अध्याय 31

महाभारत संस्कृत - आश्वमेधिकपर्व

1 [बर] तरयॊ वै रिपवॊ लॊके नव वै गुणतः समृताः
हर्षः सतम्भॊ ऽभिमानश च तरयस ते सात्त्विका गुणाः

2 शॊकः करॊधॊ ऽतिसंरम्भॊ राजसास ते गुणाः समृताः
सवप्नस तन्द्री च मॊहश च तरयस ते तामसा गुणाः

3 एतान निकृत्य धृतिमान बाणसंधैर अतन्द्रितः
जेतुं परान उत्सहते परशान्तात्मा जितेन्द्रियः

4 अत्र गाथाः कीर्तयन्ति पुराकल्पविदॊ जनाः
अम्बरीषेण या गीता राज्ञा राज्यं परशासता

5 समुदीर्णेषु दॊषेषु वध्यमानेषु साधुषु
जग्राह तरसा राज्यम अम्बरीष इति शरुतिः

6 स निगृह्य महादॊषान साधून समभिपूज्य च
जगाम महतीं सिद्धिं गाथां चेमां जगाद ह

7 भूयिष्ठं मे जिता दॊषा निहताः सर्वशत्रवः
एकॊ दॊषॊ ऽवशिष्टस तु वध्यः स न हतॊ मया

8 येन युक्तॊ जन्तुर अयं वैतृष्ण्यं नाधिगच्छति
तृष्णार्त इव निम्नानि धावमानॊ न बुध्यते

9 अकार्यम अपि येनेह परयुक्तः सेवते नरः
तं लॊभम असिभिस तीक्ष्णैर निकृन्तन्तं निकृन्तत

10 लॊभाद धि जायते तृष्णा ततश चिन्ता परसज्यते
स लिप्समानॊ लभते भूयिष्ठं राजसान गुणान

11 स तैर गुणैः संहतदेहबन्धनः; पुनः पुनर जायति कर्म चेहते
जन्म कषये भिन्नविकीर्ण देहः; पुनर मृत्युं गच्छति जन्मनि सवे

12 तस्माद एनं सम्यग अवेक्ष्य लॊभं; निगृह्य धृत्यात्मनि राज्यम इच्छेत
एतद राज्यं नान्यद अस्तीति विद्याद; यस तव अत्र राजा विजितॊ ममैकः

13 इति राज्ञाम्बरीषेण गाथा गीता यशस्विना
आधिराज्यं पुरस्कृत्य लॊभम एकं निकृन्तता

अध्याय 3
अध्याय 3