अध्याय 71

महाभारत संस्कृत - आश्वमेधिकपर्व

1 [व] एवम उक्तस तु कृष्णेन धर्मपुत्रॊ युधिष्ठिरः
वयासम आमन्त्र्य मेधावी ततॊ वचनम अब्रवीत

2 यथाकालं भवान वेत्ति हयमेधस्य तत्त्वतः
दीक्षयस्व तदा मा तवं तवय्य आयत्तॊ हि मे करतुः

3 [व] अहं पैलॊ ऽथ कौन्तेय याज्ञवल्क्यस तथैव च
विधानं यद्य अथाकालं तत कर्तारॊ न संशयः

4 चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति
संभाराः संभ्रियन्तां ते यज्ञार्थं पुरुषर्षभ

5 अश्वविद्या विदश चैव सूता विप्राश च तद्विदः
मेध्यम अश्वं परीक्षन्तां तव यज्ञार्थ सिद्धये

6 तम उत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम
स पर्येतु यशॊ नाम्ना तव पार्थिव वर्धयन

7 [व] इत्य उक्तः स तथेत्य उक्त्वा पाण्डवः पृथिवीपतिः
चकार सर्वं राजेन्द्र यथॊक्तं बरह्मवादिना
संभाराश चैव राजेन्द्र सर्वे संकल्पिताभवन

8 स संभारान समाहृत्य नृपॊ धर्मात्मजस तदा
नयवेदयद अमेयात्मा कृष्णद्वैपायनाय वै

9 ततॊ ऽबरवीन महातेजा वयासॊ धर्मात्मजं नृपम
यथाकालं यथायॊगं सज्जाः सम तव दीक्षणे

10 सफ्यश च कूर्चश च सौवर्णॊ यच चान्यद अपि कौरव
तत्र यॊग्यं भवेत किं चित तद रौक्मं करियताम इति

11 अश्वश चॊत्सृज्यताम अद्य पृथ्व्याम अथ यथाक्रमम
सुगुप्तश च चरत्व एष यथाशास्त्रं युधिष्ठिर

12 [य] अयम अश्वॊ मया बरह्मन्न उत्सृष्टः पृथिवीम इमाम
चरिष्यति यथाकामं तत्र वै संविधीयताम

13 पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम
कः पालयेद इति मुने तद भवान वक्तुम अर्हति

14 [व] इत्य उक्तः स तु राजेन्द्र कृष्णद्वैपायनॊ ऽबरवीत
भीमसेनाद अवरजः शरेष्ठः सर्वधनुष्मताम

15 जिष्णुः सहिष्णुर धृष्णुश च स एनं पालयिष्यति
शक्तः स हि महीं जेतुं निवातकवचान्तकः

16 तस्मिन हय अस्त्राणि दिव्यानि दिव्यं संहननं तथा
दिव्यं धनुश चेषुधी च स एनम अनुयास्यति

17 स हि धर्मार्थकुशलः सर्वविद्या विशारदः
यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम

18 राजपुत्रॊ महाबाहुः शयामॊ राजीवलॊचनः
अभिमन्यॊः पिता वीरः स एनम अनुयास्यति

19 भीमसेनॊ ऽपि तेजस्वी कौन्तेयॊ ऽमितविक्रमः
समर्थॊ रक्षितुं राष्ट्रं नकुलश च विशां पते

20 सहदेवस तु कौरव्य समाधास्यति बुद्धिमान
कुटुम्ब तन्त्रं विधिवत सर्वम एव महायशाः

21 तत तु सर्वं यथान्यायम उक्तं कुरुकुलॊद्वहः
चकार फल्गुनं चापि संदिदेश हयं परति

22 [य] एह्य अर्जुन तवया वीर हयॊ ऽयं परिपाल्यताम
तवम अर्हॊ रक्षितुं हय एनं नान्यः कश चन मानवः

23 ये चापि तवां महाबाहॊ परत्युदीयुर नराधिपाः
तैर विग्रहॊ यथा न सयात तथा कार्यं तवयानघ

24 आख्यातव्यश च भवता यज्ञॊ ऽयं मम सर्वशः
पार्थिवेभ्यॊ महाबाहॊ समये गम्यताम इति

25 एवम उक्त्वा स धर्मात्मा भरातरं सव्यसाचिनम
भीमं च नकुलं चैव पुरगुप्तौ समादधत

26 कुटुम्ब तन्त्रे च तथा सहदेवं युधां पतिम
अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः

अध्याय 7
अध्याय 7