अध्याय 59
1 [दूृ]
एहि कषत्तर दरौपदीम आनयस्व; परियां भार्यां संमतां पाण्डवानाम
संमार्जतां वेश्म परैतु शीघ्रम; आनन्दॊ नः सह दासीभिर अस्तु
2 [व]
दुर्विभाव्यं भवति तवादृशेन; न मन्दसंबुध्यसि पाशबद्धः
परपाते तवं लम्बमानॊ न वेत्सि; वयाघ्रान मृगः कॊपयसे ऽतिबाल्यात
3 आशीविषाः शिरसि ते पूर्णकॊशा महाविषाः
मा कॊपिष्ठाः सुमन्दात्मन मा गमस तवं यमक्षयम
4 न हि दासीत्वम आपन्ना कृष्णा भवति भारत
अनीशेन हि राज्ञैषा पणे नयस्तेति मे मतिः
5 अयं धत्ते वेणुर इवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः
दयूतं हि वैराय महाभयाय; पक्वॊ न बुध्यत्य अयम अन्तकाले
6 नारुं तुदः सयान न नृशंसवादी; न हीनतः परम अभ्याददीत
ययास्य वाचा पर उद्विजेत; न तां वदेद रुशतीं पापलॊक्याम
7 समुच्चरन्त्य अतिवादा हि वक्त्राद; यैर आहतः शॊचति रात्र्यहानि
परस्य नामर्मसु ते पतन्ति; तान पण्डितॊ नावसृजेत परेषाम
8 अजॊ हि शस्त्रम अखनत किलैकः; शस्त्रे विपन्ने पद्भिर अपास्य भूमिम
निकृन्तनं सवस्य कण्ठस्य घॊरं; तद्वद वैरं मा खनीः पाण्डुपुत्रैः
9 न किं चिद ईड्यं परवदन्ति पापं; वनेचरं वा गृहमेधिनं वा
तपस्विनं संपरिपूर्ण विद्यं; भषन्ति हैवं शवनराः सदैव
10 दवारं सुघॊरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र
तवाम अन्वेतारॊ बहवः कुरूणां; दयूतॊदये सह दुःशासनेन
11 मज्जन्त्य अलाबूनि शिलाः पलवन्ते; मुह्यन्ति नावॊ ऽमभसि शश्वद एव
मूढॊ राजा धृतराष्ट्रस्य पुत्रॊ; न मे वाचः पथ्यरूपाः शृणॊति
12 अन्तॊ नूनं भवितायं कुरूणां; सुदारुणः सर्वहरॊ विनाशः
वाचः काव्याः सुहृदां पथ्यरूपा; न शरूयन्ते वर्धते लॊभ एव