अध्याय 77

महाभारत संस्कृत - शांतिपर्व

1 सवकर्मण्य अपरे युक्तास तथैवान्ये वि कर्मणि
तेषां विशेषम आचक्ष्व बराह्मणानां पिता मह

2 विद्या लक्षणसंपन्नाः सर्वत्राम्नाय दर्शिनः
एते बरह्म समा राजन बराह्मणाः परिकीर्तिताः

3 ऋत्विग आचार्य संपन्नाः सवेषु कर्मस्व अवस्थिताः
एते देवसमा राजन बराह्मणानां भवन्त्य उत

4 ऋत्विक पुरॊहितॊ मन्त्री दूतॊ ऽथार्थानुशासकः
एते कषत्रसमा राजन बराह्मणानां भवन्त्य उत

5 अश्वारॊहा गजारॊहा रथिनॊ ऽथ पदातयः
एते वैश्य समा राजन बराह्मणानां भवन्त्य उत

6 जन्म कर्म विहीना ये कदर्या बरह्म बन्धवः
एते शूद्र समा राजन बराह्मणानां भवन्त्य उत

7 अश्रॊत्रियाः सर्व एव सर्वे चानाहिताग्नयः
तान सर्वान धार्मिकॊ राजा बलिं विष्टिं च कारयेत

8 आह्वायका देवलका नक्षत्रग्राम याजकाः
एते बराह्मण चण्डाला महापथिक पञ्चमाः

9 एतेभ्यॊ बलिम आदद्याद धीनकॊशॊ महीपतिः
ऋते बरह्म समेभ्यश च देवकल्पेभ्य एव च

10 अब्राह्मणानां वित्तस्य सवामी राजेति वैदिकम
बराह्मणानां च ये के चिद वि कर्म सथा भवन्त्य उत

11 वि कर्म सथास तु नॊपेक्ष्या जातु राज्ञा कथं चन
नियम्याः संविभज्याश च धर्मानुग्रह काम्यया

12 यस्य सम विषये राज्ञः सतेनॊ भवति वै दविहः
राज्ञ एवापराधं तं मन्यन्ते तद्विदॊ जनाः

13 अवृत्त्या यॊ भवेत सतेनॊ वेद वित सनातकस तथा
राजन स राज्ञा भर्तव्य इति धर्मविदॊ विदुः

14 स चेन नॊ परिवर्तेत कृतवृत्तिः परंतप
ततॊ निवासनीयः सयात तस्माद देशात स बान्धवः

अध्याय 7
अध्याय 7