अध्याय 91

महाभारत संस्कृत - आश्वमेधिकपर्व

1 [व] शमयित्वा पशून अन्यान विधिवद दविजसत्तमाः
तुरगं तं यथाशास्त्रम आलभन्त दविजातयः

2 ततः संज्ञाप्य तुरगं विधिवद याजकर्षभाः
उपसंवेशयन राजंस ततस तां दरुपदात्मजाम
कलाभिस तिसृभी राजन यथाविधि मनस्विनीम

3 उद्धृत्य तु वपां तस्य यथाशास्त्रं दविजर्षभाः
शरपयाम आसुर अव्यग्राः शास्त्रवद भरतर्षभ

4 तं वपा धूमगन्धं तु धर्मराजः सहानुजः
उपाजिघ्रद यथान्यायं सर्वपाप्मापहं तदा

5 शिष्टान्य अङ्गानि यान्य आसंस तस्याश्वस्य नराधिप
तान्य अग्नौ जुहुवुर धीराः समस्ताः षॊडशर्त्विजः

6 संस्थाप्यैवं तस्य राज्ञस तं करतुं शक्र तेजसः
वयासः स शिष्यॊ भगवान वर्धयाम आस तं नृपम

7 ततॊ युधिष्ठिरः परादात सदस्येभ्यॊ यथाविधि
कॊटीसहस्रं निष्काणां वयासाय तु वसुंधराम

8 परतिगृह्य धरां राजन वयासः सत्यवती सुतः
अब्रवीद भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम

9 पृथिवी भवतस तव एषां संन्यस्ता राजसत्तम
निष्क्रयॊ दीयतां मह्यं बराह्मणा हि धनार्थिनः

10 युधिष्ठिरस तु तान विप्रान परत्युवाच महामनाः
भरातृभिः सहितॊ धीमान मध्ये राज्ञां महात्मनाम

11 अश्वमेधे महायज्ञे पृथिवी दक्षिणा समृता
अर्जुनेन जिता सेयम ऋत्विग्भ्यः परापिता मया

12 वनं परवेक्ष्ये विप्रेन्द्रॊ विभजध्वं महीम इमाम
चतुर्धा पृथिवीं कृत्वा चातुर्हॊत्र परमाणतः

13 नाहम आदातुम इच्छामि बरह्म सवं मुनिसत्तमाः
इदं हि मे मतं नित्यं भरातॄणां च ममानघाः

14 इत्य उक्तवति तस्मिंस ते भरातरॊ दरौपदी च सा
एवम एतद इति पराहुस तद अभूद रॊमहर्षणम

15 ततॊ ऽनतरिक्षे वाग आसीत साधु साध्व इति भारत
तथैव दविजसंघानां शंसतां विबभौ सवनः

16 दवैपायनस तथॊक्तस तु पुनर एव युधिष्ठिरम
उवाच मध्ये विप्राणाम इदं संपूजयन मुनिः

17 दत्तैषा भवता मह्यं तां ते परतिददाम्य अहम
हिरण्यं दीयताम एभ्यॊ दविजातिभ्यॊ धरास तु ते

18 ततॊ ऽबरवीद वासुदेवॊ धर्मराजं युधिष्ठिरम
यथाह भगवान वयासस तथा तत कर्तुम अर्हसि

19 इत्य उक्तः स कुरुश्रेष्ठः परीतात्मा भरातृभिः सह
कॊटॊ कॊटिकृतां परादाद दक्षिणां तरिगुणां करतॊः

20 न करिष्यति तल लॊके कश चिद अन्यॊ नराधिपः
यत्कृतं कुरु सिंहेन मरुत्तस्यानुकुर्वता

21 परतिगृह्य तु तद दरव्यं कृष्ण दवौपायनः परभुः
ऋत्विग्भ्यः परददौ विद्वांश चतुर्धा वयभजंश च ते

22 पृथिव्या निष्क्रयं दत्त्वा तद धिरण्यं युधिष्ठिरः
धूतपाप्मा जितस्वर्गॊ मुमुदे भरातृभिः सह

23 ऋत्विजस तम अपर्यन्तं सुवर्णनिचयं तदा
वयभजन्त दविजातिभ्यॊ यथॊत्साहं यथाबलम

24 यज्ञवाटे तु यत किं चिद धिरण्यम अपि भूषणम
तॊरणानि च यूपांश च घटाः पात्रीस तथेष्टकाः
युधिष्ठिराभ्यनुज्ञाताः सर्वं तद वयभजन दविजाः

25 अनन्तरं बराह्मणेभ्यः कषत्रिया जह्रिरे वसु
तथा विट शूद्र संघाश च तथान्ये मलेच्छ जातयः
कालेन महता जह्रुस तत सुवर्णं ततस ततः

26 ततस ते बराह्मणाः सर्वे मुदिता जग्मुर आलयान
तर्पिता वसुना तेन धर्मराज्ञा महात्मना

27 सवम अंशं भगवान वयासः कुन्त्यै पादाभिवादनात
परददौ तस्य महतॊ हिरण्यस्य महाद्युतिः

28 शवशुरात परीतिदायं तं पराप्य सा परीतिमानसा
चकार पुण्यं लॊके तु सुमहान्तं पृथा तदा

29 गत्वा तव अवभृथं राजा विपाप्मा भरातृभिः सह
सभाज्यमानः शुशुभे महेन्द्रॊ दैवतैर इव

30 पाण्डवाश च महीपालैः समेतैः संवृतास तदा
अशॊभन्त महाराज गरहास तारागणैर इव

31 राजभ्यॊ ऽपि ततः परादाद रत्नानि विविधानि च
गजान अश्वान अलंकारान सत्रियॊ वस्त्राणि काञ्चनम

32 तद धनौघम अपर्यन्तं पार्थः पार्थिव मण्डले
विसृजञ शुशुभे राजा यथा वैश्रवणस तथा

33 आनाय्य च तथा वीरं राजानं बभ्रु वाहनम
परदाय विपुलं वित्तं गृहान परस्थापयत तदा

34 दुःशलायाश च तं पौत्रं बालकं पार्थिवर्षभ
सवराज्ये पितृभिर गुप्ते परीत्या समभिषेचयत

35 राज्ञश चैवापि तान सर्वान सुविभक्तान सुपूजितान
परस्थापयाम आस वशीकुरुराजॊ युधिष्ठिरः

36 एवं बभूव यज्ञः स धर्मराजस्य धीमतः
बह्व अन्नधनरत्नौघः सुरा मैरेय सागरः

37 सर्पिः पङ्का हरदा यत्र बहवश चान्न पर्वताः
रसाला कर्दमाः कुल्या बभूवुर भरतर्षभ

38 भक्ष्यषाण्डव रागाणां करियतां भुज्यताम इति
पशूनां वध्यतां चापि नान्तस तत्र सम दृश्यते

39 मत्तॊन्मत्त परमुदितं परगीत युवती जनम
मृदङ्गशङ्खशब्दैश च मनॊरमम अभूत तदा

40 दीयतां भुज्यतां चेति दिवारात्रम अवारितम
तं महॊत्सव संकाशम अतिहृष्ट जनाकुलम
कथयन्ति सम पुरुषा नानादेशनिवासिनः

41 वर्षित्वा धनधाराभिः कामै रत्नैर धनैस तथा
विपाप्मा भरतश्रेष्ठः कृतार्थ पराविशत पुरम

अध्याय 9
अध्याय 9