अध्याय 88

महाभारत संस्कृत - आश्वमेधिकपर्व

1 [व] समागतान वेद विदॊ राज्ञश च पृथिवीश्वरान
दृष्ट्वा युधिष्ठिरॊ राजा भीमसेनम अथाब्रवीत

2 उपयाता नरव्याघ्रा य इमे जगद ईश्वराः
एतेषां करियतां पूजा पूजार्हा हि नरेश्वराः

3 इत्य उक्तः स तथा चक्रे नरेन्द्रेण यशस्विना
भीमसेनॊ महातेजा यमाभ्यां सह भारत

4 अथाभ्यगच्छद गॊविन्दॊ वृष्णिभिः सहधर्मजम
बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः

5 युयुधानेन सहितः परद्युम्नेन गदेन च
निशठेनाथ साम्बेन तथैव कृतवर्मणा

6 तेषाम अपि परां पूजां चक्रे भीमॊ महाभुजः
विविशुस ते च वेश्मानि रत्नवन्ति नरर्षभाः

7 युधिष्ठिर समीपे तु कथान्ते मधुसूदनः
अर्जुनं कथयाम आस बहु संग्रामकर्शितम

8 स तं पप्रच्छ कौन्तेयः पुनः पुनर अरिंदमम
धर्मराड भरातरं जिष्णुं समाचष्ट जगत्पतिः

9 आगमद दवारकावासी ममाप्तः पुरुषॊ नृप
यॊ ऽदराक्षीत पाण्डवश्रेष्ठं बहु संग्रामकर्शितम

10 समीपे च महाबाहुम आचष्ट च मम परभॊ
कुरु कार्याणि कौन्तेय हयमेधार्थ सिद्धये

11 इत्य उक्तः परत्युवाचैनं धर्मराजॊ युधिष्ठिरः
दिष्ट्या स कुशली जिष्णुर उपयाति च माधव

12 तव यत संदिदेशासौ पाण्डवानां बलाग्रणीः
तद आख्यातुम इहेच्छामि भवता यदुनन्दन

13 इत्य उक्ते राजशार्दूल वृष्ण्यन्धकपतिस तदा
परॊवाचेदं वचॊ वाग्मी धर्मात्मानं युधिष्ठिरम

14 इदम आह महाराज पार्थ वाक्यं नरः स माम
वाच्यॊ युधिष्ठिरः कृष्ण काले वाक्यम इदं मम

15 आगमिष्यन्ति राजानः सर्वतः कौरवान परति
तेषाम एकैकशः पूजा कार्येत्य एतत कषमं हि नः

16 इत्य एतद वचनाद राजा विज्ञाप्यॊ मम मानद
न तदात्ययिकम हि सयाद यद अर्घ्यानयने भवेत

17 कर्तुम अर्हति तद राजा भवांश चाप्य अनुमन्यताम
राजद्वेषाद विनश्येयुर नेमा राजन परजाः पुनः

18 इदम अन्यच च कौन्तेय वचः स पुरुषॊ ऽबरवीत
धनंजयस्य नृपते तन मे निगदतः शृणु

19 उपयास्यति यज्ञं नॊ मणिपूर पतिर नृपः
पुत्रॊ मम महातेजा दयितॊ बभ्रु वाहनः

20 तं भवान मद अपेक्षार्थं विधिवत परतिपूजयेत
स हि भक्तॊ ऽनुरक्तश च मम नित्यम इति परभॊ

21 इत्य एतद वचनं शरुत्वा धर्मराजॊ युधिष्ठिरः
अभिनन्द्यास्य तद वाक्यम इदं वचनम अब्रवीत

अध्याय 8
अध्याय 8