अध्याय 30

महाभारत संस्कृत - आश्वमेधिकपर्व

1 [पितरह] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
शरुत्वा च तत तथा कार्यं भवता दविजसत्तम

2 अलर्कॊ नाम राजर्षिर अभवत सुमहातपाः
धर्मज्ञः सत्यसंधश च महात्मा सुमहाव्रतः

3 स सागरान्तां धनुषा विनिर्जित्य महीम इमाम
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे

4 सथितस्य वृक्षमूले ऽथ तस्य चिन्ता बभूव ह
उत्सृज्य सुमहद राज्यं सूक्ष्मं परति महामते

5 [अ] मनसॊ मे बलं जातं मनॊ जित्वा धरुवॊ जयः
अन्यत्र बाणान अस्यामि शत्रुभिः परिवारितः

6 यद इदं चापलान मूर्तेः सर्वम एतच चिकीर्षति
मनः परति सुतीक्ष्णाग्रान अहं मॊक्ष्यामि सायकान

7 [मनस] नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि

8 अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यसि
तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत

9 [अ] आघ्राय सुबहून गन्धांस तान एव परतिगृध्यति
तस्माद घराणं परति शरान परतिमॊक्ष्याम्य अहं शितान

10 [घराण] नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि

11 अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यसि
तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत

12 [अ] इयं सवादून रसान भुक्त्वा तान एव परतिगृध्यति
तस्माज जिह्वां परति शरान परतिमॊक्ष्याम्य अहं शितान

13 [ज] नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि

14 अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यसि
तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत

15 [अ] सृष्ट्वा तवग विविधान सपर्शांस तान एव परतिगृध्यति
तस्मात तवचं पाटयिष्ये विविधैः कङ्कपत्रभिः

16 [तवच] नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि

17 अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यसि
तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत

18 [अ] शरुत्वा वै विविधाञ शब्दांस तान एव परतिगृध्यति
तस्माच छरॊत्रं परति शरान परतिमॊक्ष्याम्य अहं शितान

19 [षरॊत्र] नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन
तवैव मर्म भेत्स्यन्ति ततॊ हास्यसि जीवितम

20 अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यसि
तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत

21 [अ] दृष्ट्वा वै विविधान भावांस तान एव परतिगृध्यति
तस्माच चक्षुः परति शरान परतिमॊक्ष्याम्य अहं शितान

22 [च] नेमे बाणास तरिष्यन्ति मामालर्क कथं चन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि

23 अन्यान बाणान समीक्षस्व यैस तवं मां सूदयिष्यति
तच छरुत्वा स विचिन्त्याथ ततॊ वचनम अब्रवीत

24 [अ] इयं निष्ठा बहुविधा परज्ञया तव अध्यवस्यति
तस्माद बुद्धिं परति शरान परतिमॊक्ष्याम्य अहं शितान

25 [चक्सुस] नेमे बाणास तरिष्यन्ति माम अलर्क कथं चन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि

26 [पितरह] ततॊ ऽलर्कस तपॊ घॊरम आस्थायाथ सुदुष्करम
नाध्यगच्छत परं शक्त्या बाणम एतेषु सप्तसु
सुसमाहित चित्तास तु ततॊ ऽचिन्तयत परभुः

27 स विचिन्त्य चिरं कालम अलर्कॊ दविजसत्तम
नाध्यगच्छत परं शरेयॊ यॊगान मतिमतां वरः

28 स एकाग्रं मनः कृत्वा निश्चलॊ यॊगम आस्थितः
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान

29 यॊगेनात्मानम आविश्य संसिद्धिं परमां ययौ
विस्मितश चापि राजर्षिर इमां गाथां जगाद ह
अहॊ कष्टं यद अस्माभिः पूर्वं राज्यम अनुष्ठितम
इति पश्चान मया जञातं यॊगान नास्ति परं सुखम

30 इति तवम अपि जानीहि राम मा कषत्रियाञ जहि
तपॊ घॊरम उपातिष्ठ ततः शरेयॊ ऽभिपत्स्यसे

31 [बर] इत्य उक्तः स तपॊ घॊरं जामदग्न्यः पितामहैः
आस्थितः सुमहाभागॊ ययौ सिद्धिं च दुर्गमाम

अध्याय 3
अध्याय 2