अध्याय 7

महाभारत संस्कृत - आश्वमेधिकपर्व

1 [स] कथम अस्मि तवया जञातः केन वा कथितॊ ऽसमि ते
एतद आचक्ष्व मे तत्त्वम इच्छसे चेत परियं मम

2 सत्यं ते बरुवतः सर्वे संपत्स्यन्ते मनॊरथाः
मिथ्या तु बरुवतॊ मूर्धा सप्तधा ते फलिष्यति

3 [म] नारदेन भवान मह्यम आख्यातॊ हय अटता पथि
गुरुपुत्रॊ ममेति तवं ततॊ मे परीतिर उत्तमा

4 [स] सत्यम एतद भवान आह स मां जानाति सत्रिणम
कथयस्वैतद एकं मे कव नु संप्रति नारदः

5 [म] भवन्तं कथयित्वा तु मम देवर्षिसत्तमः
ततॊ माम अभ्यनुज्ञाय परविष्टॊ हव्यवाहनम

6 शरुत्वा तु पार्थिवस्यैतत संवर्तः परया मुदा
एतावद अहम अप्य एनं कुर्याम इति तदाब्रवीत

7 ततॊ मरुत्तम उन्मत्तॊ वाचा निर्भर्त्सयन्न इव
रूक्षया बराह्मणॊ राजन पुनः पुनर अथाब्रवीत

8 वातप्रधानेन मया सवचित्तवशवर्तिना
एवं विकृतरूपेण कथं याजितुम इच्छसि

9 भराता मम समर्थश च वासवेन च सत्कृतः
वर्तते याजने चैव तेन कर्माणि कारय

10 गृहं सवं चैव याज्याश च सर्वा गुह्याश च देवताः
पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं तव इदम

11 नाहं तेनाननुज्ञातस तवाम आविक्षित कर्हि चित
याजयेयं कथं चिद वै स हि पूज्यतमॊ मम

12 स तवं बृहस्पतिं गच्छ तम अनुज्ञाप्य चाव्रज
ततॊ ऽहं याजयिष्ये तवां यदि यष्टुम इहेच्छसि

13 [म] बृहस्पतिं गतः पूर्वम अहं संवर्ततच छृणु
न मां कामयते याज्यम असौ वासव वारितः

14 अमरं याज्यम आसाद्य माम ऋषे मा सम मानुषम
याजयेथा मरुत्तं तवं मर्त्यधर्माणम आतुरम

15 सपर्धते च मया विप्र सदा वै स हि पार्थिवः
एवम अस्त्व इति चाप्य उक्तॊ भरात्रा ते बलवृत्रहा

16 स माम अभिगतं परेम्णा याज्यवन न बुभूषति
देवराजम उपाश्रित्य तद विद्धि मुनिपुंगव

17 सॊ ऽहम इच्छामि भवता सर्वस्वेनापि याजितुम
कामये समतिक्रान्तुं वासवं तवत्कृतैर गुणैः

18 न हि मे वर्तते बुद्धिर गन्तुं बरह्मन बृहस्पतिम
परत्याख्यातॊ हि तेनास्मि तथानपकृते सति

19 [स] चिकीर्षसि यथाकामं सर्वम एतत तवयि धरुवम
यदि सर्वान अभिप्रायान कर्तासि मम पार्थिव

20 याज्यमानं मया हि तवां बृहस्पतिपुरंदरौ
दविषेतां समभिक्रुद्धाव एतद एकं समर्थय

21 सथैर्यम अत्र कथं ते सयात स तवं निःसंशयं कुरु
कुपितस तवां न हीदानीं भस्म कुर्यां स बान्धवम

22 [म] यावत तपेत सहस्रांशुस तिष्ठेरंश चापि पर्वताः
तावल लॊकान न लभेयं तयजेयं संगतं यदि

23 मा चापि शुभबुद्धित्वं लभेयम इह कर्हि चित
सम्यग जञाने वैषये वा तयजेयं संगतं यदि

24 [स] आविक्षित शुभा बुद्धिर धीयतां तव कर्मसु
याजनं हि ममाप्य एवं वर्तते तवयि पार्थिव

25 संविधास्ये च ते राजन्न अक्षयं दरव्यम उत्तमम
येन देवान स गन्धर्वाञ शक्रं चाभिभविष्यसि

26 न तु मे वर्तते बुद्धिर धने याज्येषु वा पुनः
विप्रियं तु चिकीर्षामि भरातुश चेन्द्रस्य चॊभयॊः

27 गमयिष्यामि चेन्द्रेण समताम अपि ते धरुवम
परियं च ते करिष्यामि सत्यम एतद बरवीमि ते

अध्याय 8
अध्याय 6