अध्याय 4

महाभारत संस्कृत - आश्वमेधिकपर्व

1 [य] शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम
दवैपायन मरुत्तस्य कथां परब्रूहि मे ऽनघ

2 [व] आसीत कृतयुगे पूर्वं मनुर दण्डधरः परभुः
तस्य पुत्रॊ महेष्वासः परजातिर इति विश्रुतः

3 परजातेर अभवत पुत्रः कषुप इत्य अभिविश्रुतः
कषुपस्य पुत्रस तव इक्ष्वाकुर महीपालॊ ऽभवत परभुः

4 तस्य पुत्रशतं राजन्न आसीत परमधार्मिकम
तांस्त तु सर्वान महीपालान इक्ष्वाकुर अकरॊत परभुः

5 तेषां जयेष्ठस तु विंशॊ ऽभूत परतिमानं धनुष्मताम
विंशस्य पुत्रः कल्याणॊ विविंशॊ नाम भारत

6 विविंशस्य सुता राजन बभूवुर दश पञ्च च
सर्वे धनुषि विक्रान्ता बरह्मण्याः सत्यवादिनः

7 दानधर्मरताः सन्तः सततं परियवादिनः
तेषां जयेष्ठः खनी नेत्रः स तान सर्वान अपीडयत

8 सवनीनेत्रस तु विक्रान्तॊ जित्वा राज्यम अकण्टकम
नाशक्नॊद रक्षितुं राज्यं नान्वरज्यन्त तं परजाः

9 तम अपास्य च तद राष्ट्रं तस्य पुत्रं सुवर्चसम
अभ्यषिञ्चत राजेन्द्र मुदितं चाभवत तदा

10 स पितुर विक्रियां दृष्ट्वा राज्यान निरसनं तथा
नियतॊ वर्तयाम आस परजाहितचिकीर्षया

11 बरह्मण्यः सत्यवादी च शुचिः शम दमान्वितः
परजास तं चान्वरज्यन्त धर्मनित्यं मनस्विनम

12 तस्य धर्मप्रवृत्तस्य वयशीर्यत कॊशवाहनम
तं कषीणकॊशं सामन्ताः समन्तात पर्यपीडयन

13 स पीड्यमानॊ बहुभिः कषीणकॊशस तव अवाहनः
आर्तिम आर्छत परां राजा सह भृत्यैः पुरेण च

14 न चैनं परिहर्तुं ते ऽशक्नुवन परिसंक्षये
सम्यग्वृत्तॊ हि राजा स धर्मनित्यॊ युधिष्ठिर

15 यदा तु परमाम आर्तिं गतॊ ऽसौ स पुरॊ नृपः
ततः परदध्मौ स करं परादुरासीत ततॊ बलम

16 ततस तान अजयत सर्वान परातिसीमान नराधिपान
एतस्मात कारणाद राजन विश्रुतः स करंधमः

17 तस्य कारंधमः पुत्रस तरेतायुगमुखे ऽभवत
इन्द्राद अनवरः शरीमान देवैर अपि सुदुर्जयः

18 तस्य सर्वे महीपाला वर्तन्ते सम वशे तदा
स हि सम्राड अभूत तेषां वृत्तेन च बलेन च

19 अविक्षिन नाम धर्मात्मा शौर्येणेन्द्र समॊ ऽभवत
यज्ञशीलः कर्म रतिर धृतिमान संयतेन्द्रियः

20 तेजसादित्यसदृशः कषमया पृथिवीसमः
बृहस्पतिसमॊ बुद्ध्या हिमवान इव सुस्थिरः

21 कर्मणा मनसा वाचा दमेन परशमेन च
मनांस्य आराधयाम आस परजानां स महीपतिः

22 य ईजे हयमेधानां शतेन विधिवत परभुः
याजयाम आस यं विद्वान सवयम एवाङ्गिराः परभुः

23 तस्य पुत्रॊ ऽतिचक्राम पितरं गुणवत्तया
मरुत्तॊ नाम धर्मज्ञश चक्रवर्ती महायशाः

24 नागायुत समप्राणः साक्षाद विष्णुर इवापरः
स यक्ष्यमाणॊ धर्मात्मा शातकुम्भमयान्य उत
कारयाम आस शुभ्राणि भाजनानि सहस्रशः

25 मेरुं पर्वतम आसाद्य हिमवत्पार्श्व उत्तरे
काञ्चनः सुमहान पादस तत्र कर्म चकार सः

26 ततः कुण्डानि पात्रीश च पिठराण्य आसनानि च
चक्रुः सुवर्णकर्तारॊ येषां संख्या न विद्यते

27 तस्यैव च समीपे स यज्ञवाटॊ बभूव ह
ईजे तत्र स धर्मात्मा विधिवत पृथिवीपतिः
मरुत्तः सहितैः सर्वैः परजा पालैर नराधिपः

अध्याय 5
अध्याय 3