अध्याय 159

महाभारत संस्कृत - द्रोणपर्व

1 [स] घटॊत्कचे तु निहते सूतपुत्रेण तां निशाम
दुःखामर्ष वशं पराप्तॊ धर्मपुत्रॊ युधिष्ठिरः

2 दृष्ट्व भीमेन महतीं वार्यमाणां चमूं तव
धृष्टद्युम्नम उवाचेदं कुम्भयॊनिं निवारय

3 तवं हि दरॊण विनाशाय समुत्पन्नॊ हुताशनात
स शरः कवची खड्गी धन्वी च परतापनः
अभिद्रव रणे हृष्टॊ न च ते भीः कथं चन

4 जनमेजयः शिखण्डी च दौर्मुखिश च यशॊ धनः
अभिद्रवन्तु संहृष्टाः कुम्भयॊनिं समन्तताः

5 नकुलः सहदेवश च दरौपदेयाः परभद्रकाः
दरुपदश च विराटश च पुत्रभ्रातृसमन्वितौ

6 सात्यकिः केकयाश चैव पाण्डवश च धनंजयः
अभिद्रवन्तु वेगेन भारद्वाज वधेप्सया

7 तथैव रथिनः सर्वे हस्त्यश्वं यच च किं चन
पादाताश च रणे दरॊणं परापयन्तु महारथम

8 तथाज्ञप्तास तु ते सर्वे पाण्डवेन महात्मना
अभ्यद्रवन्त वेगेन कुम्भयॊनिं युयुत्सया

9 आगच्छतस तान सहसा सर्वॊद्यॊगेन पाण्डवान
परतिजग्राह समरे दरॊणः शस्त्रभृतां वरः

10 ततॊ दुर्यॊधनॊ राजा सर्वॊद्यॊगेन पाण्डवान
अभ्यद्रवत सुसंक्रुद्ध इच्छन दरॊणस्य जीवितम

11 ततः परववृते युद्धं शरान्तवाहन सैनिकम
पाण्डवानां कुरूणां च गर्जताम इतरेतरम

12 निद्रान्धास ते महाराज परिश्रान्ताश च संयुगे
नाभ्यपद्यन्त समरे कां चिच चेष्टां महारथाः

13 तरियामा रजनी चैषा घॊररूपा भयानका
सहस्रयाम परतिमा बभूव पराणहारिणी
वध्यतां च तथा तेषां कषतानां च विशेषतः

14 अहॊरात्रिः समाजज्ञे निद्रान्धानां विशेषतः
सर्वे हय आसन निरुत्साहाः कषत्रिया दीनचेतसः
तव चैव परेषां च गतास्त्रा विगतेषवः

15 ते तथा परयन्तश च हरीमन्तश च विशेषतः
सवधर्मम अनुपश्यन्तॊ न जहुर सवाम अनीकिनीम

16 शस्त्राण्य अन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः
गजेष्व अन्ये रथेष्व अन्ये हयेष्व अन्ये च भारत

17 निध्रान्धा नॊ बुबुधिरे कां चिच चेष्टां नराधिपाः
ते ऽनयॊन्यं समरे यॊधाः परेषयन्त यमक्षयम

18 सवप्नायमानास तव अपरे परान इति विचेतसः
आत्मानं समरे जघ्नु सवान एव च परान अपि

19 नाना वाचॊ विमुञ्चन्तॊ निद्रान्धास ते महारणे
यॊद्धव्यम इति तिष्ठन्तॊ निद्रा संसक्तलॊचनाः

20 संमर्द्यान्ये रणे के चिन निद्रान्धाश च परस्परम
जघ्नुः शूरा रणे राजंस तस्मिंस तमसि दारुणे

21 हन्यमानं तथात्मानं परेभ्यॊ बहवॊ जनाः
नाभ्यजानन्त समरे निद्रया मॊहिता भृशम

22 तेषाम एतादृशीं चेष्टां विज्ञाय पुरुषर्षभः
उवाच वाक्यं बीभत्सुर उच्चैः संनादयन दिशः

23 शरान्ता भवन्तॊ निद्रान्धाः सर्व एव स वासवाः
तमसा चावृते सैन्ये रजसा बहुलेन च

24 ते यूयं यदि मन्यध्वम उपारमत सैनिकाः
निमीलयत चात्रैव रणभूमौ मुहूर्तकम

25 ततॊ विनिद्र विश्रान्ताश चन्द्रमस्य उदिते पुनः
संसाधयिष्यथान्यॊन्यं सवर्गाय कुरुपाण्डवाः

26 तद वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते
अरॊचयन्त सैन्यानि तथा चान्यॊन्यम अब्रुवन

27 चुक्रुशुः कर्ण कर्णेति राजन दुर्यॊधनेति च
उपारमत पाण्डूनां विरता हि वरूथिनी

28 तथा विक्रॊशमानस्य फल्गुनस्य ततस ततः
उपारमत पाण्डूनां सेना तव च भारत

29 ताम अस्य वाचं देवाश च ऋषयश च महात्मनः
सर्वसैन्यानि चाक्षुद्राः परहृष्टाः पत्यपूजयन

30 तत संपूज्य वचॊ ऽकरूरं सर्वसैन्यानि भारत
मुहूतम अस्वपन राजञ शरान्तानि भरतर्षभ

31 सा तु संप्राप्य विश्रामं धवजिनी तव भारत
सुखम आप्तवती वीरम अर्जुनं परत्यपूजयत

32 तवयि वेदास तथास्त्राणि तवयि बुद्धिपराक्रमौ
धर्मस तवयि महाबाहॊ दया भूतेषु चानघ

33 यच चाश्वस्तास तवेच्छामः शर्म पार्थ तद अस्तु ते
मनसश च परियान अर्थान वीर कषिप्रम अवाप्नुहि

34 इति ते तं नरव्याघ्रं परशंसन्तॊ महारथाः
निद्रया समवाक्षिप्तास तूष्णीम आसन विशां पते

35 अश्वपृष्ठेषु चाप्य अन्ये रथनीडेषु चापरे
गजस्कन्धगताश चान्ये शेरते चापरे कषितौ

36 सायुधाः सगदाश चैव स खड्गाः स परश्वधाः
स परासकवचाश चान्ये नराः सुप्ताः पृथक पृथक

37 गजास ते पन्नगाभॊगैर हस्तैर भूरेणु रूषितैः
निद्रान्धा वसुधां चक्रुर घराणनिःश्वासशीतलाम

38 गजाः शुशुभिरे तत्र निःश्वसन्तॊ महीतले
विशीर्णा गिरयॊ यद्वन निःश्वसद्भिर महॊरगैः

39 समां च विषमां चक्रुः खुराग्रैर विक्षतां महीम
हयाः काञ्चनयॊक्त्राश च केसरालम्बिभिर युगैः
सुषुपुस तत्र राजेन्द्र युक्ता वाहेषु सर्वशः

40 तत तथा निद्रया भग्नम अवाचम अस्वपद बलम
कुशलैर इव विन्यस्तं पटे चित्रम इवाद्भुतम

41 ते कषत्रियाः कुण्डलिनॊ युवानः; परस्परं सायकविक्षताङ्गाः
कुम्भेषु लीनाः सुषुपुर गजानां; कुचेषु लग्ना इव कामिनीनाम

42 ततः कुमुदनाथेन कामिनी गण्डपाण्डुना
नेत्रानन्देन चन्द्रेण माहेन्द्री दिग अलंकृता

43 ततॊ मुहूर्ताद भगवान पुरस्ताच छशलक्षणः
अरुणं दर्शयाम आस गरसञ जयॊतिः परभं परभुः

44 अरुणस्य तु तस्यानु जातरूपसमप्रभम
रश्मिजालं महच चन्द्रॊ मन्दं मन्दम अवासृजत

45 उत्सारयन्तः परभया तमस ते चन्द्ररश्मयः
पर्यगच्छञ शनैः सर्वा दिशः खं च कषितिं तथा

46 ततॊ मुहूर्ताद भुवनं जयॊतिर भूतम इवाभवत
अप्रख्यम अप्रकाशं च जगामाशु तमस तथा

47 परतिप्रकाशिते लॊके दिवा भूते निशाकरे
विचेरुर न विचेरुश च राजन नक्तंचरास ततः

48 बॊध्यमानं तु तत सैन्यं राजंश चन्द्रस्य रश्मिभिः
बुबुधे शतपत्राणां वनं महद इवाम्भसि

49 यथा चन्द्रॊदयॊद्भूतः कषुभितः सागरॊ भवेत
तथा चन्द्रॊदयॊद्भूतः स बभूव बलार्णवः

50 ततः परववृते युद्धं पुनर एव विशां पते
लॊके लॊकविनाशाय परं लॊकम अभीप्सताम

अध्याय 1
अध्याय 1