अध्याय 85
1 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
बृहस्पतेश च संवादं शक्रस्य च युधिष्ठिर
2 किं सविद एकपदं बरह्मन पुरुषः सम्यग आचरन
परमाणं सर्वभूतानां यशश चैवाप्नुयान महत
3 सान्त्वम एकपदं शक्र पुरुषः सम्यग आचरन
परमाणं सर्वभूतानां यशश चैवाप्नुयान महत
4 एतद एकपदं शक्र सर्वलॊकसुखावहम
आचरन सर्वभूतेषु परियॊ भवति सर्वदा
5 यॊ हि नाभाषते किं चित सततं भरुकुटी मुखः
दवेष्यॊ भवति भूतानां स सान्त्वम इह नाचरन
6 यस तु पूर्वम अभिप्रेक्ष्य पूर्वम एवाभिभाषते
समितपूर्वाभिभाषी च तस्य लॊकः परसीदति
7 दानम एव हि सर्वत्र सान्त्वेनानभिजल्पितम
न परीणयति भूतानि निर्व्यञ्जमम इवाशनम
8 अदाता हय अपि भूतानां मधुराम ईरयन गिरम
सर्वलॊकम इमं शक्र सान्त्वेन कुरुते वशे
9 तस्मात सान्त्वं परकर्तव्यं दण्डम आधित्सताम इह
फलं च जनयत्य एवं न चास्यॊद्विजते जनः
10 सुकृतस्य हि सान्त्वस्य शलक्ष्णस्य मधुरस्य च
सम्यग आसेव्यमानस्य तुल्यं जातु न विद्यते
11 इत्य उक्तः कृतवान सर्वं तथा शक्रः पुरॊधसा
तथा तवम अपि कौन्तेय सम्यग एतत समाचर