अध्याय 21

महाभारत संस्कृत - स्त्रीपर्व

1 [गान्धारी] एष वैकर्तनः शेते महेष्वासॊ महारथः
जवलितानलवत संख्ये संशान्तः पार्थ तेजसा

2 पश्य वैकर्तनं कर्णं निहत्यातिरथान बहून
शॊणितौघपरीताङ्गं शयानं पतितं भुवि

3 अमर्षी दीर्घरॊषश च महेष्वासॊ महारथः
रणे विनिहतः शेते शूरॊ गाण्डीवधन्वना

4 यं सम पाण्डव संत्रासान मम पुत्रा महारथाः
परायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम

5 शार्दूलम इव सिंहेन समरे सव्यसाचिना
मातङ्गम इव मत्तेन मातङ्गेन निपातितम

6 समेताः पुरुषव्याघ्र निहतं शूरम आहवे
परकीर्णमूर्धजाः पत्न्यॊ रुदत्यः पर्युपासते

7 उद्विग्नः सततं यस्माद धर्मराजॊ युधिष्ठिरः
तरयॊदश समा निद्रां चिन्तयन्न नाध्यगच्छत

8 अनाधृष्यः परैर युद्धे शत्रुभिर मघवान इव
युगान्ताग्निर इवार्चिष्मान हिमवान इव च सथिरः

9 स भूत्वा शरणं वीरॊ धार्तराष्ट्रस्य माधव
भूमौ विनिहतः शेते वातरुग्ण इव दरुमः

10 पश्य कर्णस्य पत्नीं तवं वृषसेनस्य मातरम
लालप्यमानाः करुणं रुदतीं पतितां भुवि

11 आचार्य शापॊ ऽनुगतॊ धरुवं तवां; यद अग्रसच चक्रम इयं धरा ते
ततः शरेणापहृतं शिरस ते; धनंजयेनाहवे शत्रुमध्ये

12 अहॊ धिग एषा पतिता विसंज्ञा; समीक्ष्य जाम्बूनदबद्धनिष्कम
कर्णं महाबाहुम अदीनसत्त्वं; सुषेण माता रुदती भृशार्ता

13 अल्पावशेषॊ हि कृतॊ महात्मा; शरीरभक्षैः परिभक्षयद्भिः
दरष्टुं न संप्रीति करः शशीव; कृष्णश्य पक्षस्य चतुर्दशाहे

14 सावर्तमाना पतिता पृथिव्याम; उत्थाय दीना पुनर एव चैषा
कर्णस्य वक्त्रं परिजिघ्रमाणा; रॊरूयते पुत्रवधाभितप्ता

अध्याय 2
अध्याय 2