अध्याय 121

महाभारत संस्कृत - उद्योगपर्व

1 [न] सद्भिर आरॊपितः सवर्गं पार्थिवैर भूरिदक्षिणैः
अभ्यनुज्ञाय दौहित्रान ययातिर दिवम आस्थितः

2 अभिवृष्टश च वर्षेण नानापुष्पसुगन्धिना
परिष्वक्तश च पुण्येन वायुना पुण्यगन्धिना

3 अचलं सथानम आरुह्य दौहित्र फलनिर्जितम
कर्मभिः सवैर उपचितॊ जज्वाल परया शरिया

4 उपगीतॊपनृत्तश च गन्धर्वाप्सरसां गणैः
परीत्या परतिगृहीतश च सवर्गे दुन्दुभिनिस्वनैः

5 अभिष्टुतश च विविधैर देवराजर्षिचारणैः
अर्चितश चॊत्तमार्घेण दैवतैर अभिनन्दितः

6 पराप्तः सवर्गफलं चैव तम उवाच पितामहः
निर्वृतं शान्तमनसं वचॊभिस तर्पयन्न इव

7 चतुष पादस तवया धर्मश चितॊ लॊक्येन कर्मणा
अक्षयस तव लॊकॊ ऽयं कीर्तिश चैवाक्षया दिवि
पुनस तवाद्य राजर्षे सुकृतेनेह कर्मणा

8 आवृतं तमसा चेतः सर्वेषां सवर्गवासिनाम
येन तवां नाभिजानन्ति ततॊ ऽजञात्वासि पातितः

9 परीत्यैव चासि दौहित्रैस तारितस तवम इहागतः
सथानं च परतिपन्नॊ ऽसि कर्मणा सवेन निर्जितम
अचलं शाश्वतं पुण्यम उत्तमं धरुवम अव्ययम

10 भगवन संशयॊ मे ऽसति कश चित तं छेत्तुम अर्हसि
न हय अन्यम अहम अर्हामि परष्टुं लॊकपितामह

11 बहुवर्षसहस्रान्तं परजापालनवर्धितम
अनेकक्रतुदानौघैर अर्जितं मे महत फलम

12 कथं तद अल्पकालेन कषीणं येनास्मि पातितः
भगवन वेत्थ लॊकांश च शाश्वतान मम निर्जितान

13 बहुवर्षसहस्रान्तं परजापालनवर्धितम
अनेकक्रतुदानौघैर यत तवयॊपार्जितं फलम

14 तद अनेनैव दॊषेण कषीणं येनासि पातितः
अभिमानेन राजेन्द्र धिक्कृतः सवर्गवासिभिः

15 नायं मानेन राजर्षे न बलेन न हिंसया
न शाठ्येन न मायाभिर लॊकॊ भवति शाश्वतः

16 नावमान्यास तवया राजन्न अवरॊत्कृष्टमध्यमाः
न हि मानप्रदग्धानां कश चिद अस्ति समः कव चित

17 पतनारॊहणम इदं कथयिष्यन्ति ये नराः
विषमाण्य अपि ते पराप्तास तरिष्यन्ति न संशयः

18 एष दॊषॊ ऽभिमानेन पुरा पराप्तॊ ययातिना
निर्बन्धतश चातिमात्रं गालवेन महीपते

19 शरॊतव्यं हितकामानां सुहृदां भूतिम इच्छताम
न कर्तव्यॊ हि निर्बन्धॊ निर्बन्धॊ हि कषयॊदयः

20 तस्मात तवम अपि गान्धारे मानं करॊधं च वर्जय
संधत्स्व पाण्डवैर वीर संरम्भं तयज पार्थिव

21 ददाति यत पार्थिव यत करॊति; यद वा तपस तप्यति यज जुहॊति
न तस्य नाशॊ ऽसति न चापकर्षॊ; नान्यस तद अश्नाति स एव कर्ता

22 इदं महाख्यानम अनुत्तमं मतं; बहुश्रुतानां गतरॊषरागिणाम
समीक्ष्य लॊके बहुधा परधाविता; तरिवर्गदृष्टिः पृथिवीम उपाश्नुते

अध्याय 1
अध्याय 1