अध्याय 168

महाभारत संस्कृत - उद्योगपर्व

1 [भीस्म] पाञ्चालराजस्य सुतॊ राजन परपुरंजयः
शिखण्डी रथमुख्यॊ मे मतः पार्थस्य भारत

2 एष यॊत्स्यति संग्रामे नाशयन पूर्वसंस्थितिम
परं यशॊ विप्रथयंस तव सेनासु भारत

3 एतस्य बहुलाः सेनाः पाञ्चालाश च परभद्रकाः
तेनासौ रथवंशेन महत कर्म करिष्यति

4 धृष्टद्युम्नश च सेनानीः सर्वसेनासु भारत
मतॊ मे ऽतिरथॊ राजन दरॊणशिष्यॊ महारथः

5 एष यॊत्स्यति संग्रामे सूदयन वै परान रणे
भगवान इव संक्रुद्धः पिनाकी युगसंक्षये

6 एतस्य तद्रथानीकं कथयन्ति रणप्रियाः
बहुत्वात सागरप्रख्यं देवानाम इव संयुगे

7 कषत्रधर्मा तु राजेन्द्र मतॊ मे ऽरधरथॊ नृप
धृष्टद्युम्नस्य तनयॊ बाल्यान नातिकृत शरमः

8 शिशुपाल सुतॊ वीरश चेदिराजॊ महारथः
धृष्टकेतुर महेष्वासः संबन्धी पाण्डवस्य ह

9 एष चेदिपतिः शूरः सह पुत्रेण भारत
महारथेनासुकरं महत कर्म करिष्यति

10 कषत्रधर्मरतॊ मह्यं मतः परपुरंजयः
कषत्रदेवस तु राजेन्द्र पाण्डवेषु रथॊत्तमः
जयन्तश चामितौजाश च सत्यजिच च महारथः

11 महारथा महात्मानः सर्वे पाञ्चाल सत्तमाः
यॊत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः

12 अजॊ भॊजश च विक्रान्तौ पाण्डवेषु महारथौ
पाण्डवानां सहायार्थे परं शक्थ्या यतिष्यतः
शीघ्रास्त्रौ चित्रयॊद्धारौ कृतिनौ दृढविक्रमौ

13 केकयाः पञ्च राजेन्द्र भरातरॊ युद्धदुर्मदाः
सर्व एते रथॊदाराः सर्वे लॊहितक धवजाः

14 काशिकः सुकुमारश च नीलॊ यश चापरॊ नृपः
सूर्यदत्तश च शङ्खश च मदिराश्वश च नामतः

15 सर्व एते रथॊदाराः सर्वे चाहवलक्षणाः
सर्वास्त्रविदुषः सर्वे महात्मानॊ मता मम

16 वार्धक्षेमिर महाराज रथॊ मम महान मतः
चित्रायुधश च नृपतिर मतॊ मे रथसत्तमः
स हि संग्रामशॊभी च भक्तश चापि किरीटिनः

17 चेकितानः सत्यधृतिः पाण्डवानां महारथौ
दवाव इमौ पुरुषव्याघौ रथॊदारौ मतौ मम

18 वयाघ्रदत्तश च राजेन्द्र चन्द्र सेनश च भारत
मतौ मम रथॊदारौ पाण्डवानां न संशयः

19 सेना बिन्दुश च राजेन्द्र करॊधहन्ता च नामतः
यः समॊ वासुदेवेन भीमसेनेन चाभिभूः
स यॊत्स्यतीह विक्रम्य समरे तव सैनिकैः

20 मां दरॊणं च कृपं चैव यथा संमन्यते भवान
तथा स समरश्लाघी मन्तव्यॊ रथसत्तमः

21 काश्यः परमशीघ्रास्त्रः शलाघनीयॊ रथॊत्तमः
रथ एकगुणॊ मह्यं मतः परपुरंजयः

22 अयं च युधि विक्रान्तॊ मन्तव्यॊ ऽषट गुणॊ रथः
सत्यजित समरश्लाघी दरुपदस्यात्मजॊ युवा

23 गतः सॊ ऽतिरथत्वं हि धृष्टद्युम्नेन संमितः
पाण्डवानां यशः कामः परं कर्म करिष्यति

24 अनुरक्तश च शूरश च रथॊ ऽयम अपरॊ महान
पाण्ड्य राजॊ महावीर्यः पाण्डवानां धुरंधरः

25 दृढधन्वा महेष्वासः पाण्डवानां रथॊत्तमः
शरेणिमान कौरवश्रेष्ठ वसु दानश च पार्थिवः
उभाव एताव अतिरथौ मतौ मम परंतप

अध्याय 1
अध्याय 1