अध्याय 138
1 [स]
वर्तमाने तथा युद्धे घॊररूपे भयावहे
तमसा संवृते लॊके रजसा च महीपते
नापश्यन्त रणे यॊधाः परस्परम अवस्थिताः
2 अनुमानेन संज्ञाभिर युद्धं तद ववृते महत
नरनागाश्वमथनं परमं लॊमहर्षणम
3 दरॊणकर्णकृपा वीरा भीमपार्षत सात्यकाः
अन्यॊन्यं कषॊभयाम आसुः सैन्यानि नृपसत्तमः
4 वध्यमानानि सैन्यानि समन्तात तैर महारथैः
तमसा रजसा चैव समन्ताद विप्रदुद्रुवुः
5 ते सर्वतॊ विद्रवन्तॊ यॊधा वित्रस्तचेतसः
अहन्यन्त महाराज धावमानाश च संयुगे
6 महारतः सहस्राणि जघ्नुर अन्यॊन्यम आहवे
अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते
7 ततः सर्वाणि सैन्यानि सेना गॊपाश च भारत
वयमुह्यन्त रणे तत्र तमसा संवृते सति
8 [धृ]
तेषां संलॊड्यमानानां पाण्डवैर निहतौजसाम
अन्धे तमसि मग्नानाम आसीक का वॊ मतिस तदा
9 कथं परकाशस तेषां वा मम सैन्येषु वा पुनः
बभूव लॊके तमसा तथा संजय संवृते
10 [धृ]
ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै
सेना गॊप्तॄन अथादिश्य पुनर वयूहम अकल्पयत
11 दरॊणः पुरस्ताज जघने तु शल्यस; तथा दरौणिः पार्श्वतः सौबलश च
सवयं तु सर्वाणि बलानि राजन; राजाभ्ययाद गॊपयन वै निशायाम
12 उवाच सर्वांश च पदातिसंघान; दुर्यॊधनः पार्थिव सान्त्वपूर्वम
उत्सृज्य सर्वे परमायुधानि; गृह्णीत हस्तैर जवलितान परदीपान
13 ते चॊदिताः पार्थिव सत्तमेन; ततः परहृष्टा जगृहुः परदीपान
सा भूय एव धवजिनी विभक्ता; वयरॊचताभिप्रभया निशायाम
14 महाधनैर आभरणैश च दिव्यैः; शस्त्रैः परदीप्तैर अभिसंपतद्भिः
कषणेन सर्वे विहिताः परदीपा; वयदीपयंश च धवजनीं तद आशु
15 सर्वास तु सेना वयतिसेव्यमानाः; पदातिभिः पावकतैलहस्तैः
परकाश्यमाना ददृशुर निशायां; यथान्तरिक्षे जलदास तडिद्भिः
16 परकाशितायां तु तथा धवजिन्यां; दरॊणॊ ऽगनिकल्पः परतपन समन्तात
रराज राजेन्द्र सुवर्णवर्मा; मध्यं गतः सूर्य इवांशुमाली
17 जाम्बूनदेष्व आभरषेषु चैव; निष्केषु शुद्धेषु शरावरेषु
पीतेषु शस्त्रेषु च पावकस्य; परतिप्रभास तत्र ततॊ बभूवुः
18 गदाश च शैक्याः परिघाश च शुभ्रा; रथेषु शक्त्यश च विवर्तमानाः
परतिप्रभा रश्मिभिर आजमीढ; पुनः पुनः संजनयन्ति दीप्ताः
19 छत्राणि बालव्यजनानुषङ्गा; दीप्ता महॊल्काश च तथैव राजन
वयाघूर्णमानाश च सुवर्णमाला; वयायच्छतां तत्र तदा विरेजुः
20 शस्त्रप्रभाभिश च विराजमानं; दीपप्रभाभिश च तदा बलं तत
परकाशितं चाभरण परभाभिर; भृशं परकाशं नृपते बभूव
21 पीतानि शस्त्राण्य असृग उक्षितानि; वीरावधूतानि तनु दरुहाणि
दीप्तां परभां पराजनयन्त तत्र; तपात्यये विद्युद इवान्तरिक्षे
22 परकम्पितानाम अभिघात वेगैर; अभिघ्नतां चापतताम जवेन
वक्त्राण्य अशॊभन्त तदा नराणां; वाय्वीरितानीव महाम्बुजानि
23 महावने दाव इव परदीप्ते; यथा परभा भास्करस्यापि नश्येत
तथा तवासीद धवजिनी परदीप्ता; महाभये भारत भीमरूपा
24 तत संप्रदीप्तं बलम अस्मदीयं; निशाम्य पार्थस तवरितास तथैव
सर्वेषु सैन्येषु पदातिसंघान; अचॊदयंस ते ऽथ चक्रुः परदीपान
25 गजे गजे सप्त कृताः परदीपा; रथे रथे चैव दश परदीपाः
दवाव अश्वपृष्ठे परिपार्श्वतॊ ऽनये; धवजेषु चान्ये जघनेषु चान्ये
26 सेनासु सर्वासु च पार्श्वतॊ ऽनये; पश्चात पुरस्ताच च समन्ततश च
मध्ये तथान्ये जवलिताग्निहस्ताः; सेना दवये ऽपि सम नरा विचेरुः
27 सर्वेषु सैन्येषु पदातिसंघा; वयामिश्रिता हस्तिरथाश्ववृन्दैः
मध्ये तथान्ये जवलिताग्निहस्ता; वयदीपयन पाण्डुसुतस्य सेनाम
28 तेन परदीप्तेन तथा परदीप्तं; बलं तद आसीद बलवद बलेन
भाः कुर्वता भानुमता गरहेण; दिवाकरेणाग्निर इवाभितप्तः
29 तयॊः परभाः पृथिवीम अन्तरिक्षं; सर्वा वयतिक्रम्य दिशश च वृद्धाः
तेन परकाशेन भृशं परकाशं; बभूव तेषां तव चैव सैन्यम
30 तेन परकाशेन दिवं गमेन; संबॊधिता देवगणाश च राजन
गन्धर्वयक्षासुरसिद्धसंघाः; समागमन्न अप्सरसश च सर्वाः
31 तद देवगन्धर्वसमाकुलं च; यक्षासुरेन्द्राप्सरसां गणैश च
हतैश च वीरैर दिवम आरुहद्भिर; आयॊधनं दिव्यकल्पं बभूव
32 रथाश्वनागाकुल दीपदीप्तं; संरब्ध यॊधाहत विद्रुताश्वम
महद बलं वयूढरथाश्वनागं; सुरासुरव्यूह समं बभूव
33 तच छक्ति संघाकुल चण्डवातं; महारथाभ्रं रथवाजि घॊषम
शस्त्रौघवर्षं रुधिराम्बुधारं; निशि परवृत्तं नरदेव युद्धम
34 तस्मिन महाग्निप्रतिमॊ महात्मा; संतापयन पाण्डवान विप्रमुख्यः
गभस्तिभिर मध्यगतॊ यथार्कॊ; वर्षात्यये तद्वद अभून नरेन्द्र