अध्याय 22

महाभारत संस्कृत - उद्योगपर्व

1 [धृ] पराप्तान आहुः संजय पाण्डुपुत्रान; उपप्लव्ये तान विजानीहि गत्वा
अजातशत्रुं च सभाजयेथा; दिष्ट्यानघ गरामम उपस्थितस तवम

2 सर्वान वदेः संजय सवस्तिमन्तः; कृच्छ्रं वासम अतदर्हा निरुष्य
तेषां शान्तिर विद्यते ऽसमासु शीघ्रं; मिथ्यॊपेतानाम उपकारिणां सताम

3 नाहं कव चित संजय पाण्डवानां; मिथ्यावृत्तिं कां चन जात्व अपश्यम
सर्वां शरियं हय आत्मवीर्येण लब्ध्वा; पर्याकार्षुः पाण्डवा मह्यम एव

4 दॊषं हय एषां नाधिगच्छे परिक्षन; नित्यं कं चिद येन गर्हेय पार्थान
धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं; सुखप्रिया नानुरुध्यन्ति कामान

5 धर्मं शीतं कषुत्पिपासे तथैव; निद्रां तन्द्रीं करॊधहर्षौ परमादम
धृत्या चैव परज्ञया चाभिभूय; धर्मार्थयॊगान परयतन्ति पार्थाः

6 तयजन्ति मित्रेषु धनानि काले; न संवासाज जीर्यति मैत्रम एषाम
यथार्ह मानार्थ करा हि पार्थास; तेषां दवेष्टा नास्त्य आजमीढस्य पक्षे

7 अन्यत्र पापाद विषमान मन्दबुद्धेर; दुर्यॊधनात कषुद्रतराच च कर्णात
तेषां हीमे हीनसुखप्रियाणां; महात्मनां संजनयन्ति तेजः

8 उत्थानवीर्यः सुखम एधमानॊ; दुर्यॊधनः सुकृतं मन्यते तत
तेषां भागं यच च मन्येत बालः; शक्यं हर्तुं जीवतां पाण्डवानाम

9 यस्यार्जुनः पदवीं केशवश च; वृकॊदरः सात्यकॊ ऽजातशत्रॊः
माद्रीपुत्रौ सृञ्जयाश चापि सर्वे; पुरा युद्धात साधु तस्य परदानम

10 स हय एवैकः पृथिवीं सव्यसाची; गाण्डीवधन्वा परणुदेद रथस्थः
तथा विष्णुः केशवॊ ऽपय अप्रधृष्यॊ; लॊकत्रयस्याधिपतिर महात्मा

11 तिष्ठेत कस तस्य मर्त्यः पुरस्ताद; यः सर्वदेवेषु वरेण्य ईड्यः
पर्जन्यघॊषान परवपञ शरौघान; पतंगसंघान इव शीघ्रवेगान

12 दिशं हय उदीचीम अपि चॊत्तरान कुरून; गाण्डीवधन्वैक रथॊ जिगाय
धनं चैषाम आहरत सव्यसाची; सेनानुगान बलिदांश चैव चक्रे

13 यश चैव देवान खाण्डवे सव्यसाची; गाण्डीवधन्वा परजिगाय सेन्द्रान
उपाहरत फल्गुनॊ जातवेदसे; यशॊ मानं वर्धयन पाण्डवानाम

14 गदा भृतां नाद्य समॊ ऽसति; भीमाद धस्त्य आरॊहॊ नास्ति समश च तस्य
रथे ऽरजुनाद आहुर अहीनम एनं; बाह्वॊर बले चायुत नागवीर्यम

15 सुशिक्षितः कृतवैरस तरस्वी; दहेत करुद्धस तरसा धार्तराष्ट्रान
सदात्यमर्षी बलवान न शक्यॊ; युद्धे जेतुं वासवेनापि साक्षात

16 सुचेतसौ बलिनौ शीघ्रहस्तौ; सुशिक्षितौ भरातरौ फल्गुनेन
शयेनौ यथा पक्षिपूगान रुजन्तौ; माद्रीपुत्रौ नेह कुरून विशेताम

17 तेषां मध्ये वर्तमानस तरस्वी; धृष्टद्युम्नः पाण्डवानाम इहैकः
सहामात्यः सॊमकानां परबर्हः; संत्यक्तात्मा पाण्डवानां जयाय

18 सहॊषितश चरितार्थॊ वयः सथः; शाल्वेयानाम अधिपॊ वै विराटः
सह पुत्रैः पाण्डवार्थे च शश्वद; युधिष्ठिरं भक्त इति शरुतं मे

19 अवरुद्धा बलिनः केकयेभ्यॊ; महेष्वासा भरातरः पञ्च सन्ति
केकयेभ्यॊ राज्यम आकाङ्क्षमाणा; युद्धार्थिनश चानुवसन्ति पार्थान

20 सर्वे च वीराः पृथिवीपतीनां; समानीताः पाण्डवार्थे निविष्टाः
शूरान अहं भक्तिमतः शृणॊमि; परीत्या युक्तान संश्रितान धर्मराजम

21 गिर्याश्रया दुर्ग निवासिनश च; यॊधाः पृथिव्यां कुलजा विशुद्धाः
मलेच्छाश च नानायुध वीर्यवन्तः; समागताः पाण्डवार्थे निविष्टाः

22 पाण्ड्यश च राजामित इन्द्रकल्पॊ; युधि परवीरैर बहुभिः समेतः
समागतः पाण्डवार्थे महात्मा; लॊकप्रवीरॊ ऽपरतिवीर्य तेजाः

23 अस्त्रं दरॊणाद अर्जुनाद वासुदेवात; कृपाद भीष्माद येन कृतं शृणॊमि
यं तं कार्ष्णि परतिमं पराहुर एकं; स सात्यकिः पाण्डवार्थे निविष्टः

24 अपाश्रिताश चेदिकरूषकाश च; सर्वॊत्साहैर भूमिपालैः समेताः
तेषां मध्ये सूर्यम इवातपन्तं; शरिया वृतं चेदिपतिं जवलन्तम

25 अस्तम्भनीयं युधि मन्यमानं; जया कर्षतां शरेष्ठतमं पृथिव्याम
सर्वॊत्साहं कषत्रियाणां निहत्य; परसह्य कृष्णस तरसा ममर्द

26 यशॊ मानौ वर्धयन यादवानां; पुराभिनच छिशुपालं समीके
यस्य सर्वे वर्धयन्ति सम मानं; करूष राजप्रमुखा नरेन्द्राः

27 तम असह्यं केशवं तत्र मत्वा; सुग्रीव युक्तेन रथेन कृष्णम
संप्राद्रवंश चेदिपतिं विहाय; सिंहं दृष्ट्वा कषुद्रमृगा इवान्ये

28 यस तं परतीपस तरसा परत्युदीयाद; आशंसमानॊ दवैरथे वासुदेवम
सॊ ऽशेत कृष्णेन हतः परासुर; वातेनेवॊन्मथितः कर्णिकारः

29 पराक्रमं मे यद अवेदयन्त; तेषाम अर्थे संजय केशवस्य
अनुस्मरंस तस्य कर्माणि विष्णॊर; गावल्गणे नाधिगच्छामि शान्तिम

30 न जातु ताञ शत्रुर अन्यः सहेत; येषां स सयाद अग्रणीर वृष्णिसिंहः
परवेपते मे हृदयं भयेन; शरुत्वा कृष्णाव एकरथे समेतौ

31 नॊ चेद गच्छेत संगरं मन्दबुद्धिस; ताभ्यां सुतॊ मे विपरीतचेताः
नॊ चेत कुरून संजय निर्दहेताम; इन्द्रा विष्णू दैत्य सेनां यथैव
मतॊ हि मे शक्रसमॊ धनंजयः; सनातनॊ वृष्णिवीरश च विष्णुः

32 धर्मारामॊ हरीनिषेधस तरस्वी; कुन्तीपुत्रः पाण्डवॊ ऽजातशत्रुः
दुर्यॊधनेन निकृतॊ मनस्वी; नॊ चेत करुद्ध परदहेद धार्तराष्ट्रान

33 नाहं तथा हय अर्जुनाद वासुदेवाद; भीमाद वापि परदहेद धार्तराष्ट्रान
यथा राज्ञः करॊधदीप्तस्य सूत; मन्यॊर अहं भीततरः सदैव

34 अलं तपॊ बरह्मचर्येण युक्तः; संकल्पॊ ऽयं मानसस तस्य सिध्येत
तस्य करॊधं संजयाहं सिमीके; सथाने जानभृशम अस्म्य अद्य भीतः

35 स गच्छ शीघ्रं परहितॊ रथेन; पाञ्चालराजस्य चमूं परेत्य
अजातशत्रुं कुशलं सम पृच्छेः; पुनः पुनः परीतियुक्तं वदेस तवम

36 जनार्दनं चापि समेत्य तात; महामात्रं वीर्यवताम उदारम
अनामयं मद्वचनेन पृच्छेर; धृतराष्ट्रः पाण्डवैः शान्तिम ईप्सुः

37 न तस्य किं चिद वचनं न कुर्यात; कुन्तीपुत्रॊ वासुदेवस्य सूत
परियश चैषाम आत्मसमश च कृष्णॊ; विद्वांश चैषां कर्मणि नित्ययुक्तः

38 समानीय पाणवान सृञ्जयांश च; जनार्दनं युयुधानं विराटम
अनामयं मद्वचनेन पृच्छेः; सर्वांस तथा दरौपदेयांश च पञ्च

39 यद यत तत्र पराप्तकालं परेभ्यस; तवं मन्येथा भारतानां हितं च
तत तद भाषेथाः संजय राजमध्ये; न मूर्छयेद यन न भवेच च युद्धम

अध्याय 2
अध्याय 2