अध्याय 86
1 [व]
इत्य उक्त्वानुययौ पार्थॊ हयं तं कामचारिणम
नयवर्तत ततॊ वाजी येन नागाह्वयं पुरम
2 तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः
शरुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत
3 विजयस्य च तत कर्म गान्धारविषये तदा
शरुत्वान्येषु च देशेषु स सुप्रीतॊ ऽभवन नृपः
4 एतस्मिन्न एव काले तु दवादशीं माघपाक्षिकीम
इष्टं गृहीत्वा नक्षत्रं धर्मराजॊ युधिष्ठिरः
5 समानाय्य महातेजाः सर्वान भरातॄन महामनाः
भीमं च नकुलं चैव सहदेवं च कौरवः
6 परॊवाचेदं वचः काले तदा धर्मभृतां वरः
आमन्त्य वदतां शरेष्ठॊ भीमं भीमपराक्रमम
7 आयाति भीमसेनासौ सहाश्वेन तवानुजः
यथा मे पुरुषाः पराहुर ये धनंजय सारिणः
8 उपस्थितश च कालॊ ऽयम अभितॊ वर्तते हयः
माघी च पौर्णमासीयं मासः शेषॊ वृकॊदर
9 तत परस्थाप्यन्तु विद्वांसॊ बराह्मणा वेदपारगाः
वाजिमेधार्थ सिद्ध्यर्थं देशं पश्यन्तु यज्ञियम
10 इत्य उक्तः स तु तच चक्रे भीमॊ नृपतिशासनम
हृष्टः शरुत्वा नरपतेर आयान्तं सव्यसाचिनम
11 ततॊ ययौ भीमसेनः पराज्ञैः सथपतिभिः सह
बराह्मणान अग्रतः कृत्वा कुशलान यज्ञकर्मसु
12 तं स शालचय गरामं संप्रतॊली विटङ्किनम
मापयाम आस कौरव्यॊ यज्ञवाटं यथाविधि
13 सदः सपत्नी सदनं साग्नीध्रम अपि चॊत्तरम
कारयाम आस विधिवन मणिहेमविभूषितम
14 सतम्भान कनकचित्रांश च तॊरणानि बृहन्ति च
यज्ञायतन देशेषु दत्त्वा शुद्धं च काञ्चनम
15 अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम
कारयाम आस धर्मात्मा तत्र तत्र यथाविधि
16 बराह्मणानां च वेश्मानि नानादेशसमेयुषाम
कारयाम आस भीमः स विविधानि हय अनेकशः
17 तथा संप्रेषयाम आस दूतान नृपतिशासनात
भीमसेनॊ महाराज राज्ञाम अक्लिष्टकर्मणाम
18 ते परियार्थं कुरुपतेर आययुर नृपसत्तमाः
रत्नान्य अनेकान्य आदाय सत्रियॊ ऽशवान आयुधानि च
19 तेषां निविशतां तेषु शिबिरेषु सहस्रशः
नर्दतः सागरस्येव शब्दॊ दिवम इवास्पृशत
20 तेषाम अभ्यागतानां स राजा राजीवलॊचनः
वयादिदेशान्न पानानि शय्याश चाप्य अति मानुषाः
21 वाहनानां च विविधाः शालाः शालीक्षु गॊरसैः
उपेताः पुरुषव्याघ्र वयादिदेश स धर्मराट
22 तथा तस्मिन महायज्ञे धर्मराजस्य धीमतः
समाजग्मुर मुनिगणा बहवॊ बरह्मवादिनः
23 ये च दविजातिप्रवरास तत्रासन पृथिवीपते
समाजग्मुः स शिष्यांस तान पतिजग्राह कौरवः
24 सर्वांश च तान अनुययौ यावद आवसथाद इति
सवयम एव महातेजा दम्भं तयक्त्वा युधिष्ठिरः
25 ततः कृत्वा सथपतयः शिल्पिनॊ ऽनये च ये तदा
कृत्स्नं यज्ञविधिं राजन धर्मराज्ञे नयवेदयन
26 तच छरुत्वा धर्मराजः स कृतं सर्वम अनिन्दितम
हृष्टरूपॊ ऽभवद राजा सह भरातृभिर अच्युतः