अध्याय 15

महाभारत संस्कृत - शल्यपर्व

1 [स] तथ सैन्यास तव विभॊ मद्रराजपुरस्कृताः
पुनर अभ्यद्रवन पार्थान वेगेन महता रणे

2 पीडितास तावकाः सर्वे परधावन्तॊ रणॊत्कटाः
कषणेनैव च पार्थांस ते बहुत्वात समलॊडयन

3 ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे
निवार्यमाणा भीमेन पश्यतॊः कृष्ण पार्थयॊः

4 ततॊ धनंजयः करुद्धाः कृपं सह पदानुगैः
अवाकिरच छरौघेण कृतवर्माणम एव च

5 शकुनिं सहदेवस तु सह सैन्यम अवारयत
नकुलः पार्श्वतः सथित्वा मद्रराजम अवैक्षत

6 दरौपदेया नरेन्द्रांश च भूयिष्ठं समवारयन
दरॊणपुत्रं च पाञ्चाल्यः शिखाण्डी समवारयत

7 भीमसेनस तु राजानं गदापाणिर अवारयत
शल्यं तु सह सैन्येन कुन्तीपुत्रॊ युधिष्ठिरः

8 ततः समभवद युद्धं संसक्तं तत्र तत्र ह
तावकानां परेषां च संग्रामेष्व अनिवर्तिनाम

9 तत्र पश्यामहे कर्म शल्यस्यातिमहद रणे
यद एकः सर्वसैन्यानि पाण्डवानाम अयुध्यत

10 वयदृश्यत तदा शल्यॊ युधिष्ठिर समीपतः
रणे चन्द्रसमॊ ऽभयाशे शरैश चर इव गरहः

11 पीडयित्वा तु राजानं शरैर आशीविषॊपमैः
अभ्यधावत पुनर भीमं शरवर्षैर अवाकिरत

12 तस्य तल लाघवं दृष्ट्वा तथैव च कृतास्त्रताम
अपूजयन्न अनीकानि परेषां तावकानि च

13 पीड्यमानास तु शल्येन पाण्डवा भृशविक्षताः
पराद्रवन्त रणं हित्वा करॊशमाने युधिष्ठिरे

14 वध्यमानेष्व अनीकेषु मद्रराजेन पाण्डवः
अमर्षवशम आपन्नॊ धर्मराजॊ युधिष्ठिरः
ततः पौरुषम आस्थाय मद्रराजम अपीडयत

15 जयॊ वास्तु वधॊ वेति कृतबुद्धिर महारथः
समाहूयाब्रवीत सर्वान भरातॄन कृष्णं च माधवम

16 भीष्मॊ दरॊणश च कर्णश च ये चान्ये पृथिवीक्षितः
कौरवार्थे पराक्रान्ताः संग्रामे निधनं गताः

17 यथाभागं यथॊत्साहं भवन्तः कृतपौरुषाः
भागॊ ऽवशिष्ट एकॊ ऽयं मम शल्यॊ महारथः

18 सॊ ऽहम अद्य युधा जेतुम आशंसे मद्रकेश्वरम
तत्र यन मानसं मह्यं तत सार्वं निगदामि वः

19 चक्ररक्षाव इमौ शूरौ मम माद्रवतीसुतौ
अजेयौ वासवेनापि समरे वीर संमतौ

20 साध्व इमौ मातुलं युद्धे कषत्रधर्मपुरस्कृतौ
मदर्थं परतियुध्येतां मानार्हौ सत्यसंगरौ

21 मां वा शल्यॊ रणे हन्ता तं वाहं भद्रम अस्तु वः
इति सत्याम इमां वाणीं लॊकवीरा निबॊधत

22 यॊत्स्ये ऽहं मातुलेनाद्य कषत्रधर्मेण पार्थिवाः
सवयं समभिसंधाय विजयायेतराय वा

23 तस्य मे ऽभयधिकं शस्त्रं सर्वॊपकरणानि च
संयुञ्जन्तु रणे कषिप्रं शास्त्रवद रथयॊजकाः

24 शैनेयॊ दक्षिणं चक्रं धृष्टद्युम्नस तथॊत्तरम
पृष्ठगॊपॊ भवत्व अद्य मम पार्थॊ धनंजयः

25 पुरःसरॊ ममाद्यास्तु भीमः शस्त्रभृतां वरः
एवम अभ्यधिकः शल्याद भविष्यामि महामृधे

26 एवम उक्तास तथा चक्रुः सर्वे राज्ञः परियैषिणः
तथ परहर्षः सैन्यानां पुनर आसीत तदा नृप

27 पाञ्चालानां सॊमकानां मत्स्यानां च विशेषतः
परतिज्ञां तां च संग्रामे धर्मराजस्य पूरयन

28 ततः शङ्खांश च भेरीश च शतशश चैव पुष्करान
अवादयन्त पाञ्चालाः सिंहनादांश च नेदिरे

29 ते ऽभयधावन्त संरब्धा मद्रराजं तरस्विनः
महता हर्षजेनाथ नादेन कुरुपुंगवाः

30 हरादेन गजघण्टानां शङ्खानां निनदेन च
तूर्यशब्देन महता नादयन्तश च मेदिनीम

31 तान परत्यगृह्णात पुत्रस ते मद्रराजश च वीर्यवान
महामेघान इव बहूञ शैलाव अस्तॊदयाव उभौ

32 शल्यस तु समरश्लाघी धर्मराजम अरिंदमम
ववर्ष शरवर्षेण वर्षेण मघवान इव

33 तथैव कुरुराजॊ ऽपि परगृह्य रुचिरं धनुः
दरॊणॊपदेशान विविधान दर्शयानॊ महामनाः

34 ववर्षा शरवर्षाणि चित्रं लघु च सुष्ठु च
न चास्य विवरं कश चिद ददर्श चरतॊ रणे

35 ताव उभौ विविधैर बाणैस ततक्षाते परस्परम
शार्दूलाव आमिष परेप्षू पराक्रान्ताव इवाहवे

36 भीमस तु तव पुत्रेण रणशौण्डेन संगतः
पाञ्चाल्यः सात्यकिश चैव माद्रीपुत्रौ च पाण्डवौ
शकुनिप्रमुखान वीरान परत्यगृह्णन समन्ततः

37 तद आसीत तुमुलं युद्धं पुनर एव जयैषिणाम
तावकातां परेषां च राजन दुर्मन्त्रिते तव

38 दुर्यॊधनस तु भीमस्य शरेणानतपर्वणा
चिच्छेदादिश्य संग्रामे धवजं हेमविभूषितम

39 सकिङ्किणिक जालेन महता चारुदर्शनः
पपात रुचिरः सिंहॊ भीमसेनस्य नानदन

40 पुनश चास्य धनुश चित्रं गजराजकरॊपमम
कषुरेण शितधारेण परचकर्त नराधिपः

41 सच्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव
बिभेदॊरसि विक्रम्य स रथॊपस्थ आविशत

42 तस्मिन मॊहम अनुप्राप्ते पुनर एव वृकॊदरः
यन्तुर एव शिरः कायात कषुरप्रेणाहरत तदा

43 हतसूता हयास तस्य रथम आदाय भारत
वयद्रवन्त दिशॊ राजन हाहाकारस तदाभवत

44 तम अभ्यधावत तराणार्थं दरॊणपुत्रॊ महारथः
कृपश च कृतवर्मा च पुत्रं ते ऽभिपरीप्सवः

45 तस्मिन विलुलिते सैन्ये तरस्तास तस्य पदानुगाः
गाण्डीवधन्वा विस्फार्य धनुस तान अहनच छरैः

46 युधिष्ठिरस तु मद्रेशम अभ्यधावद अमर्षितः
सवयं संचॊदयन्न अश्वान दन्तवर्णान मनॊजवान

47 तत्राद्भुतम अपश्याम कुन्तीपुत्रे युधिष्ठिरे
पुरा भूत्वा मृदुर दान्तॊ यत तदा दारुणॊ ऽभवत

48 विवृताक्षश च कौन्तेयॊ वेपमानश च मन्युना
चिच्छेद यॊधान निशितैः शरैः शतसहस्रशः

49 यां यां परत्युद्ययौ सेनां तां तां जयेष्ठः स पाण्डवः
शरैर अपातयद राजन गिरीन वज्रैर इवॊत्तमैः

50 साश्वसूत धवजरथान रथिनः पातयन बहून
आक्रीडद एकॊ बलवान पवनस तॊयदान इव

51 साश्वारॊहांश च तुरगान पत्तींश चैव सहस्रशः
वयपॊथयत संग्रामे करुद्धॊ रुद्रः पशून इव

52 शून्यम आयॊधनं कृत्वा शरवर्षैः समन्ततः
अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत

53 तस्य तच चरितं दृष्ट्वा संग्रामे भीमकर्मणः
वित्रेसुस तावकाः सर्वे शल्यस तव एनं समभ्ययात

54 ततस तौ तु सुसंरब्धौ परध्माप्य सलिलॊद्भवौ
सामाहूय तदान्यॊन्यं भर्त्सयन्तौ समीयतुः

55 शल्यस तु शरवर्षेण युधिष्ठिरम अवाकिरत
मद्रराजं च कौन्तेयः शरवर्षैर अवाकिरत

56 वयदृश्येतां तदा राजन कङ्कपत्रिभिर आहवे
उद्भिन्न रुधिरौ शूरौ मद्रराजयुधिष्ठिरौ

57 पुष्पिताव इव रेजाते वने शल्मलि किंशुका
दीप्यामानौ महात्मानौ पराणयॊर युद्धदुर्मदौ

58 दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस तयॊर जयम
हत्वा मद्राधिपं पार्थॊ भॊक्ष्यते ऽदय वसुंधराम

59 शल्यॊ वा पाण्डवं हत्वा दद्याद दुर्यॊधनाय गाम
इतीव निश्चयॊ नाभूद यॊधानां तत्र भारत

60 परदक्षिणम अभूत सर्वं धर्मराजस्य युध्यतः

61 ततः शरशतं शल्यॊ मुमॊचाशु युधिष्ठिरे
धनुश चास्य शिताग्रेण बाणेन निरकृन्तत

62 सॊ ऽनयत कार्मुकम आदाय शल्यं शरशतैस तरिभिः
अविध्यत कार्मुकं चास्य कषुरेण निरकृन्तत

63 अथास्य निजघानाश्वांश चतुरॊ नतपर्वभिः
दवाभ्याम अथ शिताग्राभ्याम उभौ च पार्ष्णिसारथी

64 ततॊ ऽसय दीप्यमानेन पीतेन निशितेन च
परमुखे वर्तमानस्य भल्लेनापाहरद धवजम
ततः परभग्नं तत सैन्यं दौर्यॊधनम अरिंदम

65 ततॊ मद्राधिपं दरौणिर अभ्यधावत तथा कृतम
आरॊप्य चैनं सवरथं तवरमाणः परदुद्रुवे

66 मुहूर्तम इव तौ गत्वा नर्दमाने युधिष्ठिरे
सथित्वा ततॊ मद्रपतिर अन्यं सयन्दनम आस्थितः

67 विधिवत कल्पितं शुभ्रं महाम्बुद निनादिनम
सज्जयन्त्रॊपकरणं दविषतां लॊमहर्षणम

अध्याय 1
अध्याय 1