अध्याय 133
1 [स]
उदीर्यमाणं तद दृष्ट्वा पाण्डवानां महद बलम
अविषह्यं च मन्वानः कर्णं दुर्यॊधनॊ ऽबरवीत
2 अयं स कालः संप्राप्तॊ मित्राणां मित्रवत्सल
तरायस्व समरे कर्ण सर्वान यॊधान महाबल
3 पाञ्चालैर मत्स्यकैकेयैः पाण्डवैश च महारथैः
वृतान समन्तात संक्रुद्धैर निःश्वसद्भिर इवॊरगैः
4 एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः
शक्रॊपमाश च बहवः पाञ्चालानां रथव्रजाः
5 [कर्ण]
परित्रातुम इह पराप्तॊ यदि पार्थ पुरंदरः
तम अप्य आशु पराजित्य ततॊ हन्तास्मि पाण्डवम
6 सत्यं ते परतिजानामि समाश्वसिहि भारत
हन्तास्मि पाण्डुतनयान पाञ्चालांश च समागतान
7 जयं ते परतिजानामि वासवस्येव पावकिः
परियं तव मया कार्यम इति जीवामि पार्थिव
8 सर्वेषाम एव पार्थानां फल्गुनॊ बलवत्तरः
तस्यामॊघां विमॊक्ष्यामि शक्तिं शक्र विनिर्मिताम
9 तस्मिन हते महेष्वासे भरातरस तस्य मानद
तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः
10 मयि जीवति कौरव्य विषादं मा कृथाः कव चित
अहं जेष्यामि समरे सहितान सर्वपाण्डवान
11 पाञ्चालान केकयांश चैव वृष्णींश चापि समागतान
बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम
12 [स]
एवं बरुवाणं कर्णं तु कृपः शारद्वतॊ ऽबरवीत
समयन्न इव महाबाहुः सुत पुत्रम इदं वचः
13 शॊभनं शॊभनं कर्ण स नाथः कुरुपुंगवः
तवया नाथेन राधेय वचसा यदि सिध्यति
14 बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः
न तु ते विक्रमः कश चिद दृश्यते बलम एव वा
15 समागमः पाण्डुसुतैर दृष्टस ते बहुशॊ युधि
सर्वत्र निर्जितश चासि पाण्डवैः सूतनन्दन
16 हरियमाणे तदा कर्ण गन्धर्वैर धृतराष्ट्रजे
तदायुध्यन्त सैन्यानि तवम एकस तु पलायथाः
17 विराटनगरे चापि समेताः सर्वकौरवाः
पार्थेन निर्जिता युद्धे तवं च कर्ण सहानुजः
18 एकस्याप्य असमर्थस तवं फल्गुनस्य रणाजिरे
कथम उत्सहसे जेतुं सुकृष्णान सर्वपाण्डवान
19 अब्रुवन कर्ण युध्यस्व बहु कत्थसि सूतज
अनुक्त्वा विक्रमेद यस तु तद वै सत्पुरुषव्रतम
20 गर्जित्वा सूतपुत्र तवं शारदाभ्रम इवाजलम
निष्फलॊ दृश्यसे कर्ण तच च राजा न बुध्यते
21 तावद गर्जसि राधेय यावत पार्थं न पश्यसि
पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत
22 तवम अनासाद्य तान बाणान फल्गुनस्य विगर्जसि
पार्थ सायकविद्धस्य दुर्लभं गर्जितं भवेत
23 बाहुभिः कषत्रियाः शूरा वाग्भिः शूरा दविजातयः
धनुषा फल्गुनः शूरः कर्णः शूरॊ मनॊरथैः
24 एवं परुषितस तेन तदा शारद्वतेन सः
कर्णः परहरतां शरेष्ठः कृपं वाक्यम अथाब्रवीत
25 शूरा गर्जन्ति सततं परावृषीव बलाहकाः
फलं चाशु परयच्छन्ति बीजम उप्तम ऋताव इव
26 दॊषम अत्र न पश्यामि शूराणां रणमूर्धनि
तत तद विकत्थमानानां भारं चॊद्वहतां मृधे
27 यं भारं पुरुषॊ वॊढुं मनसा हि वयवस्यति
दैवम अस्य धरुवं तत्र साहाय्यायॊपपद्यते
28 वयवसायद्वितीयॊ ऽहं मनसा भारम उद्वहन
गर्जामि यद्य अहं विप्र तव किं तत्र नश्यति
29 वृथा शूरा न गर्जन्ति स जला इव तॊयदाः
सामर्थ्यम आत्मनॊ जञात्वा ततॊ गर्जन्ति पण्डिताः
30 सॊ ऽहम अद्य रणे यत्तः सहितौ कृष्ण पाण्डवौ
उत्सहे तरसा जेतुं ततॊ गर्जामि गौतम
31 पश्य तवं गर्जितस्यास्य फलं मे विप्र सानुगः
हत्वा पाण्डुसुतान आजौ सह कृष्णान स सात्वतान
दुर्यॊधनाय दास्यामि पृथिवीं हतकण्टकाम
32 [कृप]
मनॊरथप्रलापॊ मे न गराह्यस तव सूतज
यदा कषिपसि वै कृष्णौ धर्मराजं च पाण्डवम
33 धरुवस तत्र जयः कर्ण यत्र युद्धविशारदौ
देवगन्धर्वयक्षाणां मनुष्यॊरगरक्षसाम
दंशितानाम अपि रणे अजेयौ कृष्ण पाण्डवौ
34 बरह्मण्यः सत्यवाग दान्तॊ गुरु दैवतपूजकः
नित्यं धर्मरतश चैव कृतास्त्रश च विशेषतः
धृतिमांश च कृतज्ञश च धर्मपुत्रॊ युधिष्ठिरः
35 भरातरश चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः
गुरुवृत्ति रताः पराज्ञा धर्मनित्या यशस्विनः
36 संबन्धिनश चेन्द्र वीर्याः सवनुरक्ताः परहारिणः
धृष्टद्युम्नः शिखण्डी च दौर्मुखिर जनमेजयः
37 चन्द्र सेनॊ भद्र सेनः कीर्तिधर्मा धरुवॊ धरः
वसु चन्द्रॊ दाम चन्द्रः सिंहचन्द्रः सुवेधनः
38 दरुपदस्य तथा पुत्रा दरुपदश च महास्त्रवित
येषाम अर्थाय संयत्तॊ मत्स्यराजः सहानुगः
39 शतानीकः सुदशनः शरुतानीकः शरुतध्वजः
बलानीकॊ जयानीकॊ जयाश्वॊ रथवाहनः
40 चन्द्रॊदयः कामरथॊ विराट भरातरः शुभाः
यमौ च दरौपदेयाश च राक्षसश च घटॊत्कचः
येषाम अर्थाय युध्यन्ते न तेषां विद्यते कषयः
41 कामं खलु जगत सर्वं स देवासुरमानवम
स यक्षराक्षस गणं स भूतभुजग दविपम
निःशेषम अस्त्रवीर्येण कुर्यातां भीम फल्गुनौ
42 युधिष्ठिरश च पृथिवीं निर्दहेद घॊरचक्षुषा
अप्रमेयबलः शौरिर येषाम अर्थे च दंशितः
कथं तान संयुगे कर्ण जेतुम उत्सहसे परान
43 महान अपनयस तव एष तव नित्यं हि सूतज
यस तवम उत्सहसे यॊद्धुं समरे शौरिणा सह
44 [स]
एवम उक्तस तु राधेयः परहसन भरतर्षभ
अब्रवीच च तदा कर्णॊ गुरुं शारद्वतं कृपम
45 सत्यम उक्तं तवया बरह्मन पाण्डवान परति यद वचः
एते चान्ये च बहवॊ गुणाः पाण्डुसुतेषु वै
46 अजय्याश च रणे पार्था देवैर अपि स वासवैः
स दैत्य यक्षगन्धर्वपिशाचॊरगराक्षसैः
तथापि पार्थाञ जेष्यामि शक्त्या वासव दत्तया
47 ममाप्य अमॊघा दत्तेयं शक्तिः शक्रेण वै दविज
एतया निहनिष्यामि सव्यसाचिनम आहवे
48 हते तु पाण्डवे कृष्णॊ भरातरश चास्य सॊदराः
अनर्जुना न शक्ष्यन्ति महीं भॊक्तुं कथं चन
49 तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा
अयत्नात कौरवेयस्य वशे सथास्यति गौतम
50 सुनीतैर इह सर्वार्थाः सिध्यन्ते नात्र संशयः
एतम अर्थम अहं जञात्वा ततॊ गर्जामि गौतम
51 तवं तु वृद्धश च विप्रश च अशक्तश चापि संयुगे
कृतस्नेहश च पार्थेषु मॊहान माम अवमन्यसे
52 यद्य एवं वक्ष्यसे भूयॊ माम अप्रियम इह दविज
ततस ते खड्गम उद्यम्य जिह्वां छेत्स्यामि दुर्मते
53 यच चापि पाण्डवान विप्र सतॊतुम इच्छसि संयुगे
भीषयन सर्वसैन्यानि कौरवेयाणि दुर्मते
अत्रापि शृणु मे वाक्यं यथावद गदतॊ दविज
54 दुर्यॊधनश च दरॊणश च शकुनिर दुर्मुखॊ जयः
दुःशासनॊ वृषसेनॊ मद्रराजस तवम एव च
सॊमदत्तश च भूरिश च तथा दरौणिर विविंशतिः
55 तिष्ठेयुर दंशिता यत्र सर्वे युद्धविशारदाः
जयेद एतान रणे कॊ नु शक्रतुल्यबलॊ ऽपय अरिः
56 शूराश च हि कृतास्त्राश च बलिनः सवर्गलिप्सवः
धर्मज्ञा युद्धकुशला हन्युर युद्धे सुरान अपि
57 एते सथास्यन्ति संग्रामे पाण्डवानां वधार्थिनः
जयम आकाङ्क्षमाणा हि कौरवेयस्य दंशिताः
58 दैवायत्तम अहं मन्ये जयं सुबलिनाम अपि
यत्र भीष्मॊ महाबाहुः शेते शरशताचितः
59 विकर्णश चित्रसेनश च बाह्लीकॊ ऽथ जयद्रथः
भूरिश्रवा जयश चैव जलसंधः सुदक्षिणः
60 शलश च रथिनां शरेष्ठॊ भगदत्तश च वीर्यवान
एते चान्ये च राजानॊ देवैर अपि सुदुर्जयाः
61 निहताः समरे शूराः पाण्डवैर बलवत्तराः
किम अन्यद दैवसंयॊगान मन्यसे पुरुषाधम
62 यांश च तान सतौषि सततं दुर्यॊधन रिपून दविज
तेषाम अपि हताः शूराः शतशॊ ऽतः सहस्रशः
63 कषीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह
परभावं नात्र पश्यामि पाण्डवानां कथं चन
64 यांस तान बलवतॊ नित्यं मन्यसे तवं दविजाधम
यतिष्ये ऽहं यथाशक्ति यॊद्धुं तैः सह संयुगे
दुर्यॊधनहितार्थाय जयॊ दैवे परतिष्ठितः