अध्याय 152

महाभारत संस्कृत - द्रोणपर्व

1 [स] तम आगतम अभिप्रेक्ष्य भीमकर्माणम आहवे
हर्षम आहारयां चक्रुः कुरवः सर्व एव ते

2 तथैव तव पुत्रास ते दुर्यॊधन पुरॊगमाः
अप्लवाः पलवम आसाद्य तर्तुकामा इवार्णवम

3 पुनर्जातम इवात्मानं मन्वानाः पार्थिवास तदा
अलायुधं राक्षसेन्द्रं सवागतेनाभ्यपूजयन

4 तस्मिंस तव अमानुषे युद्धे वर्तमाने भयावहे
कर्ण राक्षसयॊर नक्तं दारुणप्रतिदर्शने

5 उपप्रैक्षन्त पाञ्चालाः समयमानाः सराजकाः
तथैव तावका राजन घूर्णमानास ततस ततः

6 चुक्रुशुर नेदम अस्तीति दरॊण दरौणिकृपादयः
तत कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे

7 सर्वम आविघ्नम अभवद धाहा भूतम अचेतनम
तव सैन्यं महाराज निराशं कर्ण जीविते

8 दुर्यॊधनस तु संप्रेक्ष्य कर्णम आर्तिं परां गतम
अलायुधं राक्षसेन्द्रम आहूयेदम अथाब्रवीत

9 एष वैकर्तनः कर्णॊ हैडिम्बेन समागतः
कुरुते कर्म सुमहद यद अस्यौपयिकं मृधे

10 पश्यैतान पार्थिवाञ शूरान निहतान भैमसेनिना
नानाशस्त्रैर अभिहतान पादपान इव दन्तिना

11 तवैष भागः समरे राजमध्ये मया कृतः
तवैवानुमते वीर तं विक्रम्य निबर्हय

12 पुरा वैकर्तनं कर्णम एष पापॊ घटॊत्कचः
मायाबलम उपाश्रित्य कर्शयत्य अरिकर्शनः

13 एवम उक्तः स राज्ञा तु राक्षसस तीव्रविक्रमः
तथेत्य उक्त्वा महाबाहुर घटॊत्कचम उपाद्रवत

14 ततः कर्णं समुत्सृज्य भैमसेनिर अपि परभॊ
परत्यमित्रम उपायान्तं मर्दयाम आस मार्गणैः

15 तयॊः समभवद युद्धं करुद्धयॊ राक्षसेन्द्रयॊः
मत्तयॊर वाशिता हेतॊर दविपयॊर इव कानने

16 रक्षसा विप्रमुक्तस तु कर्णॊ ऽपि रथिनां वरः
अभ्यद्रवद भीमसेनं रथेनादित्यवर्चसा

17 तम आयान्तम अनादृत्य दृष्ट्वा गरस्तं घटॊत्कचम
अलायुधेन समरे सिंहेनेव गवां पतिम

18 रथेनादित्यवपुषा भीमः परहरतां वरः
किरञ शरौघान परययाव अलायुध रथं परति

19 तम आयान्तम अभिप्रेक्ष्य स तदालायुधः परभॊ
घटॊत्कचं समुत्सृज्य भीमसेनं समाह्वयत

20 तं भीमः सहसाभ्येत्य राक्षसान्त करः परभॊ
सगणं राक्षसेन्द्रं तं शरवर्षैर अवाकिरत

21 तथैवालायुधॊ राजञ शिला धौतैर अजिह्मगैः
अभ्यवर्षत कौन्तेयं पुनः पुनर अरिंदमः

22 तथा ते राक्षसाः सर्वे भीमसेनम उपाद्रवन
नानाप्रहरणा भीमास तवत्सुतानां जयैषिणः

23 स ताड्यमानॊ बलिभिर भीमसेनॊ महाबलः
पञ्चभिः पञ्चभिः सर्वांस तान अविध्यच छितैः शरैः

24 ते वध्यमाना हीमेन राक्षसाः खरयॊनयः
विनेदुस तुमुलान नादान दुद्रुवुश च दिशॊ दश

25 तांस तरास्यमानान भीमेन दृष्ट्वा रक्षॊ महाबलम
अभिदुद्राव वेगेन शरैश चैनम अवाकिरत

26 तं भीमसेनः समरे तीक्ष्णाग्रैर अक्षिणॊच छरैः
अलायुधस तु तान अस्तान भीमेन विशिखान रणे
चिच्छेद कांश चित समरे तवरया कांश चिद अग्रहीत

27 स तं दृष्ट्वा राक्षसेन्द्रं भीमॊ भीमपराक्रमः
गदां चिक्षेप वेगेन वज्रपातॊपमां तदा

28 ताम आपतन्तीं वेगेन गदां जवालाकुलां ततः
गदया ताडयाम आस सा गदा भीमम आव्रजत

29 स राक्षसेन्द्रं कौन्तेयः शरवर्षैर अवाकिरत
तान अप्य अस्याकरॊन मॊघान राक्षसॊ निशितैः शरैः

30 ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः
शासनाद राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान

31 पाञ्चालाः सृञ्जयाश चैव वाजिनः परमद्विपाः
न शान्तिं लेभिरे तत्र रक्षसैर भृशपीडिताः

32 तं तु दृष्ट्वा महाघॊरं वर्तमानं महाहवे
अब्रवीत पुरुषश्रेष्ठॊ धनंजयम इदं वचः

33 पश्यं भीमं महाबाहॊ राक्षसेन्द्र वशंगतम
पदवीम अस्य गच्छ तवं मा विचारय पाण्डव

34 धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ
सहिता दरौपदेयाश च कर्णं यान्तु महारथाः

35 नकुलः सहदेवश च युयुधानश च वीर्यवान
इतरान राक्षसान घनन्तु शासनात तव पाण्डव

36 तवम अपीमां महाबाहॊ चमूं दरॊण पुरस्कृताम
वारयस्व नरव्याघ्र महद धि भयम आगतम

37 एवम उक्ते तु कृष्णेन यथॊद्दिष्टा महारथाः
जग्मुर वैकर्तनं कर्णं राक्षसांश चेतरान रणे

38 अथ पूर्णायतॊत्सृष्टैः शरैर आशीविषॊपमैः
धनुश चिच्छेद भीमस्य राक्षसेन्द्रः परतापवान

39 हयांश चास्य शितैर बाणैः सारथिं च महाबलः
जघान मिषतः संख्ये भीमसेनस्य भारत

40 सॊ ऽवतीर्य रथॊपस्थाद धताश्वॊ हतसारथिः
तस्मै गुर्वीं गदां घॊरां स विनद्यॊत ससर्ज ह

41 ततस तां भीमनिर्घॊषाम आपतन्तीं महागदाम
गदया राक्षसॊ घॊरॊ निजघान ननाद च

42 तद दृष्ट्वा राक्षसेन्द्रस्य घॊरं कर्म भयावहम
भीमसेनः परहृष्टात्मा गदाम आशु परामृशत

43 तयॊः समभवद युद्धं तुमुलं नररक्षसॊः
गदा निपातसंह्रादैर भुवं कम्पयतॊर भृशम

44 गदा विमुक्तौ तौ भूयः समासद्येतरेतरम
मुष्टिभिर वज्रसंह्रादैर अन्यॊन्यम अभिजघ्नतुः

45 रथचक्रैर युगैर अक्षैर अधिष्ठानैर उपस्करैः
यथासन्नम उपादाय निजघ्नतुर अमर्षणौ

46 तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम
मत्ताव इव महानागाव अकृष्येतां पुनः पुनः

47 तम अपश्यद धृषीकेशः पाण्डवानां हिते रतः
स भीमसेन रक्षार्थं हैडिम्बं परत्यचॊदयत

अध्याय 1
अध्याय 1