अध्याय 260

महाभारत संस्कृत - शांतिपर्व

1 [य] अविरॊधेन भूतानां तयागः षाद्गुण्यकारकः
यः सयाद उभय भाग्धर्मस तन मे बरूहि पितामह

2 गार्हस्थ्यस्य च धर्मस्य तयागधर्मस्य चॊभयॊः
अदूरसंप्रस्थितयॊः किं सविच छरेयः पितामह

3 [भी] उभौ धर्मौ महाभागाव उभौ परमदुश्चरौ
उभौ महाफलौ तात सद्भिर आचरिताव उभौ

4 अत्र ते वर्तयिष्यामि परामान्यम उभयॊस तयॊः
शृणुष्वैक मनाः पार्थ छिन्नधर्मार्थसंशयम

5 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
कपिलस्य गॊश च संवादं तन निबॊध युधिष्ठिर

6 आम्नायम अनुपश्यन हि पुराणं शाश्वतं धरुवम
नहुषः पूर्वम आलेभे तवस्तुर गाम इतिनः शरुतम

7 तां नियुक्ताम अदीनात्मा सत्त्वस्थः समये रतः
जञानवान नियताहारॊ ददर्श पलिलस तदा

8 स बुद्धिम उत्तमां पराप्तॊ नैष्ठिकीम अकुतॊभयाम
समरामि शिथिलं सत्यं वेदा इत्य अब्रवीत सकृत

9 तां गाम ऋषिः सयूम रश्मिः परविश्य यतिम अब्रवीत
हंहॊ वेदा यदि मता धर्माः केनापरे मताः

10 तपस्विनॊ धृतिमतः शरुतिविज्ञानचक्षुषः
सर्वम आर्षं हि मन्यन्ते वयाहृतं विदितात्मनः

11 तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः
का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः

12 [कपिल] नाहं वेदान विनिन्दामि न विवक्षामि कर्हि चित
पृथग आश्रमिणां कर्माण्य एकार्थानीति नः शरुतम

13 गच्छत्य एव परित्यागी वानप्रस्थश च गच्छति
गृहस्थॊ बरह्मचारी च उभौ ताव अपि गच्छतः

14 देव याना हि पन्थानश चत्वारः शाश्वता मताः
तेषां जयायः कनीयस्त्वं फलेषूक्तं बलाबलम

15 एवं विदित्वा सर्वार्थान आरभेद इति वैदिकम
नारभेद इति चान्यत्र नैष्ठिकी शरूयते शरुतिः

16 अनारम्भे हय अदॊषः सयाद आरम्भे ऽदॊष उत्तमः
एवं सथितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम

17 यद्य अत्र किं चित परत्यक्षम अहिंसायाः परं मतम
ऋते तव आगमशास्त्रेभ्यॊ बरूहि तद यदि पश्यसि

18 [सयूमरष्मि] सवर्गकामॊ यजेतेति सततं शरूयते शरुतिः
फलं परकल्प्य पूर्वं हि ततॊ यज्ञः परतायते

19 अजश चाश्वश च मेषश च गौश च पक्षिगणाश च ये
गराम्यारण्या ओषधयः पराणस्यान्नम इति शरुतिः

20 तथैवान्नं हय अहर अहः सायं परातर्निरुप्यते
पशवश चाथ धान्यं च यज्ञस्याङ्गम इति शरुतिः

21 एतानि सहयज्ञेन परजापतिर अकल्पयत
तेन परजापतिर देवान यज्ञेनायजत परभुः

22 ते समान्यॊन्यं चराः सर्वे परानिनः सप्त सप्त च
यज्ञेषूपाकृतं विश्वं पराहुर उत्तमसंज्ञितम

23 एतच चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस तथा
कॊ जातु न विचिन्वीत विद्वान सवां शक्तिम आत्मनः

24 पशवश च मनुष्याश च दरुमाश चौषधिभिः सह
सवर्गम एवाभिकाङ्क्षन्ते न च सवर्गस तव ऋते मखम

25 ओषध्यः पशवॊ वृक्षा वीरुदाज्यं पयॊ दधि
हविर भूमिर दिशः शरद्धा कालश चैतानि दवादश

26 ऋचॊ यजूंसि सामानि यजमानश च सॊदशः
अग्निर जञेयॊ गृहपतिः स सप्तदश उच्यते
अङ्गान्य एतानि यज्ञस्य यज्ञॊ मूलम इति शरुतिः

27 आज्येन पयसा दध्ना शकृद आमिक्षया तवचा
वालैः शृङ्गेन पादेन संभवत्य एव गौर्मखम
एवं परत्येकशः सर्वं यद यद अस्य विधीयते

28 यज्ञं वहन्ति संभूय सहर्त्विग्भिः सदक्षिणैः
संहत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्य उत

29 यज्ञार्थानि हि सृष्टानि यथा वै शरूयते शरुतिः
एवं पूर्वे पूर्वतराः परवृत्ताश चैव मानवाः

30 न हिनस्ति हय आरभते नाभिद्रुह्यति किं चन
यज्ञॊ यस्तव्य इत्य एव यॊ यजत्य अफलेप्सया

31 यज्ञाङ्गान्य अपि चैतानि यथॊक्तानि न संशयः
विधिना विधियुक्तानि तारयन्ति परस्परम

32 आम्नायम आर्षं पश्यामि यस्मिन वेदाः परतिष्ठिताः
तं विद्वांसॊ ऽनुपश्यन्ति बराह्मणस्यानुदर्शनात

33 बराह्मण परभवॊ यज्ञॊ बराह्मणार्पण एव च
अनु यज्ञं जगत सर्वं यज्ञश चानु जगत सदा

34 ओम इति बरह्मणॊ यॊनिर नमः सवाहा सवधा वसत
यस्यैतानि परयुज्यन्ते यथाशक्ति कृतान्य अपि

35 न तस्य तरिषु लॊकेषु परलॊकभयं विदुः
इति वेदा वदन्तीह सिद्धाश च परमर्षयः

36 रिचॊ यजूंसि सामानि सतॊभाश च विधिचॊदिताः
यस्मिन्न एतानि सर्वाणि बहिर एव स वै दविजः

37 अग्न्याधेये यद भवति यच च सॊमे सुते दविज
यच चेतरैर महायज्ञैर्वेद तद भगवान सवतः

38 तस्माद बरह्मन यजेतैव याजयेच चाविचारयन
यजतः सवर्गविधिना परेत्य सवर्गफलं महत

39 नायं लॊकॊ ऽसत्य अयज्ञानां परश चेति विनिश्चयः
वेदवादविदश चैव परमानम उभयं तदा

अध्याय 2
अध्याय 2