अध्याय 96

महाभारत संस्कृत - शांतिपर्व

1 अथ यॊ विजिगीषेत कषत्रियः कषत्रियं युधि
कस तस्य धर्म्यॊ विजय एतत पृष्टॊ बरवीहि मे

2 स सहायॊ ऽसहायॊ वा राष्ट्रम आगम्य भूमिपः
बरूयाद अहं वॊ राजेति रक्षिष्यामि च वः सदा

3 मम धर्म्यं बलिं दत्तकिं वा मां परतिपत्स्यथ
ते चेत तम आगतं तत्र वृणुयुः कुशलं भवेत

4 ते चेद अक्षत्रियाः सन्तॊ विरुध्येयुः कथं चन
सर्वॊपायैर नियन्तव्या वि कर्म सथा नराधिप

5 अशक्तं कषत्रियं मत्वा शस्त्रं गृह्णात्य अथापरः
तराणायाप्य असमर्थं तं मन्यमानम अतीव च

6 अथ यः कषत्रियॊ राजा कषत्रियं परत्युपाव्रजेत
कथं स परतियॊद्धव्यस तन मे बरूहि पिता मह

7 नासंनद्धॊ नाकवचॊ यॊद्धव्यः कषत्रियॊ रणे
एक एकेन वाच्यश च विसृजस्व कषिपामि च

8 स चेत संनद्ध आगच्छेत संनद्धव्यं ततॊ भवेत
स चेत स सैन्य आगच्छेत स सैन्यस तम अथाह्वयेत

9 स चेन निकृत्या युध्येत निकृत्या तं परयॊधयेत
अथ चेद धर्मतॊ युध्येद धर्मेणैव निवारयेत

10 नाश्वेन रथिनं यायाद उदियाद रथिनं रथी
वयसने न परहर्तव्यं न भीताय जिताय च

11 नेषुर लिप्तॊ न कर्णी सयाद असताम एतद आयुधम
जयार्थम एव यॊद्धव्यं न करुध्येद अजिघांसतः

12 साधूनां तु मिथॊ भेदात साधुश चेद वयसनी भवेत
सव्रणॊ नाभिहन्तव्यॊ नानपत्यः कथं चन

13 भग्नशस्त्रॊ विपन्नाश्वश छिन्नज्यॊ हतवाहनः
चिकित्स्यः सयात सवविषये पराप्यॊ वा सवगृहान भवेत
निर्व्रणॊ ऽपि च मॊक्तव्य एष धर्मः सनातनः

14 तस्माद धर्मेण यॊद्धव्यं मनुः सवायम्भुवॊ ऽबरवीत
सत्सु नित्यं सतां धर्मस तम आस्थाय न नाशयेत

15 यॊ वै जयत्य अधर्मेण कषत्रियॊ वर्धमानकः
आत्मानम आत्मना हन्ति पापॊ निकृतिजीवनः

16 कर्म चैतद असाधूनाम असाधुं साधुना जयेत
धर्मेण निधनं शरेयॊ न जयः पापकर्मणा

17 नाधर्मश चरितॊ राजन सद्यः फलति गौर इव
मूलान्य अस्य परशाखाश च दहन समनुगच्छति

18 पापेन कर्मणॊ वित्तं लब्ध्वा पापः परहृष्यति
स वर्धमानः सतेयेन पापः पापे परसज्जति

19 न धर्मॊ ऽसतीति मन्वानः शुचीन अवहसन्न इव
अश्रद्दधान भावाच च विनाशम उपगच्छति

20 स बद्धॊवारुणैः पाशैर अमर्त्य इव मन्यते
महादृतिर इवाध्मातः सवकृतेन विवर्धते

21 ततः स मूलॊ हरियते नदीकूलाद इव दरुमः
अथैनम अभिनिन्दन्ति भिन्नं कुम्भम इवाश्मनि
तस्माद धर्मेण विजयं कामं लिप्सेत भूमिपः

अध्याय 9
अध्याय 9