अध्याय 39

महाभारत संस्कृत - शल्यपर्व

1 [ज] कथम आर्ष्टिषेणॊ भगवान विपुलं तप्तवांस तपः
सिन्धुद्वीपः कथं चापि बराह्मण्यं लब्धवांस तदा

2 देवापिश च कथं बरह्मन विश्वामित्रश च सत्तम
तन ममाचक्ष्व भगवन परं कौतूहलं हि मे

3 [वै] पुरा कृतयुगे राजन्न आर्ष्टिषेणॊ दविजॊत्तमः
वसन गुरु कुले नित्यं नित्यम अध्ययने रतः

4 तस्य राजन गुरु कुले वसतॊ नित्यम एव ह
समाप्तिं नागमद विद्या नापि वेदा विशां पते

5 स निर्विण्णस ततॊ राजंस तपस तेपे महातपाः
ततॊ वै तपसा तेन पराप्य वेदान अनुत्तमान

6 स विद्वान वेद युक्तश च सिद्धश चाप्य ऋषिसत्तमः
तत्र तीर्थे वरान परादात तरीन एव सुमहातपाः

7 अस्मिंस तीर्थे महानद्या अद्य परभृति मानवः
आप्लुतॊ वाजिमेधस्य फलं पराप्नॊति पुष्कलम

8 अद्य परभृति नैवात्र भयं वयालाद भविष्यति
अपि चाल्पेन यत्नेन फलं पराप्स्यति पुष्कलम

9 एवम उक्त्वा महातेजा जगाम तरिदिवं मुनिः
एवं सिद्धः स भगवान आर्ष्टिषेणः परतापवान

10 तस्मिन्न एव तदा तीर्थे सिन्धुद्वीपः परतापवान
देवापिश च महाराज बराह्मण्यं परापतुर महत

11 तथा च कौशिकस तात तपॊनित्यॊ जितेन्द्रियः
तपसा वै सुतप्तेन बराह्मणत्वम अवाप्तवान

12 गाधिर नाम महान आसीत कषत्रियः परथितॊ भुवि
तस्य पुत्रॊ ऽभवद राजन विश्वामित्रः परतापवान

13 स राजा कौशिकस तात महायॊग्य अभवत किल
सपुत्रम अभिषिच्याथ विश्वामित्रं महातपाः

14 देहन्यासे मनश चक्रे तम ऊचुः परणताः परजाः
न गन्तव्यं महाप्राज्ञ तराहि चास्मान महाभयात

15 एवम उक्तः परत्युवाच ततॊ गाधिः परजास तदा
विश्वस्य जगतॊ गॊप्ता भविष्यति सुतॊ मम

16 इत्य उक्त्वा तु ततॊ गाधिर विश्वामित्रं निवेश्य च
जगाम तरिदिवं राजन विश्वामित्रॊ ऽभवन नृपः
न च शक्नॊति पृथिवीं यत्नवान अपि रक्षितुम

17 ततः शुश्राव राजा स राक्षसेभ्यॊ महाभयम
निर्ययौ नगराच चापि चतुरङ्ग बलान्वितः

18 स गत्वा दूरम अध्वानं वसिष्ठाश्रमम अभ्ययात
तस्य ते सैनिका राजंश चक्रुस तत्रानयान बहून

19 ततस तु भगवान विप्रॊ वसिष्ठॊ ऽऽशरमम अभ्ययात
ददृशे च ततः सर्वं भज्यमानं महावनम

20 तस्य करुद्धॊ महाराज वसिष्ठॊ मुनिसत्तमः
सृजस्व शबरान घॊरान इति सवां गाम उवाच ह

21 तथॊक्ता सासृजद धेनुः पुरुषान घॊरदर्शनान
ते च तद बलम आसाद्य बभञ्जुः सर्वतॊदिशम

22 तद दृष्ट्वा विद्रुतं सैन्यमं विश्वामित्रस तु गाधिजः
तपः परं मन्यमानस तपस्य एव मनॊ दधे

23 सॊ ऽसमिंस तीर्थवरे राजन सरस्वत्याः समाहितः
नियमैश चॊपवासैश च कर्शयन देहम आत्मनः

24 जलाहारॊ वायुभक्षः पर्णाहारश च सॊ ऽभवत
तथा सथण्डिलशायी च ये चान्ये नियमाः पृथक

25 असकृत तस्य देवास तु वरतविघ्नं परचक्रिरे
न चास्य नियमाद बुद्धिर अपयातिमहात्मनः

26 ततः परेण यत्नेन तप्त्वा बहुविधं तपः
तेजसा भास्कराकारॊ गाधिजः समपद्यत

27 तपसा तु तथायुक्तं विश्वामित्रं पितामहः
अमन्यत महातेजा वरदॊ वरम अस्य तत

28 स तु वव्रे वरं राजन सयाम अहं बराह्मणस तव इति
तथेति चाब्रवीद बरह्मा सर्व लॊकपितामहः

29 स लब्ध्वा तपसॊग्रेण बराह्मणत्वं महायशाः
विचचार महीं कृत्स्नां कृतकामः सुरॊपमः

30 तस्मिंस तीर्थवरे रामः परदाय विविधं वसु
पयस्विनीस तथा धेनूर यानानि शयनानि च

31 तथा वस्त्राण्य अलंकारं भक्ष्यं पेयं च शॊभनम
अददान मुदितॊ राजन पूजयित्वा दविजॊत्तमान

32 ययौ राजंस ततॊ रामॊ बकस्याश्रमम अन्तिकात
यत्र तेपे तपस तीव्रं दाल्भ्यॊ बक इति शरुतिः

अध्याय 9
अध्याय 1