अध्याय 115

महाभारत संस्कृत - द्रोणपर्व

1 [धृ] अहन्य अहनि मे दीप्तं यशः पतति संजय
हता मे बहवॊ यॊधा मन्ये कालस्य पर्ययम

2 धनंजयस तु संक्रुद्धः परविष्टॊ मामकं बलम
रक्षितं दरॊणकर्णाभ्याम अप्रवेश्यं सुरैर अपि

3 ताभ्याम ऊर्जितवीर्याभ्याम आप्यायित पराक्रमः
सहितः कृष्ण भीमाभ्यां शिनीनाम ऋषभेण च

4 तदा परभृति मा शॊकॊ दहत्य अग्निर इवाशयम
गरस्तान हि परतिपश्यामि भूमिपालान स सैन्धवान

5 अप्रियं सुमहत कृत्वा सिन्धुराजः किरीटिनः
चक्षुर्विषयम आपन्नः कथं मुच्येत जीवितः

6 अनुमानाच च पश्यामि नास्ति संजय सैन्धवः
युद्धं तु तद यथावृत्तं तन ममाचक्ष्व पृच्छतः

7 यच च विक्षॊभ्य महतीं सेनां संलॊड्य चासकृत
एकः परविष्टः संक्रुद्धॊ नलिनीम इव कुञ्जरः

8 तस्य वृष्णिप्रवीरस्य बरूहि युद्धं यथातथम
धनंजयार्थे यत तस्य कुशलॊ हय असि संजय

9 [स] तथा तु वैकर्तन पीडितं तं; भीमं परयान्तं पुरुषप्रवीरम
समीक्ष्य राजन नरवीरमध्ये; शिनिप्रवीरॊ ऽनुययौ रथेन

10 नदन यथा वज्रधरस तपान्ते; जवलन यथा जलदान्ते च सूर्यः
निघ्नन्न अनिंत्रान धनुषा दृढेन; संकम्पयंस तव पुत्रस्य सेनाम

11 तं यान्तम अश्वै रजतप्रकाशैर; आयॊधने नरवीरं चरन्तम
नाशक्नुवन वारयितुं तवदीयाः; सर्वे रथा भारत माधवाग्र्यम

12 अमर्षपूर्णस तव अनिवृत्त यॊधी; शरासनी काञ्चनवर्म धारी
अलम्बुसः सात्यकिं माधवाग्र्यम; अवारयद राजवरॊ ऽभिपत्य

13 तयॊर अभूद भारत संप्रहारस; तथागतॊ नैव बभूव कश चित
परैक्षन्त एवाहव शॊभिनौ तौ; यॊधास तवदीयाश च परे च सर्वे

14 अविध्यद एनं दशभिः पृषत्कैर; अलम्बुसॊ राजवरः परसह्य
अनागतान एव तु तान पृषत्कांश; चिच्छेद बाणैः शिनिपुंगवॊ ऽपि

15 पुनः स बाणैस तरिभिर अग्निकल्पैर; आकर्णपूर्णैर निशितैः सुपुङ्खैः
विव्याध देहावरणं विदार्य; ते सात्यकेर आविविशुः शरीरम

16 तैः कायम अस्याग्न्य अनिलप्रभावैर; विदार्य बाणैर अपरैर जवलद्भिः
आजघ्निवांस तान रजतप्रकाशान; अश्वांश चतुर्भिश चतुरः परसह्य

17 तथा तु तेनाभिहतस तरस्वी; नप्ता शिनेश चक्रधर परभावः
अलम्बुसस्यॊत्तम वेगवद्भिर; हयांश चतुर्भिर निजघान बाणैः

18 अथास्य सूतस्य शिरॊ निकृत्य; भल्लेन कालानलसंनिभेन
सकुण्डलं पूर्णशशिप्रकाशं; भराजिष्णु वक्त्रं निचकर्त देहात

19 निहत्य तं पार्थिव पुत्रपौत्रं; संख्ये मधूनाम ऋषभः परमाथी
ततॊ ऽनवयाद अर्जुनम एव वीरः; सैन्यानि राजंस तव संनिवार्य

20 अन्वागतं वृष्णिवरं समीक्ष्य; तथारिमध्ये परिवर्तमानम
घनन्तं कुरूणाम इषुभिर बलानि; पुनः पुनर वायुर इवाभ्रपूगान

21 ततॊ ऽवहन सैन्धवाः साधु दान्ता; गॊक्षीरकुन्देन्दु हिमप्रकाशाः
सुवर्णजालावतताः सदश्वा; यतॊ यतः कामयते नृसिंहः

22 अथात्मजास ते सहिताभिपेतुर; अन्ये च यॊधास तवरितास तवदीयाः
कृत्वा मुखं भारत यॊधमुख्यं; दुःशासनं तवत्सुतम आजमीढ

23 ते सर्वतः संपरिवार्य संख्ये; शैनेयम आजघ्नुर अनीक साहाः
स चापि तान परवरः सात्वतानां; नयवारयद बाणजालेन वीरः

24 निवार्य तांस तूर्णम अमित्रघाती; नप्ता शिनेः पत्रिभिर अग्निकल्पैः
दुःशासनस्यापि जघान वाहान; उद्यम्य बाणासनम आजमीढ

अध्याय 1
अध्याय 1