अध्याय 272

महाभारत संस्कृत - शांतिपर्व

1 [य] अहॊ धर्मिष्ठता तात वृत्रस्यामिततेजसः
यस्य विज्ञानम अतुलं विष्णॊर भक्तिश च तादृशी

2 दुर्विज्ञेयम इदं तात विष्णॊर अमिततेजसः
कथं वा राजशार्दूल पदं तज्ज्ञातवान असौ

3 भवता कथितं हय एतच छरद्दधे चाहम अच्युत
भूयस तु मे समुत्पन्ना बुद्धिर अव्यक्तदर्शनात

4 कथं विनिहतॊ वृत्रः शक्रेण भरतर्षभ
धर्मिष्ठॊ विष्णुभक्तश च तत्त्वज्ञश च पदान्वये

5 एतन मे संशयं बरूहि पृच्छतॊ भरतर्षभ
वृत्रस तु राजशार्दूल यथा शक्रेण निर्जितः

6 यथा चैवाभवद युद्धं तच चाचक्ष्व पितामह
विस्तरेण महाबाहॊ परं कौतूहलं हि मे

7 [भी] रथेनेन्द्रः परयातॊ वै सार्धं सुरगणैः पुरा
ददर्शाथाग्रतॊ वृत्रं विष्ठितं पर्वतॊपमम

8 यॊजनानां शतान्य ऊर्ध्वं पञ्चॊच्छ्रितम अरिंदम
शतानि विस्तरेणाथ तरीण्य एवाभ्यधिकानि तु

9 तत परेक्ष्य तादृशं रूपं तरैलॊक्येनापि दुर्जयम
वृत्रस्य देवाः संत्रस्ता न शान्तिम उपलेभिरे

10 शक्रस्य तु तदा राजन्न ऊरुस्तम्भॊ वयजायत
भयाद वृत्रस्य सहसा दृष्ट्वा तद रूपम उत्तमम

11 ततॊ नादः समभवद वादित्राणां च निस्वनः
देवासुराणां सर्वेषां तस्मिन युद्ध उपस्थिते

12 अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रम उपस्थितम
न संभ्रमॊ न भीः का चिद आस्था वा समजायत

13 ततः समभवद युद्धं तरैलॊक्यस्य भयंकरम
शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः

14 असिभिः पत्तिशैः शूलैः शक्तितॊमरम उद्गरैः
शिलाभिर विविधाभिश च कार्मुकैश च महास्वनैः

15 अस्त्रैश च विविधैर दिव्यैः पावकॊल्काभिर एव च
देवासुरैस ततः सैन्यैः सर्वम आसीत समाकुलम

16 पितामहपुरॊगाश च सर्वे देवगणास तथा
ऋषयश च महाभागास तद युद्धं दरष्टुम आगमन

17 विमानाग्र्यैर महाराज सिद्धाश च भरतर्षभ
गन्धर्वाश च विमानाग्र्यैर अप्सरॊभिः समागमन

18 ततॊ ऽतरिक्षम आवृत्य वृत्रॊ धर्मभृतां वरः
अश्मवर्षेण देवेन्द्रं पर्वतात समवाकिरत

19 ततॊ देवगणाः करुद्धाः सर्वतः शस्त्रवृष्टिभिः
अश्मवर्षम अपॊहन्त वृत्रप्रेरितम आहवे

20 वृत्रश च कुरुशार्दूल महामायॊ महाबलः
मॊहयाम आस देवेन्द्रं मायायुद्धेन सर्वतः

21 तस्य वृत्रार्दितस्याथ मॊह आसीच छतक्रतॊः
रथंतरेण तं तत्र वसिष्ठः समबॊधयत

22 [वसिस्ठ] देवश्रेष्ठॊ ऽसि देवेन्द्र सुरारिविनिबर्हण
तरैलॊक्यबलसंयुक्तः कस्माच छक्र विषीदसि

23 एष बरह्मा च विष्णुश च शिवश चैव जगत्प्रभुः
सॊमश च भगवान देवः सर्वे च परमर्षयः

24 मा कार्षीः कश्मलं शक्र कश चिद एवेतरॊ यथा
आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर

25 एष लॊकगुरुस तर्यक्षः सर्वलॊकनमस्कृतः
निरीक्षते तवां भगवांस तयज मॊहं सुरेश्वर

26 एते बरह्मर्षयश चैव बृहस्पतिपुरॊगमाः
सतवेन शक्र दिव्येन सतुवन्ति तवां जयाय वै

27 [भी] एवं संबॊध्यमानस्य वसिष्ठेन महात्मना
अतीव वासवस्यासीद बलम उत्तमतेजसः

28 ततॊ बुद्धिम उपागम्य भगवान पाकशासनः
यॊगेन महता युक्तस तां मायां वयपकर्षत

29 ततॊ ऽङगिरः सुतः शरीमांस ते चैव परमर्षयः
दृष्ट्वा वृत्रस्य विक्रान्तम उपगम्य महेश्वरम
ऊचुर वृत्र विनाशार्थं लॊकानां हितकाम्यया

30 ततॊ भगवतस तेजॊ जवरॊ भूत्वा जगत्पतेः
समाविशन महारौद्रं वृत्रं दैत्यवरं तदा

31 विष्णुश च भगवान देवः सर्वलॊकाभिपूजितः
ऐन्द्रं समाविशद वज्रं लॊकसंरक्षणे रतः

32 ततॊ बृहस्पतिर धीमान उपागम्य शतक्रतुम
वसिष्ठश च महातेजाः सर्वे च परमर्षयः

33 ते समासाद्य वरदं वासवं लॊकपूजितम
ऊचुर एकाग्रमनसॊ जहि वृत्रम इति परभॊ

34 [महेष्वर] एष वृत्रॊ महाञ शक्र बलेन महता वृतः
विश्वात्मा सर्वगश चैव बहुमायश च विश्रुतः

35 तद एनम असुरश्रेष्ठं तरैलॊक्येनापि दुर्जयम
जहि तवं यॊगम आस्थाय मावमंस्थाः सुरेश्वर

36 अनेन हि तपस्तप्तं बलार्थम अमराधिप
षष्टिं वर्षसहस्राणि बरह्मा चास्मै वरं ददौ

37 महत्त्वं यॊगिनां चैव महामायत्वम एव च
महाबलत्वं च तथा तेजश चाग्र्यं सुरेश्वर

38 एतद वै मामकं तेजः समाविशति वासव
वृत्रम एनं तवम अप्य एवं जहि वज्रेण दानवम

39 [षक्र] भगवंस तवत्प्रसादेन दितिजं सुदुरासदम
वज्रेण निहनिष्यामि पश्यतस ते सुरर्षभ

40 [भी] आविश्यमाने दैत्ये तु जवरेणाथ महासुरे
देवतानाम ऋषीणां च हर्षान नादॊ महान अभूत

41 ततॊ दुन्दुभयश चैव शङ्खाश च सुमहास्वनाः
मुरजा डिण्डिमाश चैव परावाद्यन्त सहस्रशः

42 असुराणां तु सर्वेषां समृतिलॊपॊ ऽभवन महान
परज्ञानाशश च बलवान कषणेन समपद्यत

43 तम आविष्टम अथॊ जञात्वा ऋषयॊ देवतास तथा
सतुवन्तः शक्रम ईशानं तथा पराचॊदयन्न अपि

44 रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः
ऋषिभिः सतूयमानस्य रूपम आसीत सुदुर्दृशम

अध्याय 2
अध्याय 2