अध्याय 136

महाभारत संस्कृत - शांतिपर्व

1 [य] सर्वत्र बुद्धिः कथिता शरेष्ठा ते भरतर्षभ
अनागता तथॊत्पन्ना दीर्घसूत्रा विनाशिनी

2 तद इच्छामि परां बुद्धिं शरॊतुं भरतसत्तम
यथा राजन न मुह्येत शत्रुभिः परिवारितः

3 धर्मार्थकुशलप्राज्ञ सर्वशास्त्रविशारद
पृच्छामि तवा कुरु कश्रेष्ठ तन मे वयाख्यातुम अर्हसि

4 शत्रुभिर बहुभिर गरस्तॊ यथा वर्तेत पार्थिवः
एतद इच्छाम्य अहं शरॊतुं सर्वम एव यथाविधि

5 विषमस्थं हि राजानं शत्रवः परिपन्थिनः
बहवॊ ऽपय एकम उद्धर्तुं यतन्ते पूर्वतापिताः

6 सर्वतः परार्थ्यमानेन दुर्बलेन महाबलैः
एकेनैवासहायेन शक्यं सथातुं कथं भवेत

7 कथं मित्रम अरिं चैव विन्देत भरतर्षभ
चेष्टितव्यं कथं चाथ शत्रॊर मित्रस्य चान्तरे

8 परज्ञात लक्षणे राजन्न अमित्रे मित्रतां गते
कथं नु पुरुषः कुर्यात किं वा कृत्वा सुखी भवेत

9 विग्रहं केन वा कुर्यात संधिं वा केन यॊजयेत
कथं वा शत्रुमध्यस्थॊ वर्तेताबलवान इति

10 एतद वै सर्वकृत्यानां परं कृत्यं परंतप
नैतस्य कश चिद वक्तास्ति शरॊता चापि सुदुर्लभः

11 ऋते शांतनवाद भीष्मात सत्यसंधाज जितेन्द्रियात
तद अन्विष्य महाबाहॊ सर्वम एतद वदस्व मे

12 [भ] तवद युक्तॊ ऽयम अनुप्रश्नॊ युधिष्ठिर गुणॊदयः
शृणु मे पुत्र कार्त्स्न्येन गुह्यम आपत्सु भारत

13 अमित्रॊ मित्रतां याति मित्रं चापि परदुष्यति
सामर्थ्य यॊगात कार्याणां तद्गत्या हि सदागतिः

14 तस्माद विश्वसितव्यं च विग्रहं च समाचरेत
देशं कालं च विज्ञाय कार्याकार्यविनिश्चये

15 संधातव्यं बुधैर नित्यं वयवस्यं च हितार्थिभिः
अमित्रैर अपि संधेयं पराणा रक्ष्याश च भारत

16 यॊ हय अमित्रैर नरॊ नित्यं न संदध्याद अपण्डितः
न सॊ ऽरथम आप्नुयात किं चित फलान्य अपि च भारत

17 यस तव अमित्रेण संधत्ते मित्रेण च विरुध्यते
अर्थयुक्तिं समालॊक्य सुमहद विन्दते फलम

18 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
मार्जारस्य च संवादं नयग्रॊधे मूषकस्य च

19 वने महति कस्मिंश चिन नयग्रॊधः सुमहान अभूत
लता जालपरिच्छन्नॊ नानाद्विज गणायुतः

20 सकन्धवान मेघसंकाशः शीतच छायॊ मनॊरमः
वैरन्त्यम अभितॊ जातस तरुर वयालमृगाकुलः

21 तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम
वसति सम महाप्राज्ञः पलितॊ नाम मूषकः

22 शाखाश च तस्य संश्रित्य वसति सम सुखं पुरः
लॊमशॊ नाम मार्जारः पक्षिसत्त्वावसादकः

23 तत्र चागत्य चाण्डालॊ वैरन्त्य कृतकेतनः
अयॊजयत तम उन्माथं नित्यम अस्तं गते रवौ

24 तत्र सनायुमयान पाशान यथावत संनिधाय सः
गृहं गत्वा सुखं शेते परभाताम एति शर्वरीम

25 तत्र सम नित्यं बध्यन्ते नक्तं बहुविधा मृगाः
कदा चित तत्र मार्जारस तव अप्रमत्तॊ ऽपय अबध्यत

26 तस्मिन बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि
तं कालं पलितॊ जञात्वा विचचार सुनिर्भयः

27 तेनानुचरता तस्मिन वने विश्वस्तचारिणा
भक्षं विचरमाणेन नचिराद दृष्टम आमिषम

28 स तम उन्माथम आरुह्य तद आमिषम अभक्षयत
तस्यॊपरि सपत्नस्य बद्धस्य मनसा हसन

29 आमिषे तु परसक्तः स कदा चिद अवलॊकयन
अपश्यद अपरं घॊरम आत्मनः शत्रुम आगतम

30 शरप्रसून संकाशं मही विवर शायिनम
नकुलं हरिकं नाम चपलं ताम्रलॊचनम

31 तेन मूषक गन्धेन तवरमाणम उपागतम
भक्षार्थं लेलिहद वक्त्रं भूमाव ऊर्ध्वमुखं सथितम

32 शखा गतम अरिं चान्यद अपश्यत कॊटरालयम
उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं कषपाचरम

33 गतस्य विषयं तस्य नकुलॊलूकयॊस तदा
अथास्यासीद इयं चिन्ता तत पराप्य सुमहद भयम

34 आपद्य अस्यां सुकष्टायां मरणे समुपस्थिते
समन्ताद भय उत्पन्ने कथं कार्यं हितैषिणा

35 स तथा सर्वतॊ रुद्धः सर्वत्र समदर्शनः
अभवद भयसंतप्तश चक्रे चेमां परां गतिम

36 आपद विनाशभूयिष्ठा शतैकीयं च जीवितम
समन्त संशया चेयम अस्मान आपद उपस्थिता

37 गतं हि सहसा भूमिं नकुलॊ मां समाप्नुयात
उलूकश चेह तिष्ठन्तं मार्जारः पाशसंक्षयात

38 न तव एवास्मद विधः पराज्ञः संमॊहं गन्तुम अर्हति
करिष्ये जीविते यत्नं यावद उच्छ्वासनिग्रहम

39 न हि बुद्ध्यान्विताः पराज्ञा नीतिशास्त्रविशारदाः
संभ्रमन्त्य आपदं पराप्य महतॊ ऽरथान अवाप्य च

40 न तव अन्याम इह मार्जाराद गतिं पश्यामि सांप्रतम
विषमस्थॊ हय अयं जन्तुः कृत्यं चास्य महन मया

41 जीवितार्थी कथं तव अद्य परार्थितः शत्रुभिस तरिभिः
तस्माद इमम अहं शत्रुं मार्जारं संश्रयामि वै

42 कषत्रविद्यां समाश्रित्य हितम अस्यॊपधारये
येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये

43 अयम अत्यन्तशत्रुर मे वैषम्यं परमं गतः
मूढॊ गराहयितुं सवार्थं संगत्या यदि शक्यते

44 कदा चिद वयसनं पराप्य संधिं कुर्यान मया सह
बलिना संनिविष्टस्य शत्रॊर अपि परिग्रहः
कार्य इत्य आहुर आचार्या विषमे जीवितार्थिना

45 शरेयान हि पण्डितः शत्रुर न च मित्रम अपण्डितम
मम हय अमित्रे मार्जारे जीवितं संप्रतिष्ठितम

46 हन्तैनं संप्रवक्ष्यामि हेतुम आत्माभिरक्षणे
अपीदानीम अयं शत्रुः संगत्या पण्डितॊ भवेत

47 ततॊ ऽरथगतितत्त्वज्ञः संधिविग्रहकालवित
सान्त्वपूर्वम इदं वाक्यं मार्जारं मूषकॊ ऽबरवीत

48 सौहृदेन भिभाषे तवा कच चिन मार्जारजीवसि
जीवितं हि तवेच्छामि शरेयः साधारणं हि नौ

49 न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा
अहं तवाम उद्धरिष्यामि पराणाञ जह्यां हि ते कृते

50 अस्ति कश चिद उपायॊ ऽतर पुष्कलः परतिभाति माम
येन शक्यस तवया मॊक्षः पराप्तुं शरेयॊ यथा मया

51 मया हय उपायॊ दृष्टॊ ऽयं विचार्य मतिम आत्मनः
आत्मार्थं च तवदर्थं च शरेयः साधारणं हि नौ

52 इदं हि नकुलॊलूकं पापबुद्ध्य अभितः सथितम
न धर्षयति मार्जारतेन मे सवस्ति सांप्रतम

53 कूजंश चपल नेत्रॊ ऽयं कौशिकॊ मां निरीक्षते
नगशाखा गरहस तिष्ठंस तस्याहं भृशम उद्विजे

54 सतां साप्तपदं सख्यं स वासॊ मे ऽसि पण्डितः
सांवास्यकं करिष्यामि नास्ति ते मृत्युतॊ भयम

55 न हि शक्नॊषि मार्जारपाशं छेत्तुं विना मया
अहं छेत्स्यामि ते पाशं यदि मां तवं न हिंससि

56 तवम आश्रितॊ नगस्याग्रं मूलं तव अहम उपाश्रितः
चिरॊषिताव इहावां वै वृक्षे ऽसमिन विदितं हि ते

57 यस्मिन्न आश्वसते कश चिद यश च नाश्वसते कव चित
न तौ धीराः परशंसन्ति नित्यम उद्विग्नचेतसौ

58 तस्माद विवर्धतां परीतिः सत्या संगतिर अस्तु नौ
कालातीतम अपार्थं हि न परशंसन्ति पण्डिताः

59 अर्थयुक्तिम इमां तावद यथा भूतां निशामय
तव जीवितम इच्छामि तवं ममेच्छसि जीवितम

60 कश चित तरति काष्ठेन सुगम्भीरां महानदीम
स तारयति तत काष्ठं स च काष्ठेन तार्यते

61 ईदृशॊ नौ समायॊगॊ भविष्यति सुनिस्तरम
अहं तवां तारयिष्यामि तवं च मां तारयिष्यसि

62 एवम उक्त्वा तु पलितस तदर्थम उभयॊर हितम
हेतुमद गरहणीयं च कालाकाङ्क्षी वयपैक्षत

63 अथ सुव्याहृतं तस्य शरुत्वा शत्रुर विचक्षणः
हेतुमद गरहणीयार्थं मार्जारॊ वाक्यम अब्रवीत

64 बुद्धिमान वाक्यसंपन्नस तद वाक्यम अनुवर्णयन
ताम अवस्थाम अवेक्ष्यान्त्यां साम्नैव परत्यपूजयत

65 ततस तीक्ष्णाग्रदशनॊ वैडूर्यमणिलॊचनः
मूषकं मन्दम उद्वीक्ष्य मार्जारॊ लॊमशॊ ऽबरवीत

66 नन्दामि सौम्य भद्रं ते यॊ मां जीवन्तम इच्छसि
शरेयश च यदि जानीषे करियतां मा विचारय

67 अहं हि दृढम आपन्नस तवम आपन्नतरॊ मया
दवयॊर आपन्नयॊः संधिः करियतां मा विचारय

68 विधत्स्व पराप्तकालं यत कार्यं सिध्यतु चावयॊः
मयि कृच्छ्राद विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम

69 नयस्तमानॊ ऽसमि भक्तॊ ऽसमि शिष्यस तवद्धितकृत तथा
निदेशवशवर्ती च भवन्तं शरणं गतः

70 इत्य एवम उक्तः पलितॊ मार्जारं वशम आगतम
वाक्यं हितम उवाचेदम अभिनीतार्थम अर्थवत

71 उदारं यद भवान आह नैतच चित्रं भवद्विधे
विदितॊ यस तु मार्गॊ मे हितार्थं शृणु तं मम

72 अहं तवानुप्रवेक्ष्यामि नकुलान मे महद भयम
तरायस्व मां मा वधीश च शक्तॊ ऽसमि तव मॊक्षणे

73 उलूकाच चैव मां रक्ष कषुद्रः परार्थयते हि माम
अहं छेत्स्यामि ते पाशान सखे सत्येन ते शपे

74 तद वचः संगतं शरुत्वा लॊमशॊ युक्तम अर्थवत
हर्षाद उद्वीक्ष्य पलितं सवागतेनाभ्यपूजयत

75 स तं संपूज्य पलितं मार्जारः सौहृदे सथितः
सुविचिन्त्याब्रवीद धीरः परीतस तवरित एव हि

76 कषिप्रम आगच्छ भद्रं ते तवं मे पराणसमः सखा
तव पराज्ञ परसादाद धि कषिप्रं पराप्स्यामि जीवितम

77 यद यद एवंगतेनाद्य शक्यं कर्तुं मया तव
तद आज्ञापय कर्ताहं संधिर एवास्तु नौ सखे

78 अस्मात ते संशयान मुक्तः स मित्र गणबान्धवः
सर्वकार्याणि कर्ताहं परियाणि च हितानि च

79 मुक्तश च वयसनाद अस्मात सौम्याहम अपि नाम ते
परीतिम उत्पादयेयं च परतिकर्तुं च शक्नुयाम

80 गराहयित्वा तु तं सवार्थं मार्जारं मूषकस तदा
परविवेश सुविस्रब्धः सम्यग अर्थांश चचार ह

81 एवम आश्वसितॊ विद्वान मार्जारेण स मूषकः
मार्जारॊरसि विस्रब्धः सुष्वाप पितृमातृवत

82 लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम
तौ दृष्ट्वा नकुलॊलूकौ निराशौ जग्मतुर गृहान

83 लीनस तु तस्य गात्रेषु पलितॊ देशकालवित
चिच्छेद पाशान नृपते कालाकाङ्क्षी शनैः शनैः

84 अथ बन्धपरिक्लिष्टॊ मार्जारॊ वीक्ष्य मूषकम
छिन्दन्तं वै तदा पाशान अत्वरन्तं तवरान्वितः

85 तम अत्वरन्तं पलितं पाशानां छेदने तदा
संचॊदयितुम आरेभे मार्जारॊ मूषकं तदा

86 किं सौम्य नाभित्वरसे किं कृतार्थॊ ऽवमन्यसे
छिन्धि पाशान अमित्रघ्न पुरा शवपच एति सः

87 इत्य उक्तस तवरता तेन मतिमान पलितॊ ऽबरवीत
मार्जारम अकृतप्रज्ञं वश्यम आत्महितं वचः

88 तूष्णीं भव न ते सौम्य तवरा कार्या न संभ्रमः
वयम एवात्र कालज्ञा न कालः परिहास्यते

89 अकाले कृत्यम आरब्धं कर्तुं नार्थाय कल्पते
तद एव काल आरब्धं महते ऽरथाय कल्पते

90 अकालविप्रमुक्तान मे तवत्त एव भयं भवेत
तस्मात कालं परतीक्षस्व किम इति तवरसे सखे

91 यावत पश्यामि चण्डालम आयान्तं शस्त्रपाणिनम
ततश छेत्स्यामि ते पाशं पराप्ते साधारणे भये

92 तस्मिन काले परमुक्तस तवं तरुम एवाधिरॊहसि
न हि ते जीविताद अन्यत किं चित कृत्यं भविष्यति

93 ततॊ भवत्य अतिक्रान्ते तरस्ते भीते च लॊमश
अहं बिलं परवेक्ष्यामि भवाट शाखां गमिष्यति

94 एवम उक्तस तु मार्जारॊ मूषकेणात्मनॊ हितम
वचनं वाक्यतत्त्वज्ञॊ जीवितार्थी महामतिः

95 अथात्मकृत्य तवरितः सम्यक परश्रयम आचरन
उवाच लॊमशॊ वाक्यं मूषकं चिरकारिणम

96 न हय एवं मित्रकार्याणि परीत्या कुर्वन्ति साधवः
यथा तवं मॊक्षितः कृच्छ्रात तवरमाणेन वै मया

97 ताथैव तवरमाणेन तवया कार्यं हितं मम
यत्नं कुरु महाप्राज्ञ यथा सवस्त्य आवयॊर भवेत

98 अथ वा पूर्ववैरं तवं समरन कालं विकर्षसि
पश्य दुष्कृतकर्मत्वं वयक्तम आयुः कषयॊ मम

99 यच च किं चिन मयाज्ञानात पुरस्ताद विप्रियं कृतम
न तन मनसि कर्तव्यं कषमये तवां परसीद मे

100 तम एवं वादिनं पराज्ञः शास्त्रविद बुद्धिसंमतः
उवाचेदं वचः शरेष्ठं मार्जारं मूषकस तदा

101 शरुतं मे तव मार्जारस्वम अर्थं परिगृह्णतः
ममापि तवं विजानीहि सवम अर्थं परिगृह्णतः

102 यन मित्रं भीतवत साध्यं यन मित्र भयसंहितम
सुरक्षितं ततः कार्यं पाणिः सर्पमुखाद इव

103 कृत्वा बलवता संधिम आत्मानं यॊ न रक्षति
अपथ्यम इव तद भुक्तं तस्यानर्थाय कल्पते

104 न कश चित कस्य चिन मित्रं न कश चित कस्य चित सुहृत
अर्थैर अर्था निबध्यन्ते गजैर वनगजा इव

105 न हि कश चित कृते कार्ये कर्तारं समवेक्षते
तस्मात सर्वाणि कार्याणि सावशेषाणि कारयेत

106 तस्मिन काले ऽपि च भवान दिवा कीर्तिभयान्वितः
मम न गरहणे शक्तः पलायनपरायणः

107 छिन्नं तु तन्तु बाहुल्यं तन्तुर एकॊ ऽवशेषितः
छेत्स्याम्य अहं तद अप्य आशु निर्वृतॊ भव लॊमश

108 तयॊः संवदतॊर एवं तथैवापन्नयॊर दवयॊः
कषयं जगाम सा रात्रिर लॊमशं चाविशद भयम

109 ततः परभातसमये विकृतः कृष्णपिङ्गलः
सथूलस्फिग विकचॊ रूक्षः शवचक्रपरिवारितः

110 शङ्कुकर्णॊ महावक्त्रः पलितॊ घॊरदर्शनः
परिघॊ नाम चण्डालः शस्त्रपाणिर अदृश्यत

111 तं दृष्ट्वा यमदूताभं मार्जारस तरस्तचेतनः
उवाच पलितं भीतः किम इदानीं करिष्यसि

112 अथ चापि सुसंत्रस्तौ तं दृष्ट्वा घॊरदर्शनम
कषणेन नकुलॊलूकौ नैराश्यं जग्मतुस तदा

113 बलिनौ मतिमन्तौ च संघातं चाप्य उपागतौ
अशक्यौ सुनयात तस्मात संप्रधर्षयितुं बलात

114 कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषकौ
उलूक नकुलौ तूर्णं जग्मतुः सवं सवम आलयम

115 ततश चिच्छेद तं तन्तुं मार्जारस्य स मूषकः
विप्रमुक्तॊ ऽथ मार्जारस तम एवाभ्यपतद दरुमम

116 स च तस्माद भयान मुक्तॊ मुक्तॊ घॊरेण शत्रुणा
बिलं विवेश पलितः शाखां भेजे च लॊमशः

117 उन्माथम अप्य अथादाय चण्डालॊ वीक्ष्य सर्वशः
विहताशः कषणेनाथ तस्माद देशाद अपाक्रमत
जगाम च सवभवनं चण्डालॊ भरतर्षभ

118 ततस तस्माद भयान मुक्तॊ दुर्लभं पराप्य जीवितम
बिलस्थं पादपाग्रस्थः पलितं लॊमशॊ ऽबरवीत

119 अकृत्वा संविदं कां चित सहसाहम उपप्लुतः
कृतज्ञं कृतकल्याणं कच चिन मां नाभिशङ्कसे

120 गत्वा च मम विश्वासं दत्त्वा च मम जीवितम
मित्रॊपभॊग समये किं तवं नैवॊपसर्पसि

121 कृत्वा हि पूर्वं मित्राणि यः पश्चान नानुतिष्ठति
न स मित्राणि लभते कृच्छ्रास्व आपत्सु दुर्मतिः

122 तत कृतॊ ऽहं तवया मित्रं सामर्थ्याद आत्मनः सखे
स मां मित्रत्वम आपन्नम उपभॊक्तुं तवम अर्हसि

123 यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः
सर्वे तवां पूजयिष्यन्ति शिष्या गुरुम इव परियम

124 अहं च पूजयिष्ये तवां समित्रगणबान्धवम
जीवितस्य परदातारं कृतज्ञः कॊ न पूजयेत

125 ईश्रवॊ मे भवान अस्तु शरीरस्य गृहस्य च
अर्थानां चैव सर्वेषाम अनुशास्ता च मे भव

126 अमात्यॊ मे भव पराज्ञ पितेव हि परशाधि माम
न ते ऽसति भयम अस्मत्तॊ जीवितेनात्मनः शपे

127 बुद्ध्या तवम उशनाः साक्षाद बले तव अधिकृता वयम
तवन्मन्त्रबलयुक्तॊ हि विन्देत जयम एव ह

128 एवम उक्तः परं सान्त्वं मार्जारेण स मूषकः
उवाच परमार्थज्ञः शलक्ष्णम आत्महितं वचः

129 यद भवान आह तत सर्वं मया ते लॊमश शरुतम
ममापि तावद बरुवतः शृणु यत परतिभाति माम

130 वेदितव्यानि मित्राणि बॊद्धव्याश चापि शत्रवः
एतत सुसूक्ष्मं लॊके ऽसमिन दृश्यते पराज्ञसंमतम

131 शत्रुरूपाश च सुहृदॊ मित्ररूपाश च शत्रवः
सान्त्वितास ते न बुध्यन्ते रागलॊभ वशंगताः

132 नास्ति जात्या रिपुर नाम मित्रं नाम न विद्यते
सामर्थ्य यॊगाज जायन्ते मित्राणि रिपवस तथा

133 यॊ यस्मिञ जीवति सवार्थं पश्येत तावत स जीवति
स तस्य तावन मित्रं सयाद यावन न सयाद विपर्ययः

134 नास्ति मैत्री सथिरा नाम न च धरुवम असौहृदम
अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस तथा

135 मित्रं च शत्रुताम एति कस्मिंश चित कालपर्यये
शत्रुश च मित्रताम एति सवार्थॊ हि बलवत्तरः

136 यॊ विश्वसति मित्रेषु न चाश्वसति शत्रुषु
अर्थयुक्तिम अविज्ञाय चलितं तस्य जीवितम

137 अर्थयुक्तिम अविज्ञाय यः शुभे कुरुते मतिम
मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः

138 न विश्वसेद अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत
विश्वासाद भयम उत्पन्नं मूलान्य अपि निकृन्तति

139 अर्थयुक्त्या हि देश्यन्ते पिता माता सुतास तथा
मातुला भागिनेयाश च तथा संबन्धिबान्धवाः

140 पुत्रं हि माता पितरु तयजतः पतितं परियम
लॊकॊ रक्षति चात्मानं पश्य सवार्थस्य सारताम

141 तं मन्ये निकृतिप्रज्ञं यॊ मॊक्षं परत्यनन्तरम
कृत्यं मृगयसे कर्तुं सुखॊपायम असंशयम

142 अस्मिन निलय एव तवं नयग्रॊधाद अवतारितः
पूर्वं निविष्टम उन्माथं चपलत्वान न बुद्धिवान

143 आत्मनश चपलॊ नास्ति कुतॊ ऽनयेषां भविष्यति
तस्मात सर्वाणि कार्याणि चपलॊ हन्त्य असंशयम

144 बरवीति मधुरं कं चित परियॊ मे ह भवान इति
तन मिथ्या करणं सर्वं विस्तरेणापि मे शृणु

145 कारणात परियताम एति दवेष्यॊ भवति कारणात
अर्थार्थी जीवलॊकॊ ऽयं न कश चित कस्य चित परियः

146 सख्यं सॊदरयॊर भरात्रॊर दम्पत्यॊर वा परस्परम
कस्य चिन नाभिजानामि परीतिं निष्कारणाम इह

147 यद्य अपि भरातरः करुद्धा मार्या वा कारणान्तरे
सवभावतस ते परीयन्ते नेतरः परीयते जनः

148 परियॊ भवति दानेन परियवादेन चापरः
मन्त्रहॊम जपैर अन्यः कार्यार्थं परीयते जनः

149 उत्पन्ने कारणे परीतिर नास्ति नौ कारणान्तरे
परध्वस्ते कारणस्थाने सा परीतिर विनिवर्तते

150 किं नु तत कारणं मन्ये यनाहं भवतः परियः
अन्यत्राभ्यवहारार्थात तत्रापि च बुधा वयम

151 कालॊ हेतुं विकुरुते सवार्थस तम अनुवर्तते
सवार्थं पराज्ञॊ ऽभिजानाति पराज्ञं लॊकॊ ऽनुवर्तते

152 न तव ईदृशं तवया वाच्यं विदुषि सवार्थपण्डिते
अकाले ऽविषमस्थस्य सवार्थहेतुर अयं तव

153 तस्मान नाहं चले सवार्थात सुस्थितः संधिविग्रहे
अभ्राणाम इव रूपाणि विकुर्वन्ति कषणे कषणे

154 अद्यैव हि रिपुर भूत्वा पुनर अद्यैव सौहृदम
पुनश च रिपुर अद्यैव युक्तीनां पश्य चापलम

155 आसीत तावत तु मैत्री नौ यावद धेतुर अभूत पुरा
सा गता सह तेनैव कालयुक्तेन हेतुना

156 तवं हि मे ऽतयन्ततः शत्रुः सामर्थ्यान मित्रतां गतः
तत कृत्यम अभिनिर्वृत्तं परकृतिः शत्रुतां गता

157 सॊ ऽहम एवं परणीतानि जञात्वा शास्त्राणि तत्त्वतः
परविशेयं कथं पाशं तवत्कृतं तद वदस्व मे

158 तवद्वीर्येण विमुक्तॊ ऽहं मद्वीर्येण तथा भवान
अन्यॊन्यानुग्रहे वृत्ते नास्ति भूयः समागमः

159 तवं हि सौम्य कृतार्थॊ ऽदय निर्वृत्तार्थास तथा वयम
न ते ऽसत्य अन्यन मया कृत्यं किं चिद अन्यत्र भक्षणात

160 अहम अन्नं भवान भॊक्ता दुर्बलॊ ऽहं भवान बली
नावयॊर विद्यते संधिर नियुक्ते विषमे बले

161 संमन्ये ऽहं तव परज्ञां यन मॊक्षात परत्यनन्तरम
भक्ष्यं मृगयसे नूनं सुखॊपायम असंशयम

162 भक्ष्यार्थम एव बद्धस तवं स मुक्तः परसृतः कषुधा
शास्त्रज्ञम अभिसंधाय नूनं भक्षयिताद्य माम

163 जानामि कषुधितं हि तवाम आहारसमयश च ते
स तवं माम अभिसंधाय भक्ष्यं मृगयसे पुनः

164 यच चापि पुत्रदारं सवं तत संनिसृजसे मयि
शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम

165 तवया मां सहितं दृष्ट्वा परिया भार्या सुताश च ये
कस्मान मां ते न खादेयुर हृष्टाः परणयिनस तवयि

166 नाहं तवया समेष्यामि वृत्तॊ हेतुः समागमे
शिवं धयायस्व मे ऽतरस्थः सुकृतं समर्यते यदि

167 शत्रॊर अन्नाद्य भूतः सन कलिष्टस्य कषुधितस्य च
भक्ष्यं मृगयमाणस्य कः पराज्ञॊ विषयं वरजेत

168 सवस्ति ते ऽसतु गमिष्यामि दूराद अपि तवॊद्विजे
नाहं तवया समेष्यामि निर्वृतॊ भव लॊमश

169 बलवत संनिकर्षॊ हि न कदा चित परशस्यते
परशान्ताद अपि मे पराज्ञ भेतव्यं बलिनः सदा

170 यदि तव अर्थेन मे कार्यं बरूहि किं करवाणि ते
कामं सर्वं परदास्यामि न तव आत्मानं कदा चन

171 आत्मार्थे संततिस तयाज्या राज्यं रत्नं धनं तथा
अपि सर्वस्वम उत्सृज्य रक्षेद आत्मानम आत्मना

172 ऐश्वर्यधनरत्नानां परत्यमित्रे ऽपि तिष्ठताम
दृष्टा हि पुनर आवृत्तिर जीविताम इति नः शरुतम

173 न तव आत्मनः संप्रदानं धनरत्नवद इष्यते
आत्मा तु सर्वतॊ रक्ष्यॊ दारैर अपि धनैर अपि

174 आत्मरक्षित तन्त्राणां सुपरीक्षित कारिणाम
आपदॊ नॊपपद्यन्ते पुरुषाणां सवदॊषजाः

175 शत्रून सम्यग विजानन्ति दुर्बला ये बलीयसः
तेषां न चाल्यते बुद्धिर आत्मार्थं कृतनिश्चया

176 इत्य अभिव्यक्तम एवासौ पलितेनावभर्त्सितः
मार्जारॊ वरीडितॊ भूत्वा मूषकं वाक्यम अब्रवीत

177 संमन्ये ऽहं तव परज्ञां यस तवं मम हिते रतः
उक्तवान अर्थतत्त्वेन मया संभिन्नदर्शनः

178 न तु माम अन्यथा साधॊ तवं विज्ञातुम इहार्हसि
पराणप्रदानजं तवत्तॊ मम सौहृदम आगतम

179 धर्मज्ञॊ ऽसमि गुणज्ञॊ ऽसमि कृतज्ञॊ ऽसमि विशेषतः
मित्रेषु वत्सलश चास्मि तवद्विधेषु विशेषतः

180 तन माम एवंगते साधॊ न यावयितुम अर्हसि
तवया हि याव्यमानॊ ऽहं पराणाञ जह्यां सबान्धवः

181 धिक शब्दॊ हि बुधैर दृष्टॊ मद्विधेषु मनस्विषु
मरणं धर्मतत्त्वज्ञ न मां शङ्कितुम अर्हसि

182 इति संस्तूयमानॊ हि मार्जारेण स मूषकः
मनसा भावगम्भीरं मार्जारं वाक्यम अब्रवीत

183 साधुर भवाञ शरुतार्थॊ ऽसमि परीयते न च विश्वसे
संस्तवैर वा धनौघैर वा नाहं शक्यः पुनस तवया

184 न हय अमित्रवशं यान्ति पराज्ञा निष्करणं सखे
अस्मिन्न अर्थे च गाथे दवे निबॊधॊशनसा कृते

185 शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा
समाहितश चरेद युक्त्या कृतार्थश च न विश्वसेत

186 तस्मात सर्वास्व अवस्थासु रक्षेञ जीवितम आत्मनः
दरव्याणि संततिश चैव सर्वं भवति जीवतः

187 संक्षेपॊ नीतिशास्त्राणाम अविश्वासः परॊ मतः
नृषु तस्माद अविश्वासः पुष्कलं हितम आत्मनः

188 वध्यन्ते न हय अविश्वस्ताः शत्रुभिर दुर्बला अपि
विश्वस्तास तव आशु वध्यन्ते बलवन्तॊ ऽपि दुर्बलैः

189 तवद्विधेभ्यॊ मया हय आत्मा रक्ष्यॊ मार्जारसर्वदा
रक्ष तवम अपि चात्मानं चण्डालाञ जातिकिल्बिषात

190 स तस्य बरुवतस तव एवं संत्रासाञ जातसाध्वसः
सवबलिं हि जवेनाशु मार्जारः परययौ ततः

191 ततः शास्त्रार्थतत्त्वज्ञॊ बुद्धिसामर्थ्यम आत्मनः
विश्राव्य पलितः पराज्ञॊ बिलम अन्यञ जगाम ह

192 एवं परज्ञावता बुद्ध्या दुर्बलेन महाबलाः
एकेन बहवॊ ऽमित्राः संधिं कुर्वीत पण्डितः

193 अरिणापि समर्थेन संधिं कुर्वीत पण्डितः
मूषकश च विडालश च मुक्ताव अन्यॊन्यसंश्रयात

194 इत्य एष कषत्रधर्मस्य मया मार्गॊ ऽनुदर्शितः
विस्तरेण महीपाल संक्षेपेण पुनः शृणु

195 अन्यॊन्यकृतवैरौ तु चक्रतुः परीतिम उत्तमाम
अन्यॊन्यम अभिसंधातुम अभूच चैव तयॊर मतिः

196 तत्र पराज्ञॊ ऽभिसंधत्ते सम्यग बुद्धिबलाश्रयात
अभिसंधीयते पराज्ञः परमादाद अपि चाबुधैः

197 तस्माद अभीतवद भीतॊ विश्वस्तवद अविश्वसन
न हय अप्रमत्तश चलति चलितॊ वा विनश्यति

198 कालेन रिपुणा संधिः काले मित्रेण विग्रहः
कार्य इत्य एव तत्त्वज्ञाः पराजुर नित्यं युधिष्ठिर

199 एवं मत्वा महाराज शास्त्रार्थम अभिगम्य च
अभियुक्तॊ ऽपरमत्तश च पराग भयाद भीतवच चरेत

200 भीतवत संविधिः कार्यः परतिसंधिस तथैव च
भयाद उत्पद्यते बुद्धिर अप्रमत्ताभियॊगजा

201 न भयं विद्यते राजन भीतस्यानागते भये
अभीतस्य तु विस्रम्भात सुमहाञ जायते भयम

202 न भीरुर इति चात्यन्तं मन्त्रॊ ऽदेयः कथं चन
अविज्ञानाद धि विज्ञाते गच्छेद आस्पद दर्शिषु

203 तस्माद अभीतवद भीतॊ विश्वस्तवद अविश्वसन
कार्याणां गुरुतां बुद्ध्वा नानृतं किं चिद आचरेत

204 एवम एतन मया परॊक्तम इतिहासं युधिष्ठिर
शरुत्वा तवं सुहृदां मध्ये यथावत समुपाचर

205 उपलभ्य मतिं चाग्र्याम अरिमित्रान्तरं तथा
संधिविग्रहकालं च मॊक्षॊपायं तथापदि

206 शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा
समागमं चरेद युक्त्या कृतार्थॊ न च विश्वसेत

207 अविरुद्धां तरिवर्गेण नीतिम एतां युधिष्ठिर
अभ्युत्तिष्ठ शरुताद अस्माद भूयस तवं रञ्जयन परजाः

208 बराह्मणैश चापि ते सार्धं यात्रा भवतु पाण्डव
बराह्मणा हि परं शरेयॊ दिवि चेह च भारत

209 एते धर्मस्य वेत्तारः कृतज्ञाः सततं परभॊ
पूजिताः शुभकर्माणः पूर्वजित्या नराधिप

210 राज्यं शरेयः परं राजन यशः कीर्तिं च लप्स्यसे
कुलस्य संततिं चैव यथान्यायं यथाक्रमम

211 दवयॊर इमं भारत संधिविग्रहं; सुभाषितं बुद्धिविशेषकारितम
तथान्ववेक्ष्य कषितिपेन सर्वदा; निषेवितव्यं नृप शत्रुमण्डले

अध्याय 1
अध्याय 1