अध्याय 81

महाभारत संस्कृत - भीष्मपर्व

1 [स] स तुद्यमानस तु शरैर धनंजयः; पदा हतॊ नाग इव शवसन बली
बाणेन बाणेन महारथानां; चिच्छेद चापानि रणे परसह्य

2 संछिद्य चापानि च तानि राज्ञां; तेषां रणे वीर्यवतां कषणेन
विव्याध बाणैर युगपन महात्मा; निःशेषतां तेष्व अथ मन्यमानः

3 निपेतुर आजौ रुधिरप्रदिग्धास; ते ताडिताः शक्रसुतेन राजन
विभिन्नगात्राः पतितॊत्तमाङ्गा; गतासवश छिन्नतनुत्र कायाः

4 महीं गताः पार्थ बलाभिभूता; विचित्ररूपा युगपद विनेशुः
दृष्ट्वा हतांस तान युधि राजपुत्रांस; तरिगर्तराजः परययौ कषणेन

5 तेषां रथानाम अथ पृष्ठगॊपा; दवात्रिंशद अन्ये ऽबयपतन्त पार्थम
तथैव ते संपरिवार्य वार्थं; विकृष्य चापानि महारवाणि
अवीवृषन बाणमहौघवृष्ट्या; यथा गिरिं तॊयधरा जलौघैः

6 संपीड्य मानस तु शरौघवृष्ट्या; धनंजयस तान युधि जातरॊषः
षष्ट्या शरैः संयति तैलधौतैर; जघान तान अप्य अथ पृष्ठगॊपान

7 षष्टिं रथांस तान अवजित्य संख्ये; धनंजयः परीतमना यशस्वी
अथात्वरद भीष्म वधाय जिष्णुर; बलानि राज्ञां समरे निहत्य

8 तरिगर्तराजॊ निहतान समीक्ष्य; महारथांस तान अथ बन्धुवर्गान
रणे पुरस्कृत्य नराधिपांस ताञ; जगाम पार्थं तवरितॊ वधाय

9 अभिद्रुतं चास्त्रभृतां वरिष्ठं; धनंजयं वीक्ष्य शिखण्डिमुख्याः
अभ्युद्ययुस ते शितशस्त्रहस्ता; रिरक्षिषन्तॊ रथम अर्जुनस्य

10 पार्थॊ ऽपि तान आपततः समीक्ष्य; तरिगर्तराज्ञा सहितान नृवीरान
विध्वंसयित्वा समरे धनुष्मान; गाण्डीवमुक्तैर निशितैः पृषत्कैः
भीष्मं यियासुर युधि संददर्श; दुर्यॊधनं सैन्धवादींश च राज्ञः

11 आवारयिष्णून अभिसंप्रयाय; मुहूर्तम आयॊध्य बलेन वीरः
उत्सृज्य राजानम अनन्तवीर्यॊ; जयद्रथादींश च नृपान महौजाः
ययौ ततॊ भीमबलॊ मनस्वी; गाङ्गेयम आजौ शरचाप पाणिः

12 युधिष्ठिरश चॊग्रबलॊ महात्मा; समाययौ तवरितॊ जातकॊपः
मद्राधिपं समभित्यज्य संख्ये; सवभागम आप्तं तम अनन्त कीर्तिः
सार्धं स माद्री सुत भीमसेनैर; भीष्मं ययौ शांतनवं रणाय

13 तैः संप्रयुक्तः स महारथाग्र्यैर; गङ्गासुतः समरे चित्रयॊधी
न विव्यथे शांतनवॊ महात्मा; समागतैः पाण्डुसुतैः समस्तैः

14 अथैत्य राजा युधि सत्यसंधॊ; जयद्रथॊ ऽतयुग्र बलॊ मनस्वी
चिच्छेद चापानि महारथानां; परसह्य तेषां धनुषा वरेण

15 युधिष्ठिरं भीमसेनं यमौ च; पार्थं तथा युधि संजातकॊपः
दुर्यॊधनः करॊधविषॊ महात्मा; जघान बाणैर अनल परकाशैः

16 कृपेण शल्येन शलेन चैव; तथा विभॊ चित्रसेनेन चाजौ
विद्धाः शरैस ते ऽतिविवृद्धकॊपैर; देवा यथा दैत्य गणैः समेतैः

17 छिन्नायुधं शांतनवेन राजा; शिखण्डिनं परेक्ष्य च जातकॊपः
अजातशत्रुः समरे महात्मा; शिखण्डिनं करुद्ध उवाच वाक्यम

18 उक्त्वा तथा तवं पितुर अग्रतॊ माम; अहं हनिष्यामि महाव्रतं तम
भीष्मं शरौघैर विमलार्क वर्णैः; सत्यं वदामीति कृता परतिज्ञा

19 तवया न चैनां सफलां करॊषि; देवव्रतं यन न निहंसि युद्धे
मिथ्याप्रतिज्ञॊ भव मा नृवीर; रक्षस्व धर्मं च कुलं यशश च

20 परेक्षस्व भीष्मं युधि भीमवेगं; सर्वांस तपन्तं मम सैन्यसंघान
शरौघजालैर अतितिग्म तेजैः; कालं यथा मृत्युकृतं कषणेन

21 निकृत्तचापः समरानपेक्षः; पराजितः शांतनवेन राज्ञा
विहाय बन्धून अथ सॊदरांश च; कव यास्यसे नानुरूपं तवेदम

22 दृष्ट्वा हि भीष्मं तम अनन्तवीर्यं; भग्नं च सैन्यं दरवमाणम एवम
भीतॊ ऽसि नूनं दरुपदस्य पुत्र; तथा हि ते मुखवर्णॊ ऽपरहृष्टः

23 आज्ञायमाने ऽपि धनंजयेन; महाहवे संप्रसक्ते नृवीर
कथं हि भीष्मात परथितः पृथिव्यां; भयं तवम अद्य परकरॊषि वीर

24 स धर्मराजस्य वचॊ निशम्य; रूक्षाक्षरं विप्रलापानुबद्धम
परत्यादेशं मन्यमानॊ महात्मा; परतत्वरे भीष्म वधाय राजन

25 तम आपतन्तं महता जवेन; शिखण्डिनं भीष्मम अभिद्रवन्तम
आवारयाम आस हि शल्य एनं; शस्त्रेण घॊरेण सुदुर्जयेन

26 स चापि दृष्ट्वा समुदीर्यमाणम; अस्त्रं युगान्ताग्निसमप्रभावम
नासौ वयमुह्यद दरुपदस्य पुत्रॊ; राजन महेन्द्रप्रतिमप्रभावः

27 तस्थौ च तत्रैव महाधनुष्माञ; शरैस तद अस्त्रं परतिबाधमानः
अथाददे वारुणम अन्यद अस्त्रं; शिखण्ड्य अथॊग्रं परतिघाताय तस्य
तद अस्त्रम अस्त्रेण विदार्यमाणं; सवस्थाः सुरा ददृशुः पार्थिवाश च

28 भीष्मं तु राजन समरे महात्मा; धनुः सुचित्रं धवजम एव चापि
छित्त्वानदत पाण्डुसुतस्य वीरॊ; युधिष्ठिरस्याजमीढस्य राज्ञः

29 ततः समुत्सृज्य धनुः स बाणं; युधिष्ठिरं वीक्ष्य भयाभिभूतम
गदां परगृह्याभिपपात संख्ये; जयद्रथं भीमसेनः पदातिः

30 तम आपतन्तं महता जवेन; जयद्रथः सगदं भीमसेनम
विव्याध घॊरैर यमदण्डकल्पैः; शितैः शरैः पञ्चशतैः समन्तात

31 अचिन्तयित्वा स शरांस तरस्वी; वृकॊदरः करॊधपरीत चेताः
जघान वाहान समरे समस्तान; आरट्टजान सिन्धुराजस्य संख्ये

32 ततॊ ऽभिवीक्ष्याप्रतिम परभावस; तवात्मजस तवरमाणॊ रथेन
अभ्याययौ भीमसेनं निहन्तुं; समुद्यतास्त्रः सुरराजकल्पः

33 भीमॊ ऽपय अथैनं सहसा विनद्य; परत्यौद्ययौ गदया तर्जमानः
समुद्यतां तां यमदण्डकल्पां; दृष्ट्वा गदां ते कुरवः समन्तात

34 विहाय सर्वे तव पुत्रम उग्रं पातं; गदायाः परिहर्तु कामाः
अपक्रान्तास तुमुले संविमर्दे; सुदारुणे भारत मॊहनीये

35 अमूढ चेतास तव अथ चित्रसेनॊ; महागदाम आपतन्तीं निरीक्ष्य
रथं समुत्सृज्य पदातिर आजौ; परगृह्य खड्गं विमलं च चर्म
अवप्लुतः सिंह इवाचलाग्राञ; जगाम चान्यं भुवि भूमिदेशम

36 गदापि सा पराप्य रथं सुचित्रं; साश्वं ससूतं विनिहत्य संख्ये
जगाम भूमिं जवलिता महॊल्का; भरष्टाम्बराद गाम इव संपतन्ती

37 आश्चर्यभूतं सुमहत तवदीया; दृष्ट्वैव तद भारत संप्रहृष्टाः
सर्वे विनेदुः सहिताः समन्तात; पुपूजिरे तव पुत्रं स सैन्याः

अध्याय 8
अध्याय 8