अध्याय 9

महाभारत संस्कृत - आश्वमेधिकपर्व

1 [इन्द्र] कच चित सुखं सवपिषि तवं बृहस्पते; कच चिन मनॊज्ञाः परिचारकास ते
कच चिद देवानां सुखकामॊ ऽसि विप्र; कच चिद देवास तवां परिपालयन्ति

2 [ब] सुखं शये ऽहं शयने महेन्द्र; तथा मनॊज्ञाः परिचारका मे
तथा देवानां सुखकामॊ ऽसमि शक्र; देवाश च मां सुभृशं पालयन्ति

3 [इ] कुतॊ दुःखं मानसं देहजं वा; पाण्डुर विवर्णश च कुतस तवम अद्य
आचक्ष्व मे तद दविज यावद एतान; निहन्मि सर्वांस तव दुःखकर्तॄन

4 [ब] मरुत्तम आहुर मघवन यक्ष्यमाणं; महायज्ञेनॊत्तम दक्षिणेन
तं संवर्तॊ याजयितेति मे शरुतं; तद इच्छामि न स तं याजयेत

5 [इ] सर्वान कामान अनुजातॊ ऽसि विप्र; यस तवं देवानां मन्त्रयसे परॊधाः
उभौ च ते जन्ममृत्यू वयतीतौ; किं संवर्तस तव कर्ताद्य विप्र

6 [ब] देवैः सह तवम असुरान संप्रणुद्य; जिघांससे ऽदयाप्य उत सानुबन्धान
यं यं समृद्धं पश्यसि तत्र तत्र; दुःखं सपत्नेषु समृद्धभावः

7 अतॊ ऽसमि देवेन्द्र विवर्णरूपः; सपत्नॊ मे वर्धते तन निशम्य
सर्वॊपायैर मघवन संनियच्छ; संवर्तं वा पार्थिवं वा मरुत्तम

8 [इ] एहि गच्छ परहितॊ जातवेदॊ; बृहस्पतिं परिदातुं मरुत्ते
अयं वै तवा याजयिता बृहस्पतिस; तथामरं चैव करिष्यतीति

9 [अग्नि] अयं गच्छामि तव शक्राद्य दूतॊ; बृहस्पतिं परिदातुं मरुत ते
वाचं सत्यां पुरुहूतस्य कर्तुं; बृहस्पतेश चापचितिं चिकीर्षुः

10 [व] ततः परायाद धूमकेतुर महात्मा; वनस्पतीन वीरुधश चावमृद्नन
कामाद धिमान्ते परिवर्तमानः; काष्ठातिगॊ मातरिश्वेन नर्दन

11 [म] आश्चर्यम अद्य पश्यामि रूपिणं वह्निम आगतम
आसनं सलिलं पाद्यं गां चॊपानय वै मुने

12 [अग्नि] आसनं सलिलं पाद्यं परतिनन्दामि ते ऽनघ
इन्द्रेण तु समादिष्टं विद्धि मां दूतम आगतम

13 [म] कच चिच छरीमान देवराजः सुखी च; कच चिच चास्मान परीयते धूमकेतॊ
कच चिद देवाश चास्य वशे यथावत; तद बरूहि तवं मम कार्त्स्न्येन देव

14 [अ] शक्रॊ भृशं सुसुखी पार्थिवेन्द्र; परीतिं चेच्छत्य अजरां वै तवया सः
देवाश च सर्वे वशगास तस्य राजन; संदेशं तवं शृणु मे देवराज्ञः

15 यदर्थं मां पराहिणॊत तवत्सकाशं; बृहस्पतिं परिदातुं मरुत्ते
अयं गुरुर याजयिता नृप तवां; मर्त्यं सन्तम अमरं तवां करॊतु

16 [म] संवर्तॊ ऽयं याजयिता दविजॊ मे; बृहस्पतेर अञ्जलिर एष तस्य
नासौ देवं याजयित्वा महेन्द्रं; मर्त्यं सन्तं याजयन्न अद्य शॊभेत

17 [अ] ये वै लॊका देवलॊके महान्तः; संप्राप्स्यसे तान देवराजप्रसादात
तवां चेद असौ याजयेद वै बृहस्पतिर; नूनं सवर्गं तवं जयेः कीर्तियुक्तः

18 तथा लॊका मानुषा ये च दिव्याः; परजापतेश चापि ये वै महान्तः
ते ते जिता देवराज्यं च कृत्स्नं; बृहस्पतिश चेद याजयेत तवां नरेन्द्र

19 [सम्वर्त] मास्मान एवं तवं पुनर आगाः कथं चिद; बृहस्पतिं परिदातुं मरुत्ते
मा तवां धक्ष्ये चक्षुषा दारुणेन; संक्रुद्धॊ ऽहं पावकतन निबॊध

20 [व] ततॊ देवान अगमद धूमकेतुर; दाहाद भीतॊ वयथितॊ ऽशवत्थ पर्णवत
तं वै दृष्ट्वा पराह शक्रॊ महात्मा; बृहस्पतेः संनिधौ हव्यवाहम

21 यत तवं गतः परहितॊ जातवेदॊ; बृहस्पतिं परिदातुं मरुत्ते
तत किं पराह स नृपॊ यक्ष्यमाणः; कच चिद वचः परतिगृह्णाति तच च

22 [अ] न ते वाचं रॊचयते मरुत्तॊ; बृहस्पतेर अञ्जलिं पराहिणॊत सः
संवर्तॊ मां याजयितेत्य अभीक्ष्णं; पुनः पुनः स मया परॊच्यमानः

23 उवाचेदं मानुषा ये च दिव्याः; परजापतेर ये च लॊका महान्तः
तांश चेल लभेयं संविदं तेन कृत्वा; तथापि नेच्छेयम इति परतीतः

24 [इ] पुनर भवान पार्थिवं तं समेत्य; वाक्यं मदीयं परापय सवार्थयुक्तम
पुनर यद युक्तॊ न करिष्यते वचस; ततॊ वज्रं संप्रहर्तास्मि तस्मै

25 [अ] गन्धर्वराड यात्वयं तत्र दूतॊ; बिभेम्य अहं वासव तत्र गन्तुम
संरब्धॊ माम अब्रवीत तीक्ष्णरॊषः; संवर्तॊ वाक्यं चरितब्रह्मचर्यः

26 यद्य आगच्छेः पुनर एवं कथं चिद; बृहस्पतिं परिदातुं मरुत्ते
दहेयं तवां चक्षुषा दारुणेन; संक्रुद्ध इत्य एतद अवैहि शक्र

27 [इ] तवम एवान्यान दहसे जातवेदॊ; न हि तवदन्यॊ विद्यते भस्मकर्ता
तवत्संस्पर्शात सर्वलॊकॊ बिभेत्य; अश्रद्धेयं वदसे हव्यवाह

28 [अ] दिवं देवेन्द्र पृथिवीं चैव सर्वां; संवेष्टयेस तवं सवबलेनैव शक्र
एवंविधस्येह सतस तवासौ; कथं वृत्रस तरिदिवं पराग जहार

29 [इ] न चण्डिका जङ्गमा नॊ करेणुर; न वारि सॊमं परपिबामि वह्ने
न दुर्बले वै विसृजामि वज्रं; कॊ मे ऽसुखाय परहरेन मनुष्यः

30 परव्राजयेयं कालकेयान पृथिव्याम; अपाकर्षं दानवान अन्तरिक्षात
दिवः परह्रादम अवसानम आनयं; कॊ मे ऽसुखाय परहरेत मर्त्यः

31 [अ] यत्र शर्यातिं चयवनॊ याजयिष्यन; सहाश्विभ्यां सॊमम अगृह्णद एकः
तं तवं करुद्धः परत्यषेधीः पुरस्ताच; छर्याति यज्ञं समर तं महेन्द्र

32 वज्रं गृहीत्वा च पुरंदर तवं; संप्रहर्षीश चयवनस्यातिघॊरम
स ते विप्रः सह वज्रेण बाहुम; अपागृह्णात तपसा जातमन्युः

33 ततॊ रॊषात सर्वतॊ घॊररूपं; सपत्नं ते जनयाम आस भूयः
मदं नामासुरं विश्वरूपं; यं तवं दृष्ट्वा चक्षुषी संन्यमीलः

34 हनुर एका जगतीस्था तथैका; दिवं गता महतॊ दानवस्य
सहस्रं दन्तानां शतयॊजनानां; सुतीक्ष्णानां घॊररूपं बभूव

35 वृत्ताः सथूला रजतस्तम्भवर्णा; दंष्ट्राश चतस्रॊ दवे शते यॊजनानाम
स तवां दन्तान विदशन्न अभ्यधावञ; जिघांसया शूलम उद्यम्य घॊरम

36 अपश्यस तवं तं तदा घॊररूपं; सर्वे तव अन्ये ददृशुर दर्शनीयम
यस्माद भीतः पराञ्जलिस तवं महर्षिम; आगच्छेथाः शरणं दानवघ्न

37 कषत्राद एवं बरह्मबलं गरीयॊ; न बरह्मतः किं चिद अन्यद गरीयः
सॊ ऽहं जानं बरह्मतेजॊ यथावन; न संवर्तं गन्तुम इच्छामि शक्र

अध्याय 1
अध्याय 8