
न कर्म कुर्याद विदितं ममैतद; अन्यत्र युद्धाद बहु यल लघीयः

3 कुतॊ युद्धं जातु नरः परजानन; कॊ दैवशप्तॊ ऽभिवृणीत युद्धम
सुखैषिणः कर्म कुर्वन्ति पार्था; धर्माद अहीनं यच च लॊकस्य पथ्यम

4 कर्मॊदयं सुखम आशंसमानः; कृच्छ्रॊपायं तत्त्वतः कर्म दुःखम
सुखप्रेप्सुर विजिघांसुश च दुःखं; येन्द्रियाणां परीतिवशानुगामी
कामाभिध्या सवशरीरं दुनॊति; यया परयुक्तॊ ऽनुकरॊति दुःखम

5 यथेध्यमानस्य समिद्ध तेजसॊ; भूयॊ बलं वर्धते पावकस्य
कामार्थलाभेन तथैव भूयॊ; न तृप्यते सर्विषेवाग्निर इद्धः
संपश्येमं भॊगचयं महान्तं; सहास्माभिर धृतराष्ट्रस्य राज्ञः

6 नाश्रेयसाम ईश्वरॊ विग्रहाणां; नाश्रेयसां गीतशब्दं शृणॊति
नाश्रेयसः सेवते माल्यगन्धान; न चाप्य अश्रेयांस्य अनुलेपनानि

7 नाश्रेयसः परावरान अध्यवस्ते; कथं तव अस्मान संप्रणुदेत कुरुभ्यः
अत्रैव च सयाद अवधूय एष; कामः शरीरे हृदयं दुनॊति

8 सवयं राजा विषमस्थः परेषु; सामस्थ्यम अन्विच्छति तन न साधु
यथात्मनः पश्यति वृत्तम एव; तथा परेषाम अपि सॊ ऽभयुपैति

9 आसन्नम अग्निं तु निदाघकाले; गम्भीरकक्षे गहने विसृज्य
यथा वृद्धं वायुवशेन शॊचेत; कषेमं मुमुक्षुः शिशिर वयपाये

10 पराप्तैश्वर्यॊ धृतराष्ट्रॊ ऽदय राजा; लालप्यते संजय कस्य हेतॊः
परगृह्य दुर्बुद्धिम अनार्जवे रतं; पुत्रं मन्दं मूढम अमन्त्रिणं तु

11 अनाप्तः सन्न आप्ततमस्य वाचं; सुयॊधनॊ विदुरस्यावमन्य
सुतस्य राजा धृतराष्ट्रः परियैषी; संबुध्यमानॊ विशते ऽधर्मम एव

12 मेधाविनं हय अर्थकामं कुरूणां; बहुश्रुतं वाग्मिनं शीलवन्तम
सूत राजा धृतराष्ट्रः कुरुभ्यॊ; न सॊ ऽसमरद विदुरं पुत्रकाम्यात

13 मानघ्नस्य आत्मकामस्य चेर्ष्यॊः; संरम्भिणश चार्थधर्मातिगस्य
दुर्भाषिणॊ मन्युवशानुगस्य; कामात्मनॊ दुर्हृदॊ भावनस्य

14 अनेयस्याश्रेयसॊ दीर्घमन्यॊर; मित्र दरुहः संजय पापबुद्धेः
सुतस्य राजा धृतराष्ट्रः परियैषी; परपश्यमानः परजहाद धर्मकामौ

15 तदैव मे संजय दीव्यतॊ ऽभून; नॊ चेत कुरून आगतः सयाद अभावः
काव्यां वाचं विरुदॊ भाषमाणॊ; न विन्दते धृतराष्ट्रात परशंसाम

16 कषत्तुर यदा अन्ववर्तन्त बुद्धिं; कृच्छ्रं कुरून न तदाभ्याजगाम
यावत परज्ञाम अन्ववर्तन्त तस्य; तावत तेषां राष्ट्रवृद्धिर बभूव

17 तदर्थलुब्धस्य निबॊध मे ऽदय; ये मन्त्रिणॊ धार्तराष्ट्रस्य सूत
दुःशासनः शकुनिः सूतपुत्रॊ; गावल्गणे पश्य संमॊहम अस्य

18 सॊ ऽहं न पश्यामि परीक्षमाणः; कथं सवस्ति सयात कुरुसृञ्जयानाम
आत्तैश्वर्यॊ धृतराष्ट्रः परेभ्यः; परव्राजिते विदुरे दीर्घदृष्टौ

19 आशंसते वै धृतराष्ट्रः सपुत्रॊ; महाराज्यम असपत्नं पृथिव्याम
तस्मिञ शमः केवलं नॊपलभ्यॊ; अत्यासन्नं मद्गतं मन्यते ऽरथम

20 यत तत कर्णॊ मन्यते पारणीयं; युद्धे गृहीतायुधम अर्जुनेन
आसंश च युद्धानि पुरा महान्ति; कथं कर्णॊ नाभवद दवीप एषाम

21 कर्णश च जानाति सुयॊधनश च; दरॊणश च जानाति पितामहश च
अन्ये च ये कुरवस तत्र सन्ति; यथार्जुनान नास्त्य अपरॊ धनुर्धरः

22 जानन्त्य एते कुरवः सर्व एव; ये चाप्य अन्ये भूमिपालाः समेताः
दुर्यॊधनं चापराधे चरन्तम; अरिंदमे फल्गुने ऽविद्यमाने

23 तेनार्थ बद्धं मन्यते धार्तराष्ट्रः; शक्यं हर्तुं पाण्डवानां ममत्वम
किरीटिना तालमात्रायुधेन; तद वेदिना संयुगं तत्र गत्वा

24 गाण्डीवविस्फारित शब्दम आजाव; अशृण्वाना घार्तराष्ट्रा धरियन्ते
करुद्धस्य चेद भीमसेनस्य वेगात; सुयॊधनॊ मन्यते सिद्धम अर्थम

25 इन्द्रॊ ऽपय एतन नॊत्सहेत तात हर्तुम; ऐश्वर्यं नॊ जीवति भीमसेने
धनंजये नकुले चैव सूत; तथा वीरे सहदेवे मदीये

26 स चेद एतां परतिपद्येत बुद्धिं; वृद्धॊ राजा सह पुत्रेण सूत
एवं रणे पाण्डव कॊपदग्धा; न नश्येयुः संजय धार्तराष्ट्राः

27 जानासि तवं कलेशम अस्मासु वृत्तं; तवां पूजयन संजयाहं कषमेयम
यच चास्माकं कौरवैर भूतपूर्वं; या नॊ वृत्तिर धार्तराष्ट्रे तदासीत

28 अद्यापि तत तत्र तथैव वर्ततां; शान्तिं गमिष्यामि यथा तवम आत्थ
इन्द्रप्रस्थे भवतु ममैव राज्यं; सुयॊधनॊ यच्छतु भारताग्र्यः

अध्याय 2
अध्याय 2