अध्याय 41
1 [वैषम्पायन]
परकृतीनां तु तद वाक्यं देशकालॊपसंहितम
शरुत्वा युधिष्ठिरॊ राजाथॊत्तरं परत्यभाषत
2 धन्याः पाण्डुसुता लॊके येषां बराह्मणपुंगवाः
तथ्यान वाप्य अथ वातथ्यान गुणान आहुः समागताः
3 अनुग्राह्या वयं नूनं भवताम इति मे मतिः
यत्रैवं गुणसंपन्नान अस्मान बरूथ विमत्सराः
4 धृतराष्ट्रॊ महाराजः पिता नॊ दैवतं परम
साशने ऽसय परिये चैव सथेयं मत्प्रिय काङ्क्षिभिः
5 एतदर्थं हि जीवामि कृत्वा जञातिवधं महत
अस्य शुश्रूषणं कार्यं मया नित्यम अतन्द्रिणा
6 यदि चाहम अनुग्राह्यॊ भवतां सुहृदां ततः
धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुम अर्हथ
7 एष नाथॊ हि जगतॊ भवतां च मया सह
अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च
एतन मनसि कर्तव्यं भवद्भिर वचनं मम
8 अनुगम्य च राजानं यथेष्टं गम्यताम इति
पौरजानपदान सर्वान विसृज्य कुरुनन्दनः
यौवराज्येन कौरव्यॊ भीमसेनम अयॊजयत
9 मन्त्रे च निश्चये चैव षाङ्गुण्यस्य च चिन्तने
विदुरं बुद्धिसंपन्नं परीतिमान वै समादिशत
10 कृताकृत परिज्ञाने तथाय वययचिन्तने
संजयं यॊजयाम आस ऋद्धम ऋद्धैर गुणैर युतम
11 बलस्य परिमाणे च भक्त वेतनयॊस तथा
नकुलं वयादिशद राजा कर्मिणाम अन्ववेक्षणे
12 परचक्रॊपरॊधे च दृप्तानां चावमर्दने
युधिष्ठिरॊ महाराजः फल्गुनं वयादिदेश ह
13 दविजानां वेद कार्येषु कार्येष्व अन्येषु चैव हि
धौम्यं पुरॊधसां शरेष्ठं वयादिदेश परंतपः
14 सहदेवं समीपस्थं नित्यम एव समादिशत
तेन गॊप्यॊ हि नृपतिः सर्वावस्थॊ विशां पते
15 यान यान अमन्यद यॊग्यांश च येषु येष्व इह कर्मसु
तांस तांस तेष्व एव युयुजे परीयमाणॊ महीपतिः
16 विदुरं संजयं चैव युयुत्सुं च महामतिम
अब्रवीत परवीर घनॊ धर्मात्मा धर्मवत्सलः
17 उत्थायॊत्थाय यत कार्यम अस्य राज्ञः पितुर मम
सर्वं भवद्भिः कर्तव्यम अप्रमत्तैर यथातथम
18 पौरजानपदानां च यानि कार्याणि नित्यशः
राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः