अध्याय 22

महाभारत संस्कृत - द्रोणपर्व

1 [धृ] सर्वेषाम एव मे बरूहि रथचिह्नानि संशय
ये दरॊणम अभ्यवर्तन्त करुद्धा भीम पुरॊगमाः

2 [स] ऋश्य वर्णैर हयैर दृष्ट्वा वयायच्छन्तं वृकॊदरम
रजताश्वस ततः शूरः शैनेयः संन्यवर्तत

3 दर्शनीयास तु काम्बॊजाः शुकपत्रपरिच्छदाः
वहन्तॊ नकुलं शीघ्रं तावकान अभिदुद्रुवुः

4 कृष्णास तु मेघसंकाशाः सहदेवम उदायुधम
भीमवेगा नरव्याघ्रम अवहन वातरंहसः

5 हेमॊत्तम परतिच्छन्नैर हयैर वातसमैर जवे
अभ्यवर्तन्त सैन्यानि सर्वाण्य एव युधिष्ठिरम

6 राज्ञस तव अनन्तरं राजा पाञ्चाल्यॊ दरुपदॊ ऽभवत
जातरूपमयच छत्रः सर्वैः सवैर अभिरक्षितः

7 ललामैर हरिभिर युक्तैः सर्वशब्दक्षमैर युधि
राज्ञां मध्ये महेष्वासः शान्तभीर अभ्यवर्तत

8 तं विराटॊ ऽनवयात पश्चात सह शूरैर महारथैः
केकयाश च शिखण्डी च धृष्टकेतुस तथैव च
सवैः सवैः सैन्यैः परिवृता मत्स्यराजानम अन्वयुः

9 ते तु पाटल पुष्पाणां समवर्णा हयॊत्तमाः
वहमाना वयराजन्त मत्स्यस्यामित्र घातिनः

10 हारिद्र समवर्षास तु जवना हेममालिनः
पुत्रं विराट राजस्य स तवराः समुदावहन

11 इन्द्रगॊपक वर्णैस तु भरातरः पञ्च केकयाः
जातरूपसमाभासः सेवे लॊहितक धवजाः

12 ते हेममालिनः शूराः सर्वे युद्धविशारदाः
वर्षन्त इव जीमूताः परत्यदृश्यन्त दंशिताः

13 आमपात्रनिभाकाराः पाञ्चाल्यम अमितौजसम
दान्तास ताम्रारुणा युक्ताः शिखण्डिनम उदावहन

14 तथा दवादश साहस्राः पाञ्चालानां महारथाः
तेषां तु षट सहस्राणि ये शिखण्डिनम अन्वयुः

15 पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष
आक्रीडन्तॊ वहन्ति सम सारङ्गशबला हयाः

16 धृष्टकेतुश च चेदीनाम ऋषभॊ ऽतिबलॊदितः
काम्बॊजैः शबलैर अश्वैर अभ्यवर्तत दुर्जयः

17 बृहत कषत्रं तु कैकेयं सुकुमारं हयॊत्तमाः
पलाल धूमवर्णाभाः सैन्धवाः शीघ्रम आवहन

18 मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः सवलंकृताः
शूरं शिखण्डिनः पुत्रं कषत्रदेवम उदावहन

19 युवानम अवहन युद्धे करौञ्चवर्णा हयॊत्तमाः
काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम

20 शवेतास तु परतिविन्ध्यं तं कृष्ण गरीवा मनॊजवाः
यन्तुः परेष्यकरा राजन राजपुत्रम उदावहन

21 सुत सॊमं तु यं धौम्यात पार्थः पुत्रम अयाचत
माषपुष्पसवर्णास तम अवहन वाजिनॊ रणे

22 सहस्रसॊमप्रतिमा बभूवुः; पुरे कुरूणाम उदयेन्दु नाम्नि
तस्मिञ जातः सॊमसंक्रन्दमध्ये; यस्मात तस्मात सुत सॊमॊ ऽभवत सः

23 नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः
आदित्यतरुण परख्याः शलाघनीयम उदावहन

24 काञ्चनप्रतिमैर यॊक्त्रैर मयूरग्रीव संनिभाः
दरौपदेयं नरव्याघ्रं शरुतकर्माणम आवहन

25 शरुतकीर्तिं शरुतनिधिं दरौपदेयं हयॊत्तमाः
ऊहुः पार्थ समं युद्धे चाष पत्रनिभा हयाः

26 यम आहुर अध्यर्धगुणं कृष्णात पार्थाच च संयुगे
अभिमन्युं पिशङ्गास तं कुमारम अवहन रणे

27 एकस तु धार्तराष्ट्रेभ्यः पाण्डवान यः समाश्रितः
तं बृहन्तॊ महाकाया युयुत्सुम अवहन रणे

28 पलाल काण्डवर्णास तु बार्धक्षेमिं तरस्विनम
ऊहुः सुतुमुले युद्धे हया हृष्टाः सवलंकृताः

29 कुमारं शिति पादास तु रुक्मपत्रैर उरश छदैः
सौचित्तिम अवहन युद्धे यन्तुः परेष्यकरा हयाः

30 रुक्मपृष्ठावकीर्णास तु कौशेयसदृशा हयाः
सुवर्णमालिनः कषान्ताः शरेणिमन्तम उदावहन

31 रुक्ममाला धराः शूरा हेमवर्णाः सवलंकृताः
काशिराजं हयश्रेष्ठाः शलाघनीयम उदावहन

32 अस्त्राणां च धनुर्वेदे बराह्म वेदे च पारगम
तं सत्यधृतिम आयान्तम अरुणाः समुदावहन

33 यः सपाञ्चाल सेनानीर दरॊणम अंशम अकल्पयत
पारावत सवर्णाश्वा धृष्टद्युम्नम उदावहन

34 तम अन्वयात सत्यधृतिः सौचित्तिर युद्धदुर्मदः
शरेणिमान वसु दानश च पुत्रः काश्यस्य चाभिभॊ

35 युक्तैः परमकाम्बॊजैर जवनैर हेममालिभिः
भीषयन्तॊ दविषत सैन्यं यम वैश्रवणॊपमाः

36 परभद्रकास तु पाञ्चालाः षट सहस्राण्य उदायुधाः
नानावर्णैर हयश्रेष्ठैर हेमचित्ररथध्वजाः

37 शरव्रातैर विधुन्वन्तः शत्रून विततकार्मुकाः
समानमृत्यवॊ भूत्वा धृष्टद्युम्नं समन्वयुः

38 बभ्रु कौशेयवर्णास तु सुवर्णवरमालिनः
ऊहुर अग्लान मनसश चेकितानं हयॊत्तमाः

39 इन्द्रायुधसवर्णैस तु कुन्तिभॊजॊ हयॊत्तमैः
आया सुवश्यैः पुरुजिन मातुलः सव्यसाचिनः

40 अन्तरिक्षसवर्णास तु तारका चित्रिता इव
राजानं रॊचमानं ते हयाः संख्ये समावहन

41 कर्बुराः शिति पादास तु सवर्णजालपरिच्छदाः
जारा संधिं हयश्रेष्ठाः सहदेवम उदावहन

42 ये तु पुष्कर नालस्य समवर्णा हयॊत्तमाः
जवे शयेनसमाश चित्राः सुदामानम उदावहन

43 शशलॊहित वर्म्णास तु पाण्डुरॊद्गत राजयः
पाञ्चाल्यं गॊपतेः पुत्रं सिंहसेनम उदावहन

44 पाञ्चालानां नरव्याघ्रॊ यः खयातॊ जनमेजयः
तस्य सर्षप पुष्पाणां तुल्यवर्णा हयॊत्तमाः

45 माषवर्णास तु जवना बृहन्तॊ हेममालिनः
दधि पृष्ठाश चन्द्र मुखाः पाञ्चाल्यम अवहन दरुतम

46 शूराश चभद्रकाश चैव शरकाण्डनिभा हयाः
पद्मकिञ्जल्क वर्णाभा दण्डधारम उदावहन

47 बिभ्रतॊ हेममालाश च चक्रवाकॊदरा हयाः
कॊसलाधिपतेः पुत्रं सुक्षत्रं वाजिनॊ ऽवहन

48 शबलास तु बृहन्तॊ ऽशवा दान्ता जाम्बूनदस्रजः
युद्धे सत्यधृतिं कषौमिम अवहन परांशवः शुभाः

49 एकवर्णेन सर्वेण धवजेन कवचेन च
अश्वैश च धनुषा चैव शुक्लैः शुक्लॊ नयवर्तत

50 समुद्रसेनपुत्रं तु सामुद्रा रुद्र तेजसम
अश्वाः शशाङ्कसदृशाश चन्द्र देवम उदावहन

51 नीलॊत्पलसवर्णास तु तपनीयविभूषिताः
शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन हयाः

52 कलाय पुष्पवर्णास तु शवेतलॊहित राजयः
रथसेनं हयश्रेष्ठाः समूहुर युद्धदुर्मदम

53 यं तु सर्वमनुष्येभ्यः पराहुः शूरतरं नृपम
तं पटच चर हन्तारं शुकवर्णावहन हयाः

54 चित्रायुधं चित्रमाल्यं चित्रवर्मायुध धवजम
ऊहुः किंशुकपुष्पाणां तुक्य वर्णा हयॊत्तमाः

55 एकवर्णेन सर्वेण धवजेन कवचेन च
धनुषा रथवाहैश च नीलैर नीलॊ ऽभयवर्तत

56 नानारूपै रत्नचित्रैर वरूथ धवजकार्मुकैः
वाजिध्वजपताकाभिश चित्रैश चित्रॊ ऽभयवर्तत

57 ये तु पुष्कर पत्रस्य तुल्यवर्णा हयॊत्तमाः
ते रॊचमानस्य सुतं हेमवर्णम उदावहन

58 यॊधाश च भद्रकाराश च शरद अण्डान उदन्डजाः
शवेताण्डाः कुक्कुटाण्डाभा दण्डकेतुम उदावहन

59 आट रूषक पुष्पाभा हयाः पाण्ड्यानुयायिनाम
अवहन रथमुख्यानाम अयुतानि चतुर्दश

60 नानारूपेण वर्णेन नानाकृति मुखा हयाः
रथचक्रध्वजं वीरं घटॊत्कचम उदावहन

61 सुवर्णवर्णा धर्मज्ञम अनीकस्थं युधिष्ठिरम
राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतॊ ऽनवयुः
वर्णैश चॊच्चावचैर दिव्यैः सदश्वानां परभद्रकाः

62 ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः
परत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः

63 अत्यरॊचत तान सर्वान धृष्टद्युम्नः समागतान
सर्वाण्य अपि च सैन्यानि भारद्वाजॊ ऽतयरॊचत

अध्याय 2
अध्याय 2