अध्याय 334

महाभारत संस्कृत - शांतिपर्व

1 [वैषम्पायन] शरुत्वैतन नारदॊ वाक्यं नरनारायणेरितम
अत्यन्तभक्तिमान देवे एकान्तित्वम उपेयिवान

2 परॊष्य वर्षसहस्रं तु नरनारायणाश्रमे
शरुत्वा भगवद आख्यानं दृष्ट्वा च हरिम अव्ययम
हिमवन्तं जगामाशु यत्रास्य सवक आश्रमः

3 ताव अपि खयाततपसौ नरनारायणाव ऋषी
तस्मिन्न एवाश्रमे रम्ये तेपतुस तप उत्तमम

4 तम अप्य अमितविक्रान्तः पाण्डवानां कुलॊद्वहः
पावितात्माद्य संवृत्तः शरुत्वेमाम आदितः कथाम

5 नैव तस्य परॊ लॊकॊ नायं पार्थिव सत्तम
कर्मणा मनसा वाचा यॊ दविष्याद विष्णुम अव्ययम

6 मज्जन्ति पितरस तस्य नरके शाश्वतीः समाः
यॊ दविष्याद विबुधश्रेष्ठं देवं नारायणं हरिम

7 कथं नाम भवेद दवेष्य आत्मा लॊकस्य कस्य चित
आत्मा हि पुरुषव्याघ्र जञेयॊ विष्णुर इति सथितिः

8 य एष गुरुर अस्माकम ऋषिर गन्धवती सुतः
तेनैतत कथितं तात माहात्म्यं परमात्मनः
तस्माच छरुतं मया चेदं कथितं च तवानघ

9 कृष्णद्वैपायनं वयासं विद्धि नारायणं परभुम
कॊ हय अन्यः पुरुषव्याघ्र महाभारत कृद भवेत
धर्मान नानाविधांश चैव कॊ बरूयात तम ऋते परभुम

10 वर्ततां ते महायज्ञॊ यथा संकल्पितस तवया
संकल्पिताश्वमेधस तवं शरुतधर्मश च तत्त्वतः

11 एतत तु महद आख्यानं शरुत्वा पारिक्षितॊ नृपः
ततॊ यज्ञसमाप्त्य अर्थं करियाः सर्वाः समारभत

12 नारायणीयम आख्यानम एतत ते कथितं मया
नारदेन पुरा राजन गुरवे मे निवेदितम
ऋषीणां पाण्डवानां च शृण्वतॊः कृष्ण भीस्मयॊः

13 स हि परमगुरुर भुवनपतिर; धरणिधरः शम नियमनिधिः
शरुतिविनयनिधिर दविज परमहितस; तव भवतु गतिर हरिर अमर हितः

14 तपसां निधिः सुमहतां महतॊ; यशसश च भाजनम अरिष्टकहा
एकान्तिनां शरणदॊ ऽभयदॊ गतिदॊ ऽसतु वः; स मखभागहरस तरिगुणातिगः

15 तरिगुणातिगश चतुर्पञ्चधरः; पूर्तेष्टयॊश च फलभागहरः
विदधाति नित्यम अजितॊ ऽतिबलॊ; गतिम आत्मगा सुकृतिनाम ऋषिणाम

16 तं लॊकसाक्षिणम अजं पुरुषं; रविवर्णम ईश्वर गतिं बहुशः
परनमध्वम एकमतयॊ यतयः; सलिलॊद्भवॊ ऽपि तम ऋषिं परनतः

17 स हि लॊकयॊनिर अमृतस्य पदं; सूक्ष्मं पुराणम अचलं परमम
तत सांख्ययॊगिभिर उदारधृतं; बुद्ध्या यतात्मभिर विदितं सततम

अध्याय 3
अध्याय 3