अध्याय 20
1 [वैषम्पायन]
तस्मिन वाक्यान्तरे वक्ता देवस्थानॊ महातपाः
अभिनीततरं वाक्यम इत्य उवाच युधिष्ठिरम
2 यद वचॊ फल्गुनेनॊक्तं न जयायॊ ऽसति धनाद इति
अत्र ते वर्तयिष्यामि तद एकाग्रमनाः शृणु
3 अजातशत्रॊ धर्मेण कृत्स्ना ते वसुधा जिता
तां जित्वा न वृथा राजंस तवं परित्यक्तुम अर्हसि
4 चतुष्पदी हि निःश्रेणी कर्मण्य एषा परतिष्ठिता
तां करमेण महाबाहॊ यथावज जय पार्थिव
5 तस्मात पार्थ महायज्ञैर यजस्व बहु दक्षिणैः
सवाध्याययज्ञा ऋषयॊ जञानयज्ञास तथापरे
6 कर्म निष्ठांस तु बुध्येथास तपॊ निष्ठांश च भारत
वैखानसानां राजेन्द्र वचनं शरूयते यथा
7 ईहते धनहेतॊर यस तस्यानीहा गरीयसी
भूयान दॊषः परवर्धेत यस तं धनम अपाश्रयेत
8 कृच्छ्राच च दरव्यसंहारं कुर्वन्ति धनकारणात
धनेन तृषितॊ ऽबुद्ध्या भरूण हत्यां न बुध्यते
9 अनर्हते यद ददाति न ददाति यद अर्हते
अनर्हार्हापरिज्ञानाद दानधर्मॊ ऽपि दुष्करः
10 यज्ञाय सृष्टानि धनानि धात्रा; यष्टादिष्टः पुरुषॊ रक्षिता च
तस्मात सर्वं यज्ञ एवॊपयॊज्यं; धनं ततॊ ऽनन्तर एव कामः
11 यज्ञैर इन्द्रॊ विविधैर अन्नवद्भिर; देवान सर्वान अभ्ययान महौजाः
तेनेन्द्रत्वं पराप्य विभ्राजते ऽसौ; तस्माद यज्ञे सर्वम एवॊपयॊज्यम
12 महादेवः सर्वमेधे महात्मा; हुत्वात्मानं देवदेवॊ विभूतः
विश्वाँल लॊकान वयाप्य विष्टभ्य कीर्त्या; विरॊचते दयुतिमान कृत्ति वासाः
13 आविक्षितः पार्थिवॊ वै मरुत्तः; सवृद्ध्या मर्त्यॊ यॊ ऽयजद देवराजम
यज्ञे यस्य शरीः सवयं संनिविष्टा; यस्मिन भाण्डं काञ्चनं सर्वम आसीत
14 हरिश्चन्द्रः पार्थिवेन्द्रः शरुतस ते; यज्ञैर इष्ट्वा पुण्यकृद वीतशॊकः
ऋद्ध्या शक्रं यॊ ऽजयन मानुषः संस; तस्माद यज्ञे सर्वम एवॊपयॊज्यम